All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
क (6/7)
कृविः पुमांस्तन्तुवायद्रव्ये रूपे द्वयोस्त्वसौ ।कुविन्दे कर्त्तिकाख्ये तु स्त्रियां नापितभाण्डके ॥ १५४३ ॥
17.1543 · p. 115
अनुष्टुप्
कृशस्तनौ वाच्यवत्स्यात्पुमान्केतुग्रहेष्वियम् ।कृषको लाङ्गलाख्ये ना कूटाख्ये त्रिः कृषिवले ॥ १५४४ ॥
17.1544 · p. 115
metre not recognisednearly अनुष्टुप्: pāda 4, syllable 6 षि (wrong syllable)
कृषिः स्त्री कृषिभूमौ च कर्षणे च प्रकीर्त्तिता ।धातौ तु कृषतावुक्तः कर्षणे च पुमान्कृषिः ॥ १५४५ ॥
17.1545 · p. 115
अनुष्टुप्
कृषिकस्तृणजातौ ना कृषिकं लाङ्गले मतम् ।कृष्टं त्रि सामगानस्य रीत्यान्यतमयान्विते ॥ १५४६ ॥
17.1546 · p. 115
अनुष्टुप्
कृष्टिः-केतुमान्
प्राप्ते च कृष्टिक्रियया कर्षणे तु नपुंसकम् ।कृष्टिः पुमान्बुधे स्त्री तु कर्षणे च जनेऽपि च ॥ १५४७ ॥
17.1547 · p. 116
अनुष्टुप्
कृष्णन्नपुंसकं सीसे मरिचे दुरितेऽयसि ।करमर्दफले चाथ पुमान्विष्णौ च पावके ॥ १५४८ ॥
17.1548 · p. 116
अनुष्टुप्
ध्वान्तपक्षे व्रीहिभेदे व्यासे शुक्रे तथाऽर्जुने ।मेघे कलियुगे चापि करमर्दद्रुमेऽपि च ॥ १५४९ ॥
17.1549 · p. 116
अनुष्टुप्
नीलवर्णेऽप्यथो नैल्ययुक्ते चकितचेतसि ।वाच्यलिङ्गो द्वयोस्तु स्याच्छूद्रे वन्ये मृगेप्यरौ ॥ १५५० ॥
17.1550 · p. 116
अनुष्टुप्
काककोकिलयोराखुजातिभेदेऽप्यथ स्त्रियाम् ।कृष्णा स्याद्राजिकाधान्यपिप्पलीद्रौपदीषु च ॥ १५५१ ॥
17.1551 · p. 116
अनुष्टुप्
जलूकाजातिभेदेषु द्वादशस्वपि षट् स्मृताः ।सविषास्तेषु चैकस्मिन्द्राक्षातिविषयोरपि ॥ १५५२ ॥
17.1552 · p. 116
अनुष्टुप्
हिरण्याद्याश्च याः प्रोक्ताः सप्तजिह्वाः शिवागमे ।अग्नेस्तास्वपि चैकस्यां या दक्षिणदिशि स्थिता ॥ १५५३ ॥
17.1553 · p. 116
अनुष्टुप्
कृष्णवर्णस्तु संवर्त्ते वातुलेऽपि चलेऽपि ना ।कृष्णवर्त्मा दुराचारे त्रिर्ना चन्द्रे च पावके ॥ १५५४ ॥
17.1554 · p. 116
अनुष्टुप्
कृष्णवृन्ता तु पाटल्यां माषपर्णाह्वयौषधौ ।कार्ष्मर्ये च स्त्रियां ना तु कृष्णवृन्तः कुलत्थके ॥ १५५५ ॥
17.1555 · p. 116
अनुष्टुप्
कृष्णसर्पस्तु कृष्णेऽहौ द्वयोर्दर्वीकरान्तरे ।कृष्णसारा शिंशपायां ना स्नुह्यां द्वे मृगान्तरे ॥ १५५६ ॥
17.1556 · p. 116
अनुष्टुप्
