All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
उ (2/2)
उपरागस्तु राहौ च सक्त्याख्यव्यसनेऽपि च ।सूर्यचन्द्रग्रहेऽपि स्यादुपरक्ते च कीर्त्तितः ॥ ८०९ ॥
7.809 · p. 62
अनुष्टुप्
उपलो नाऽम्बुदे रत्नाश्मनोः स्यादुपलं नपि ।उपलब्धिर्मतौ प्राप्तौ विज्ञानेऽपि स्त्रियां मता ॥ ८१० ॥
7.810 · p. 62
अनुष्टुप्
उपला शर्करायां स्त्री दृषत्पुत्र्यां तथा दिशि ।उपलिङ्गं तु उमरे त्रिस्तु लिङ्गोपगादिषु ॥ ८११ ॥
7.811 · p. 62
अनुष्टुप्
उपवर्त्तनमित्येतद्राष्ट्रेऽश्वलुठनेपि च ।अथोपवसथः पुंसि मतो ग्रामोपवासयोः ॥ ८१२ ॥
7.812 · p. 62
अनुष्टुप्
भवेदुपशयः स्थाने यत्रावस्थाय लुब्धकाः ।गूढात्मानो मृगा घ्नन्ति तत्र यूपे च याज्ञिकाः ॥ ८१३ ॥
7.813 · p. 62
अनुष्टुप्
एकादशकपक्षे यः शेते दक्षिणतो भुवि ।दशानामपि यूपानां तत्रायुर्वेदिनः पुनः ॥ ८१४ ॥
7.814 · p. 62
अनुष्टुप्
औषधान्नविहाराणामुपयोगे सुखावहे ।व्याधेः सात्म्यमितीदं च तत्पर्यायमधीयते ॥ ८१५ ॥
7.815 · p. 62
अनुष्टुप्
उपसंग्रहणं-उपांशु
उपेत्यसंग्रहे चापि नपुंसकमुदाहृतम् ।उपसत्तिः सङ्गमात्रे सेवनेऽपि स्त्रियां मता ॥ ८१७ ॥
7.817 · p. 63
अनुष्टुप्
वाच्यवत्तूपसंपन्नं प्रमीतप्राप्तयोस्तथा ।सुसंस्कृतौदनाद्ये च पर्याप्ते च प्रकीर्त्तितम् ॥ ८१८ ॥
7.818 · p. 63
अनुष्टुप्
उपसर्गः क्रियायुक्तप्रादौ संसर्ग एव च ।उत्पाने रोगभेदे च पुँल्लिङ्गः परिकीर्त्तितः ॥ ८१९ ॥
7.819 · p. 63
अनुष्टुप्
उपसर्जनमित्येतद्यत्स्यात्प्रथमयोदितम् ।उपसृष्टौ तथाद्याह निदाने च शिवस्तवे ॥ ८२० ॥
7.820 · p. 63
अनुष्टुप्
समासशास्त्रे तत्र स्यादप्रधानेपि तत्तथा ।उपसर्या तु सामान्यजनसेवन इष्यते ॥ ८२१ ॥
7.821 · p. 63
अनुष्टुप्
प्रजनप्राप्तकालायां गवि चैव प्रकीर्त्तिता ।उपस्थोऽस्त्री भवेन्मेदे क्रोडे मदनमन्दिरे ॥ ८२२ ॥
7.822 · p. 63
अनुष्टुप्
उपस्पर्शस्तु संस्पर्शे स्नानाचमनयोरपि ।स्यादुपस्पर्शनं स्पर्शे स्नानाचमनयोरपि ॥ ८२३ ॥
7.823 · p. 63
अनुष्टुप्
उपह्वरोऽस्त्री रहसि समीपेऽपि प्रकीर्त्तितः ।उपाकृतोऽध्वरहतपशौ नोपद्रुते त्रिषु ॥ ८२४ ॥
7.824 · p. 63
अनुष्टुप्
उपधिर्धर्मचिन्तायां कुटुम्बे व्यापृतेऽपि च ।कार्यान्वयव्यवच्छेत्तर्यपि साध्येन या भवेत् ॥ ८२५ ॥
7.825 · p. 63
अनुष्टुप्
ससाधनाव्यापकत्वासमव्याप्तिकताऽत्र च ।उपाध्यायोऽध्यापकेऽस्य पत्न्यां रूपद्वयम्भवेत् ॥ ८२६ ॥
7.826 · p. 63
अनुष्टुप्
उपाध्यायान्युपाध्यायी या त्वध्यापयति स्वयम् ।उपाध्यायाऽप्युपाध्यायी द्विधा सा परिकीर्त्तिता ॥ ८२७ ॥
7.827 · p. 63
अनुष्टुप्
उपायः पर्वभेदे स्यात्पूर्वस्मिन्सामपर्वणाम् ।निधनात्कर्मणां सिद्धेर्लघुमार्गणसाधने ॥ ८२८ ॥
7.828 · p. 63
अनुष्टुप्
राज्ञां च सामदानादौ विशेषाच्चोपसर्पणे ।उपांशुर्जपभेदे स्यादुपांशु विजनेऽव्ययम् ॥ ८२९ ॥
7.829 · p. 63
अनुष्टुप्
उपासना-उल्बं
उपासना न ना सेवाशराभ्यासान्तिकासने ।उपाहितो नलोत्पाते पुमानारोपिते त्रिषु ॥ ८३० ॥
7.830 · p. 64
अनुष्टुप्
उपेन्द्रः पुंसि विष्णौ स्यात्त्रिष्विन्द्रोपगते मतः ।उपोढ ऊढे निकटे वाच्यवत्परिकीर्त्तितः ॥ ८३१ ॥
