All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
च (2/2)
चैत्यं चिताऽङ्गे बुद्धाऽण्डे याज्ञिकाज्याधिवासने ।देवालये च क्लीबं स्यादस्त्री तूद्देशपादपे ॥ २१५८ ॥
22.2158 · p. 160
अनुष्टुप्
चैत्रः पुंसि वसन्तस्य प्रथमे मास्यथ स्त्रियाम् ।चैत्रं मृते देवकुले ना भूभृन्मांसभेदयोः ॥ २१५९ ॥
22.2159 · p. 160
अनुष्टुप्
तत्स्थायां पौर्णमास्यां स्याच्चैत्री भेत्ता तु चित्रया ।नक्षत्रेण युते कालभेदे चित्राह्वये पुनः ॥ २१६० ॥
22.2160 · p. 160
अनुष्टुप्
काले जाते स यदि स्यादस्त्र्यर्थश्च ततश्च सः ।पारिशेष्याद्यथायोग्यं विज्ञेयो नपि पुंसि वा ॥ २१६१ ॥
22.2161 · p. 160
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 य (wrong syllable)
क्लीबं चैत्ररथं यक्षराजोद्याने प्रकीर्त्तितम् ।अहीनक्रतुभेदे तु द्विरात्रे मन्मथे च ना ॥ २१६२ ॥
22.2162 · p. 160
अनुष्टुप्
चैद्याश्चेदिषु पुंभूम्नि द्वे तु चेदीशपुत्रयोः ।चोक्षो गीतान्तरे नाऽथ त्रिर्दक्षशुचिचारुषु ॥ २१६३ ॥
22.2163 · p. 160
अनुष्टुप्
चोचन्तरुत्वचि तथा भृङ्गाख्ये गन्धवस्तुनि ।चोडः प्रावरणे पुंसि देशभेदे नृभूमनि ॥ २१६४ ॥
22.2164 · p. 160
अनुष्टुप्
चोदना वेदवाक्ये स्त्री कर्कट्यां चोदनी मता ।प्रेषणे तु विरोधोक्तावपि स्याच्चोदना नना ॥ २१६५ ॥
22.2165 · p. 160
अनुष्टुप्
चोद्यं स्यादद्भुते प्रश्ने चोदनीये तु वाच्यवत् ।आश्चर्यविषये चैव प्रश्नस्य विषयेऽपि च ॥ २१६६ ॥
22.2166 · p. 160
अनुष्टुप्
चोलस्तु पुंसि कूर्पासे करमर्दद्रुमेऽप्यथ ।तत्फले क्ली दाक्षिणात्यनीवृद्भेदे तु भूम्नि ना ॥ २१६७ ॥
22.2167 · p. 160
अनुष्टुप्
तद्राजे तु पुमानस्य सन्ताने तु द्वयोरयम् ।गृहच्छदिःषु त्वस्त्री स्याच्चोलो जानपदेष्वयम् ॥ २१६८ ॥
22.2168 · p. 160
अनुष्टुप्
चोलकी तु त्रिषु ज्ञेयश्चोलकेन समन्विते ।पुमांस्तु नागरङ्गे च करीरे किष्कुपर्वणि ॥ २१६९ ॥
22.2169 · p. 160
अनुष्टुप्
चौरिको ना पुराऽध्यक्षे द्यूतकारे तु स द्वयोः ।चौरिका तु स्त्रियामेव स्तेये सम्परिकीर्त्तिता ॥ २१७० ॥
22.2170 · p. 160
अनुष्टुप्
चौलम्-छर्दनः
चौलन्तु चूडाकरणे त्रि तु स्याच्चोलयोगिनि ।च्यवनो मुनिभेदे स्याच्च्यवनं प्रच्युतौ मतम् ॥ २१७१ ॥
22.2171 · p. 161
अनुष्टुप्
च्युतादानं कन्दुकादानदण्डेऽपि च्युतग्रहे ।च्युतिः स्त्री च्यवने योनौ वायौ च च्योततौ तु ना ॥ २१७२ ॥
22.2172 · p. 161
अनुष्टुप्
च्यूपः पुमान् रवौ वाते युद्धेऽपि च पुमान्मतः ॥ २१७२-१/२ ॥
22.136 · p. 161