कृसरस्त्विङ्गुदितरौ मिश्रवर्णान्तरे पुमान् ।त्रिस्तद्वति कशेर्वाख्ये तु क्लीबं वारिगुल्मके ॥ १५५७ ॥
17.1557 · p. 116
अनुष्टुप्
सिततण्डुलमाषैस्तु यवाग्वां कृसरा त्रिषु ।केतः पुमान्स्यादिच्छायां तथा चिह्ननिवासयोः ॥ १५५८ ॥
17.1558 · p. 116
अनुष्टुप्
केतनन्तु ध्वजे गेहे चापे चोपनिमन्त्रणे ।अकार्यकृत्यदेहेषु संकेतस्थान एव च ॥ १५५९ ॥
17.1559 · p. 116
अनुष्टुप्
केतुर्ध्वजे च चिह्ने च ना प्रज्ञोत्पातरश्मिषु ।केतुमान्केतुयुक्ते त्रिश्छन्दोभेदे स्त्रियां मता ॥ १५६० ॥
17.1560 · p. 116
अनुष्टुप्
केतुमती-केसरः
केतुमत्युदिताच्छन्दोन्तरे त्रिस्तु सकेतुके ।केतुमाला नृभूदेशभेदे तीर्थान्तरे स्त्रियाम् ॥ १५६१ ॥
17.1561 · p. 117
अनुष्टुप्
पुमानाग्नीध्रतनये क्लीबं वर्षान्तरे भवेत् ।केदरो वृक्षभेदेऽथ त्रिषु स्यादेषके करे ॥ १५६२ ॥
17.1562 · p. 117
अनुष्टुप्
केदारो ना शिवेऽथाऽस्त्री शालिक्षेत्रालवालयोः ।पुण्यस्थानविशेषे च क्षेत्रे भूम्यन्तरेऽपि च ॥ १५६३ ॥
17.1563 · p. 117
अनुष्टुप्
केनारः कुम्भिनरके शिरःकापालसंधिषु ।केरलास्तु नृभूम्नि स्युर्दक्षिणापथवर्त्तिनि ॥ १५६४ ॥
17.1564 · p. 117
अनुष्टुप्
नीवृद्भेदेऽथ तद्देशसम्भूतेषु नृषु द्वयोः ।तद्राजे तु पुमाञ्ज्ञेयः केरलः स्त्री तु केरली ॥ १५६५ ॥
17.1565 · p. 117
अनुष्टुप्
तद्राजन्यस्त्र्यपत्ये स्यात्तथा स्याद्भेषजान्तरे ।त्रिषु केलिकिलः क्रीडाशीले ना तु विदूषके ॥ १५६६ ॥
17.1566 · p. 117
अनुष्टुप्
कूष्माण्डाख्ये शिवगणे हेरम्बस्य प्रियङ्करे ।केवलस्तु त्रिरेकाकिकृत्स्नयोरवधारिते ॥ १५६७ ॥
17.1567 · p. 117
अनुष्टुप्
ज्ञाने तु पूर्णे क्लीबं स्यान्निर्णये चाऽवधारणे ।केवलस्तु पुमानेष कुहने परिकीर्त्तितः ॥ १५६८ ॥
17.1568 · p. 117
अनुष्टुप्
केशः स्यात्पुंसि वरुणे ह्रीबेरे कुन्तलेऽपि च ।केशपाशी तु चूडार्थे स्त्री ना केशकलापके ॥ १५६९ ॥
17.1569 · p. 117
अनुष्टुप्
केशरस्तु हरौ पुंसि द्वे छागे त्रिषु तूत्कटे ।केशवः केशिनि त्रि स्याद्विष्णुपुन्नागयोः पुमान् ॥ १५७० ॥
17.1570 · p. 117
अनुष्टुप्
त्रिः केशवप्रियो योगे पुंसि वेङ्कटपर्वते ।स्त्री केशवानुजा दुर्गादेव्यां योगे यथायथम् ॥ १५७१ ॥
17.1571 · p. 117
अनुष्टुप्
क्ली केशवायुधं विष्ण्वायुधे च रथचक्रके ।केशी केशवति त्रि स्यात्पुँल्लिङ्गो दानवान्तरे ॥ १५७२ ॥
17.1572 · p. 117
