कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

ल (2/2)

लोलस्तु पुंसि मेढ्रे स्याल्लोली संगीतभिद्यपि ।लोलुपस्त्रिषु लुब्धे स्याल्लोलुपा योगिनीभिदि ॥ ४९२८ ॥
44.4928 · p. 367
अनुष्टुप्
लोष्टोऽस्त्री लेष्टुके सीम्नि लोष्टं क्लीबमयोमले ।लोहोऽस्त्री मरिचस्वर्णागुर्वयःसु च तैजसे ॥ ४९२९ ॥
44.4929 · p. 367
अनुष्टुप्
द्वयोः पक्ष्यन्तरे रक्तच्छागे रक्ते तु वाच्यवत् ।लोहजं कांस्यलोहे क्ली भेद्यवल्लोहसम्भवे ॥ ४९३० ॥
44.4930 · p. 367
अनुष्टुप्
लोहद्रावी तु योगार्थे स तु स्यात्पुंसि टङ्कणे ।लोहपृष्ठो द्वयोः कङ्के चरकः प्रतुदान्तरे ॥ ४९३१ ॥
44.4931 · p. 367
अनुष्टुप्
लोहलोऽस्फुटवाचि त्रिः शृङ्खलाधार्य एष ना ।स्याल्लोहसङ्करो लोहमिश्रणे क्ल्युत्तमायसे ॥ ४९३२ ॥
44.4932 · p. 367
अनुष्टुप्

लोहायसं-लौहित्यं

लोहायसं ताम्रभवे त्रि क्ली तु ताम्रेण मिश्रिते ।लोहितं तु मतं ताम्रे कुङ्कुमे रक्तचन्दने ॥ ४९३३ ॥
44.4933 · p. 368
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रुधिरे रक्तगोशीर्षे पद्मरागमणावपि ।अशुभेन्द्रायुधभिदि कदनेऽपि प्रकीर्त्तितम् ॥ ४९३४ ॥
44.4934 · p. 368
अनुष्टुप्
रोहिताख्यान्तरे सर्पभेदेऽपि हरिणान्तरे ।पुमांस्तु रत्नभेदेऽपि रोगेऽप्यक्षिपुटार्दिनि ॥ ४९३५ ॥
44.4935 · p. 368
अनुष्टुप्
रक्तशालावतस्यां चाङ्गारके मत्स्यभिद्यपि ।ब्रह्मपुत्रनदे वार्ध्यन्तरे देशान्तरे तथा ॥ ४९३६ ॥
44.4936 · p. 368
अनुष्टुप्
रक्तवर्णे त्रिस्तु तद्वत्यत्र रूपद्वयं स्त्रियाम् ।लोहिनी लोहिता चेति लोहिता तु स्त्रियामियम् ॥ ४९३७ ॥
44.4937 · p. 368
अनुष्टुप्
पुनर्नवायां रक्तायां स्तम्बे लज्जालुनामनि ।पद्मरागे लोहितकोऽस्त्री त्रिः कोपादिलोहिते ॥ ४९३८ ॥
44.4938 · p. 368
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 लो (wrong syllable)
तत्र स्त्रियां लोहितिका रूपं लोहिनिकेति च ।कांस्ये लोहितकं क्लीबं स्त्री तु लोहितिकामता ॥ ४९३९ ॥
44.4939 · p. 368
अनुष्टुप्
रक्ताशयान्तरे कस्याञ्चनभेषजभिद्यपि ।लोहिते चन्दने न स्त्री प्रोक्तो लोहितचन्दनः ॥ ४९४० ॥
44.4940 · p. 368
अनुष्टुप्
कुङ्कुमे तु मतं क्लीबमिदं लोहितचन्दनम् ।स्त्रीत्वे लोहितपुष्पी स्यात् पुन्तु दाडिमवृक्षके ॥ ४९४१ ॥
44.4941 · p. 368
अनुष्टुप्
पुमाँल्लोहितपुष्पोऽसौ दाडिमे परिकीर्त्तितः ।लोहिताक्षः सर्पभेदे कोकिलेऽपि द्वयोर्मतः ॥ ४९४२ ॥
44.4942 · p. 368
अनुष्टुप्
विष्णौ तु लोहितेऽप्यक्षे [त्रिर्नब्रक्ताशयान्तरे] ।लोहिताक्षो मतो वह्नौ तथा शम्भावपि क्वचित् ॥ ४९४३ ॥
44.4943 · p. 368
अनुष्टुप्
योगार्थे नकुले तु द्वे कथितो लोहिताननः ।लोहित्यो दक्षिणाब्धौ च शालिभिद्ब्रह्मपुत्रयोः ॥ ४९४४ ॥
44.4944 · p. 368
अनुष्टुप्
लौल्यं क्लीबं सतृष्णत्वे चाञ्चल्येऽपि प्रकीर्त्तितम् ।लौहं क्लीबमयस्युक्तं लोहसम्बन्धिनि त्रिषु ॥ ४९४५ ॥
44.4945 · p. 368
अनुष्टुप्
लौहा तु लोहरचितपाकपात्रान्तरे मता ।लौहित्यं लोहितत्वे क्ली ब्रह्मपुत्रनदे पुमान् ॥ ४९४६ ॥
44.4946 · p. 368
अनुष्टुप्