अनुष्टुप्
केशिनी तु भवेच्चोरपुष्पीस्तम्बे स्त्रियामियम् ।केशी स्त्रियां स्याच्चूडायां केशः पुंसि शिरोरुहे ॥ १५७३ ॥
17.1573 · p. 117
अनुष्टुप्
किरणे च भगे चैव ह्रीबेरे च नपुंसकम् ।केसरस्त्वस्त्रियां पुष्पकिञ्जल्केऽप्यश्वसिंहयोः ॥ १५७४ ॥
17.1574 · p. 117
अनुष्टुप्
केसरा-कोटिवर्यम्
सटे च मातुलुङ्गाख्यफलस्यान्तर्द्रवास्पदे ।सूक्ष्मकेशे रामठेऽथ वकुले नागकेसरे ॥ १५७५ ॥
17.1575 · p. 118
अनुष्टुप्
पुन्नागे वेङ्कटाख्ये ना पर्वते केसरा पुनः ।कार्पास्यां स्यात्स्त्रियां क्ली तु प्रसवेऽत्रोक्तभूरुहाम् ॥ १५७६ ॥
17.1576 · p. 118
अनुष्टुप्
केसरी तु पुमान्सिंहे मातुलुङ्गे तुरङ्गमे ।पुन्नागे चाप्यथो भेद्यलिङ्गः केसरवत्यसौ ॥ १५७७ ॥
17.1577 · p. 118
अनुष्टुप्
कैटभोऽसुरभेदे स्याद्दुर्गादेव्यां तु कैटभी ।कैडर्यस्तु पुमान्निम्बे कट्फलाख्ये च पादपे ॥ १५७८ ॥
17.1578 · p. 118
अनुष्टुप्
मदनाख्ये द्रुमेऽथैषान्तरूणाम्प्रसवे नपि ।कैतवं कपटे द्यूते नपुंसकमुदीरितम् ॥ १५७९ ॥
17.1579 · p. 118
अनुष्टुप्
कैरवः कितवे शत्रौ तथा पुँल्लिङ्ग इष्यते ।कैरवं कुमुदे क्लीबं चन्द्रिकायां तु कैरवी ॥ १५८० ॥
17.1580 · p. 118
अनुष्टुप्
किरातसम्बन्धिनि तु कैरातं त्रिषु कीर्त्तितम् ।कैराती तु स्त्रियामूर्ध्वाऽधोगतौ क्षिप्रपत्रिणः ॥ १५८१ ॥
17.1581 · p. 118
अनुष्टुप्
कैवल्यं केवलत्वे च मोक्षे चाऽपि नपुंसकम् ।कैशिकी नाट्यवृत्त्यन्तरे स्त्री क्ली केशवृन्दके ॥ १५८२ ॥
17.1582 · p. 118
अनुष्टुप्
कोकश्चक्रे वृके ज्येष्ठ्यां खर्जूरीद्रुमभेकयोः ।कोकः कोकीवृके भेके चकवाकेऽपि च द्वयोः ॥ १५८३ ॥
17.1583 · p. 118
अनुष्टुप्
पुमांस्तु कोक आदाने ज्येष्ठ्यां खेर्जूरिकातरौ ।क्लीबं कोकनदं रक्ताऽब्जे रक्तकुमुदेऽपि च ॥ १५८४ ॥
17.1584 · p. 118
अनुष्टुप्
कोकिलः पक्षिभेदे द्वे ना तु तूले प्रकीर्त्तितः ।कोटकः कुट्टितर्येष त्रिलिङ्गः परिकीर्त्तितः ॥ १५८५ ॥
17.1585 · p. 118
अनुष्टुप्
कोटिः स्त्री चापमात्रेऽश्रौ प्रकर्षे शकलेऽपि च ।चापाग्रे च तथा संख्याभेदे लक्षशतात्मनि ॥ १५८६ ॥
17.1586 · p. 118
अनुष्टुप्
स्त्री कोटिका भवेत्कृष्णे मण्डूके श्वेतवक्त्रके ।कोटिरः पुंसि नकुले शक्रगोपकशक्रयोः ॥ १५८७ ॥
17.1587 · p. 118
अनुष्टुप्
कोटिवर्यम्पुरे देवीकोटनाम्नि नपुंसकम् ।स्त्री कोटिवर्षा स्पृक्कायां योगार्थे तु यथायथम् ॥ १५८८ ॥
17.1588 · p. 118
अनुष्टुप्
कोट्टङ्गः-कोशः
कोट्टङ्गः स्याद्द्वयोः क्षुद्रे मृगे जन्तुधराऽभिधे ।इन्द्रकोशाख्याऽवयवे पुंस्ययं वेश्मनो मतः ॥ १५८९ ॥
17.1589 · p. 119
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ख्याऽ (wrong syllable)
कोट्टारो नरके कूपे पुष्करिण्याश्च पाटके ।कोणो वाद्यप्रभेदे स्यादेकदेशे गृहादिनः ॥ १५९० ॥
17.1590 · p. 119
अनुष्टुप्
शनैश्चरे चौलगुडे शब्दे कोणा तु नप्स्त्रियोः ।नाट्यवादनभेदे द्वे कोणः कोणीति सैरिभे ॥ १५९१ ॥
17.1591 · p. 119
अनुष्टुप्
कोणिका तु स्त्रियां नीडे कोणितर्येष भेद्यवत् ।कोथो ना नेत्ररोगस्य भेदेऽथ शठिते त्रिषु ॥ १५९२ ॥
17.1592 · p. 119
अनुष्टुप्
कोदण्डं वेणुचापे च चापे चतुररत्निके ।धनुर्मात्रेऽपि च क्लीबं पुंसि स्यान्नीवृदन्तरे ॥ १५९३ ॥
17.1593 · p. 119
अनुष्टुप्
कोमलं क्ली जले स्वर्गे ना मृदुन्येष वाच्यवत् ।कोरो वृक्षाङ्कुरे बालकुसुमे च पुमान्मतः ॥ १५९४ ॥
17.1594 · p. 119
अनुष्टुप्
कोरकोऽस्त्री कुड्मले स्यात्कक्कोलकमृणालयोः ।अथाभिधेयवत्प्रोक्तः शब्दकारिणि कोरकः ॥ १५९५ ॥
17.1595 · p. 119
अनुष्टुप्
कोलं व्योषेऽर्धकर्षे च तक्कोले बदरीफले ।शुण्ट्यां चव्ये तु कोला पिप्पल्यां शस्त्रे पुरान्तरे ॥ १५९६ ॥
17.1596 · p. 119
अनुष्टुप्
कोलः प्लवेशनोशित्रेऽङ्कपालौ भेलकौषधे ।द्वे त्वाखौ सूकरे चाथ खञ्जे कोलस्त्रिषु स्मृतः ॥ १५९७ ॥
17.1597 · p. 119
अनुष्टुप्
कोलकम्मरिचे क्लीबं कक्कोले चाथ कोलिका ।द्रुतद्रुमारोहशीले जन्तौ मूषिकसन्निभे ॥ १५९८ ॥
17.1598 · p. 119
अनुष्टुप्
निर्विषाहिप्रभेदे च स्त्रियामेषा प्रकीर्त्तिता ।कोशोऽस्त्री कुड्मले पात्रे दिव्ये खड्गपिधानके ॥ १५९९ ॥
17.1599 · p. 119
अनुष्टुप्
जातिकोशेऽर्थसङ्घाते पेश्यां शब्दादिसंग्रहे ।पुस्तके वेष्टकद्रव्ये शस्त्रे प्रजननेऽपि च ॥ १६०० ॥
17.1600 · p. 119
अनुष्टुप्
वृषणे कृमिनीडे च कौशेयप्रकृतावपि ।कृताकृते हेमरूप्ये पद्यव्रज्यावलावपि ॥ १६०१ ॥
17.1601 · p. 119
अनुष्टुप्
अरन्ध्रे चापिरन्ध्रे च स्त्री तु कोश्यल्पकोशके ।वारिवाहे तु न पुमानेष कोशः प्रकीर्त्तितः ॥ १६०२ ॥
17.1602 · p. 119
अनुष्टुप्
कोशकः-कौलटेरः
कोशकस्तु पुमानेष कीर्त्तितः पर्वतान्तरे ।क्ली तु कोशफलं जातिफले तक्कोलकेऽपि च ॥ १६०३ ॥
17.1603 · p. 120
अनुष्टुप्
स्त्री तु कोशफला राजकोशातक्यां प्रकीर्त्तिता ।कोशातक्यान्तथा तिक्तकोशातक्यामपीष्यते ॥ १६०४ ॥
17.1604 · p. 120
अनुष्टुप्
कोशिका तु स्त्रियां दीपाधारे स्यान्मल्लिकाभिधे ।कोष्ठो न स्त्री कुसूलेऽन्तःकुक्षावन्तर्गृहेऽपि च ॥ १६०५ ॥
17.1605 · p. 120
अनुष्टुप्
कोसला मध्यदेशस्थे नीवृद्भेदे नृभूमनि ।मुनौ ना कोसलः श्यामपाण्डरे त्रि तु तद्वति ॥ १६०६ ॥
17.1606 · p. 120
अनुष्टुप्
कोहली तु स्त्रियां ज्ञेया कूष्माण्डाख्यलतान्तरे ।भृशं मुखरकन्यायां कूष्माण्डप्रसवे तु नप् ॥ १६०७ ॥
17.1607 · p. 120
अनुष्टुप्
आवेशभाजि तु गृहशुनके कोहलो द्वयोः ।मर्त्त्यजात्यन्तरेऽम्बष्ठ्यां वैश्याज्जाते तथा मतः ॥ १६०८ ॥
17.1608 · p. 120
अनुष्टुप्
कोहलो वाद्यभेदे ना नाट्यशास्त्रप्रवक्तरि ।कोकिलोऽक्ली विधिभिदि त्रिस्तु कोकिलयोगिनि ॥ १६०९ ॥
17.1609 · p. 120
अनुष्टुप्
कौकूटिको दाम्भिके त्रि स्याच्चादूरेरितेक्षणे ।कौकृत्यमनुतापे स्यादयुक्तकरणेऽपि च ॥ १६१० ॥
17.1610 · p. 120
अनुष्टुप्
कौक्कुटं क्लीबमायासे त्रि तु कुक्कुटयोगिनि ।कौणपो नरके ना द्वे राक्षसे त्रि तु यौगिके ॥ १६११ ॥
17.1611 · p. 120
अनुष्टुप्
कौतुकम्मङ्गले क्लीबं हर्षनर्मोत्सवेषु च ।विवाहसूत्रे विषयभोगे कामे कुतूहले ॥ १६१२ ॥
17.1612 · p. 120
अनुष्टुप्
कौन्ती हरेणौ स्त्री कुन्तसम्बन्धिनि तु भेद्यवत् ।कौपीनं क्ली गुह्यकीराकार्यकक्षापुटेष्वपि ॥ १६१३ ॥
17.1613 · p. 120
अनुष्टुप्
कौमुदः कार्मुके ना स्यात्पूर्णिमायाञ्च कौमुदी ।स्त्रीलिङ्गे चन्द्रिकायां चाथ त्रिः कुमुदयोगिनि ॥ १६१४ ॥
17.1614 · p. 120
अनुष्टुप्
कौम्भः कुम्भाश्रिते त्रि स्यात्कौम्भन्त्वाज्ये दशाब्दिके ।कौलटेयः कौलटेरो नृस्त्रियोर्बन्धकीसुते ॥ १६१५ ॥
17.1615 · p. 120
अनुष्टुप्
सुतस्तु सत्या भिक्षुक्या अटन्त्याः स्यात्कुलानि यः ।तस्मिन्कौलटिनेयाख्ये कुलटायाः सुतेऽपि च ॥ १६१६ ॥
17.1616 · p. 120
अनुष्टुप्
कौलीनं-क्रिमिरः
कौलीनं लोकवादे च युद्धे पश्वहिपक्षिणाम् ।अपवादे कुलीनत्वे गुह्यजन्मकुकर्मसु ॥ १६१७ ॥
17.1617 · p. 121
अनुष्टुप्
कौलेयकः शुनि द्वे स्यात्कुलीने तु त्रिषु स्मृतः ।कौशं कुशस्थलपुरे वाच्यवत्तु कुशाश्रिते ॥ १६१८ ॥
17.1618 · p. 121
अनुष्टुप्
कौशिको गुग्गुलौ चेन्द्रे ना द्वे तु कुशिकात्मजे ।व्यालग्राहिण्युलूके च नकुले च प्रकीर्त्तितः ॥ १६१९ ॥
17.1619 · p. 121
अनुष्टुप्
कौशिकं क्ली मज्जधातौ कौशिकी तु स्त्रियामियम् ।पार्वत्यां लिच्छविस्थे च कीर्त्तिता सरिदन्तरे ॥ १६२० ॥
17.1620 · p. 121
अनुष्टुप्
कौसला स्यादयोध्यायां त्रिस्तु कोसलयोगिनि ।कौसुम्भन्तु कुसुम्भाञ्जने कुसुम्भेऽप्यरण्यजे ॥ १६२१ ॥
17.1621 · p. 121
अनुष्टुप्
क्रकचः करपत्रेऽस्त्री ग्रन्थिलाख्यतरौ पुमान् ।क्रकरस्तु करीरद्रौ दीनक्रकचयोश्च ना ॥ १६२२ ॥
17.1622 · p. 121
अनुष्टुप्
द्वयोस्तु पक्षिभेदेऽसौ क्रकरः परिकीर्तितः ।क्रतुर्मुन्यन्तरे यज्ञधीसंकल्पक्रियासु ना ॥ १६२३ ॥
17.1623 · p. 121
अनुष्टुप्
क्रन्दनं क्ली क्रन्दितवद्रोदनाह्वानयोर्मतम् ।क्रमोऽङ्घ्रौ परिपाट्यां च वेदपाठान्तरे विधौ ॥ १६२४ ॥
17.1624 · p. 121
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 क्र (wrong syllable)
क्रान्तौ स्थानकभेदे च द्वे त्वाख्वाह्वयमूषिके ।क्रमणञ्चरणे क्रान्ते क्रमणो द्वे तुरङ्गके ॥ १६२५ ॥
17.1625 · p. 121
अनुष्टुप्
क्रमुकः पट्टिकालोध्रे ब्रह्मदारुद्रुमेऽपि च ।पूगद्रुमे भद्रमुस्ते क्रमुकं तु नपुंसकम् ॥ १६२६ ॥
17.1626 · p. 121
अनुष्टुप्
प्रसवेऽप्युक्तवृक्षाणान्तथा कार्पासिकाफले ।क्रमेलको द्वयोरुष्ट्रे निष्ट्यादुग्रीसुतेऽपि च ॥ १६२७ ॥
17.1627 · p. 121
अनुष्टुप्
क्रव्यादः प्रेतदाहाग्नौ त्रिर्मांसादे द्वि राक्षसे ।क्रिमिर्ना भूचरे क्षुद्रजन्तुभेदे च लाक्षिके ॥ १६२८ ॥
17.1628 · p. 121
अनुष्टुप्
द्वे तूर्णनाभे करणीवैदेहकसुतेऽपि च ।क्रिमिघ्नो ना विडङ्गे त्रिः क्रिमिहन्तर्यमानुषे ॥ १६२९ ॥
17.1629 · p. 121
अनुष्टुप्
क्रिमिजं स्यादलक्तेप्यगुरौ क्ली त्रिस्तु यौगिके ।क्रिमिरो ना भवेद्वर्णे सितलोहितमिश्रिते ॥ १६३० ॥
17.1630 · p. 121
अनुष्टुप्
क्रिमिरा-क्लीबः
त्रि तद्वति स्त्री क्रिमिरा मृगभेदे बिलेशये ।क्रिया स्त्री निष्कृतौ शिक्षाचिकित्सोपायकर्मसु ॥ १६३१ ॥
17.1631 · p. 122
अनुष्टुप्
करणारम्भपूजासु चेष्टायां सम्प्रधारणे ।प्रतिष्ठायां च राशौ तु मेषाख्ये ना क्रियो मतः ॥ १६३२ ॥
17.1632 · p. 122
अनुष्टुप्
क्रियाकारः संविदि च क्रियायाः करणे पुमान् ।क्रीडा नर्मणि लीलायामज्ञानेऽपि मता स्त्रियाम् ॥ १६३३ ॥
17.1633 · p. 122
अनुष्टुप्
क्रुश्वा द्वे क्रोष्टुबकयोः शिवायां क्रुश्वरी स्त्रियाम् ।क्रुष्टः सामस्वराणां स्यात्सप्तानामादिमे पुमान् ॥ १६३४ ॥
17.1634 · p. 122
अनुष्टुप्
रुदिते क्ली त्रि तु क्रुष्टिक्रियायाः कर्मतां गते ।क्रूरोऽभिधेयवत्क्रुद्धे दरिद्रे कठिनोष्णयोः ॥ १६३५ ॥
17.1635 · p. 122
अनुष्टुप्
घोरेऽपि च नृशंसे च गुणमात्रे तु पुंस्ययम् ।क्रूरा स्त्री बदरीकण्टकार्योः क्रूरं तु कीकसे ॥ १६३६ ॥
17.1636 · p. 122
अनुष्टुप्
क्रूरदृक् पिशुने वाच्यलिङ्गः पुंसि शनैश्चरेः ।क्रेणिः स्त्री विक्रये काले कियन्तञ्चिच्च तन्वते ॥ १६३७ ॥
17.1637 · p. 122
अनुष्टुप्
क्षेत्रादेः फलभोगाय दत्त्वा किञ्चित्परिग्रहे ।क्रोडं कर्षे तथोत्सङ्गे क्रोडः क्रोडी च सूकरे ॥ १६३८ ॥
17.1638 · p. 122
अनुष्टुप्
क्रोडः क्रोडा चोरसि स्यात्क्रोडो ना शनिरक्षसोः ।क्रोधनो द्वे शुनि त्रिस्तु कोपे शीले नपि क्रुधि ॥ १६३९ ॥
17.1639 · p. 122
अनुष्टुप्
क्रोशं सामान्तरे क्रोशो योजनार्धे च क्रोशने ।क्रोष्टा क्रोष्ट्री शृगाले द्वे क्रोष्ट्री तु स्यात्स्त्रियामियम् ॥ १६४० ॥
17.1640 · p. 122
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 च (wrong syllable)
लाङ्गल्याख्यौषधे क्षीरविदार्याख्ये च भेषजे ।क्रौञ्चो द्वीपे तृतीयेऽस्य जम्बूद्वीपस्य ना गिरौ ॥ १६४१ ॥
17.1641 · p. 122
अनुष्टुप्
तन्नाम्न्यथ क्ली स्यात्सामान्तरेऽथ क्रूङ् खगे द्वयोः ।सम्बन्धिमात्रे तु क्रुञ्चः क्रौञ्चः स्याद्वाच्यलिङ्गकः ॥ १६४२ ॥
17.1642 · p. 122
अनुष्टुप्
क्रौञ्चादनं तु पिप्पल्यां चिञ्चाटकमृणालयोः ।क्लीतकं क्ली करञ्जस्यैकबीजे मधुरौषधे ॥ १६४३ ॥
17.1643 · p. 122
अनुष्टुप्
क्लीतकी तु स्त्रियामेषा नीलिसंज्ञौषधे स्मृता ।क्लीबोऽस्त्रियां मतः षण्ढे त्रिर्निर्वीर्ये च निर्बले ॥ १६४४ ॥
17.1644 · p. 122
अनुष्टुप्
क्लेदः-क्षमा
क्लेदो मुखप्रसेके च स्यात्पुंस्योषधिचन्द्रयोः ।क्लेदुः क्षेत्रे शरीरे च भङ्गे चन्द्रे पुमान्मतः ॥ १६४५ ॥
17.1645 · p. 123
अनुष्टुप्
क्लेशो दुःखेपि कोपेऽपि व्यवसायेऽपि दृश्यते ।क्लेशकस्तु यमे नाऽथ क्लेष्टरि क्लेशितर्यपि ॥ १६४६ ॥
17.1646 · p. 123
अनुष्टुप्
तथा क्लेशयितर्येनं भेद्यलिङ्गं प्रचक्षते ।क्वथः स्यादतिदुःखेऽपि निष्पाकेऽपि द्रवस्य च ॥ १६४७ ॥
17.1647 · p. 123
अनुष्टुप्
क्षः संवर्त्ते राक्षसे च नरसिंहे च विद्युति ।क्षेत्रे नाशे क्षेत्रपाले पुमानेष प्रकीर्त्तितः ॥ १६४८ ॥
17.1648 · p. 123
अनुष्टुप्
क्षणस्त्ववसरे मध्ये पारतन्त्र्ये तथोत्सवे ।मुहूर्त्ते षष्ठभागे च नाड्याः कालेऽतिसूक्ष्मके ॥ १६४९ ॥
17.1649 · p. 123
अनुष्टुप्
निर्व्यापारस्थितौ पुंसि व्यापारे चाऽपि पर्वणि ।क्षणदो गणके रात्रौ क्षणदा क्षणदञ्जले ॥ १६५० ॥
17.1650 · p. 123
अनुष्टुप्
क्षणिकः क्षणमात्रस्थायिनि त्रिः क्षणवत्यपि ।क्षणिका तु स्त्रियामेषा सौदामन्यामुदीरिता ॥ १६५१ ॥
17.1651 · p. 123
अनुष्टुप्
क्षतं व्रणे क्ली क्षणने लग्नात्षष्ठे च राशिके ।त्रिलिङ्गं पुनरेतत्स्यात्खण्डिते च हते तथा ॥ १६५२ ॥
17.1652 · p. 123
अनुष्टुप्
क्षत्ता ना सारथौ द्वाःस्थे दूते मुसलरुद्रयोः ।वेधस्यथ क्षत्रियायां पारधैनुकसंज्ञकः ॥ १६५३ ॥
17.1653 · p. 123
अनुष्टुप्
शूद्राज्जातो योऽत्र केचिदन्ये त्वायोगवाह्वये ।वैश्यायां जनिते शूद्रादन्ये पारशवाह्वये ॥ १६५४ ॥
17.1654 · p. 123
अनुष्टुप्
ब्राह्मणादूढशूद्रायां जाते प्रेष्यासुते द्वयोः ।वाच्यवत्तु निवृत्तेप्यविनीतेऽपि मृते तथा ॥ १६५५ ॥
17.1655 · p. 123
अनुष्टुप्
क्षत्रन्तु स्याद्घने तोये क्षत्रिये च नपुंसकम् ।द्वे क्षत्रियः स्याद्राजन्ये क्षत्रिया क्षत्रियाण्यपि ॥ १६५६ ॥
17.1656 · p. 123
अनुष्टुप्
जातौ स्त्रीत्वेऽथ पुंयोगे क्षत्रियीति स्त्रियां भवेत् ।क्षपा स्त्रियां भवेद्रात्रौ धान्यस्तम्बे तु ना क्षपः ॥ १६५७ ॥
17.1657 · p. 123
अनुष्टुप्
गोऽजाऽविमहिषाणाञ्चात्यार्द्रच्छगणके जले ।क्षमा क्षान्तिपृथिव्योः स्त्री त्रिषु योग्यसमर्थयोः ॥ १६५८ ॥
17.1658 · p. 123
अनुष्टुप्
क्षमम्-क्षीरशुक्ला
नाय्ये हिते च क्लीबे तु क्षमं युक्तार्थकम्मतम् ।क्षयस्त्वपचये कुक्षौ कल्पान्ते राजयक्ष्मणि ॥ १६५९ ॥
17.1659 · p. 124
अनुष्टुप्
मन्दिरे च निवासे च हिंसायां गमनेऽपि च ।क्षरो धाराधरे पुंसि सलिले तु नपुंसकम् ॥ १६६० ॥
17.1660 · p. 124
अनुष्टुप्
ऋतौ प्रावृट्समाख्ये स्त्री क्षरी क्षरितरि त्रिषु ।क्षवः क्षुते राजिकायां कासे चापि पुमान्मतः ॥ १६६१ ॥
17.1661 · p. 124
अनुष्टुप्
क्षवथुस्तु क्षुते कासे पुँल्लिङ्गः परिकीर्त्तितः ।क्षामस्तृणाग्नौ ना क्षीणे त्रिषु क्षामा स्त्रियाम्भुवि ॥ १६६२ ॥
17.1662 · p. 124
अनुष्टुप्