7.831 · p. 64
अनुष्टुप्
उभ्रस्त्रिः पेलवे चोद्र्ध्वस्थिते पुंसि तु वारिदे ।उम् रोषेऽङ्गीकृतौ चापि प्रश्नेऽप्यव्ययमुच्यते ॥ ८३३ ॥
7.833 · p. 64
अनुष्टुप्
उमा शिवाऽतसीलक्ष्मीहरिद्राकीर्त्तिकान्तिषु ।उरो वक्षसि मुख्ये च भवेत्सान्तं नपुंसकम् ॥ ८३४ ॥
7.834 · p. 64
अनुष्टुप्
उरस्यो ना स्तने द्वे त्वौरसापत्ये त्रिषु त्वयम् ।उरोभवादावुरसा चैकदिक्के प्रकीर्त्तितः ॥ ८३५ ॥
7.835 · p. 64
अनुष्टुप्
उर्यूर्युरर्यूरुर्यूरर्यङ्गीकारे च विस्तृते ।उरु त्रिषु स्यान्महति स्त्रियामुर्वीति तत्र वा ॥ ८३६ ॥
7.836 · p. 64
अनुष्टुप्
उर्वी पृथिव्यां नद्यां च स्त्रियामेषा प्रकीर्त्तिता ।उरुक्रमः पुमान्विष्णौ त्रिलिङ्गस्तु महाक्रमे ॥ ८३७ ॥
7.837 · p. 64
अनुष्टुप्
उरुगायः पुमान्विष्णौ बहुगीते त्रिलिङ्गकः ।उर्वरा तूर्वरीवत्सर्वसस्याढ्यक्षितौ क्षितौ ॥ ८३८ ॥
7.838 · p. 64
अनुष्टुप्
उर्वारुश्चिद्भटे ना स्त्री कर्कट्यां क्ली तयोः फले ।उलपोऽस्त्र्यादिसर्गस्थभूतानामन्नभिद्ययम् ॥ ८३९ ॥
7.839 · p. 64
अनुष्टुप्
गुल्मिन्यां सलिले काष्ठेऽप्यूद्र्ध्वमूलाह्वये पुनः ।स्तम्बभेदे कलापाख्यमुनेः शिष्यान्तरे च ना ॥ ८४० ॥
7.840 · p. 64
अनुष्टुप्
उलूको द्वे काकशत्राविन्द्रेभरतयोधिनि ।उलूखलं तु संधौ क्ली कक्षायां वङ्क्षणस्य च ॥ ८४१ ॥
7.841 · p. 64
अनुष्टुप्
उलूखला स्त्री त्वश्वस्य दन्तच्छिद्र उलूखली ।पुमांस्तु व्रतिनो दण्ड उदुम्बरतरूद्भवे ॥ ८४२ ॥
7.842 · p. 64
अनुष्टुप्
उल्बो गर्भाशये न स्त्री शुल्वे तूल्बं नपुंसकम् ।भूभेदे रजते सामभेदे यज्ञे तु पुंस्ययम् ॥ ८४३ ॥
7.843 · p. 64
अनुष्टुप्
उल्मुकं-ऊः
संख्याज्ञाने विरहिते भवेदेष त्रिलिङ्गकः ।उल्मुकं स्यादलाते स्त्री पूर्वराजान्तरे तु ना ॥ ८४४ ॥
7.844 · p. 65
अनुष्टुप्
उल्लाघस्तु शुचौ कृष्णे दक्षनीरोगयोस्त्रिषु ।त्रिरुल्लिखितमुत्कीर्णेऽनुषक्ते च तनूकृते ॥ ८४५ ॥
7.845 · p. 65
अनुष्टुप्
उल्लेखनीयं कतकद्रावुल्लेख्ये तु वाच्यवत् ।उल्लोलः पुंसि कल्लोले भृशलोले तु भेद्यवत् ॥ ८४६ ॥
7.846 · p. 65
अनुष्टुप्
उशिक् पुमान्गौतमर्षौ पावकेऽपि पुमान्मतः ।उशिक् स्त्रियामुशीरेऽथ स्यान्मेधाविन्युशिक् त्रिषु ॥ ८४७ ॥
7.847 · p. 65
अनुष्टुप्
उषः प्रस्थचतुर्भागे कल्पे कामिनि गुग्गुलौ ।स्यात् क्षारमृत्तिकायां चन्दनाद्रौ श्रवाबिले ॥ ८४८ ॥
7.848 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
रन्ध्रमात्रे स्त्रियां तूषाऽनिरुद्धस्य भवेत्स्त्रियाम् ।सौरभेय्यां निशायां च निशान्तेऽव्ययमप्युषा ॥ ८४९ ॥
7.849 · p. 65
अनुष्टुप्
उषवस्तु मतो दाहे रवावपि तथा पुमान् ।उषो नपुंसकं सान्तं स्त्री च संध्याप्रभातयोः ॥ ८५० ॥
7.850 · p. 65
अनुष्टुप्
उषितं न्युषिते दग्धे वाच्यवत्परिकीर्त्तितम् ।उष्ट्रिका मृत्तिकाभाण्डभेदऽपि करभा स्त्रियाम् ॥ ८५१ ॥
7.851 · p. 65
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 2 दऽ (wrong syllable)
उष्ट्री स्त्रियां स्यात्कर्कर्यामुष्ट्रः स्यात्करभे द्वयोः ।उष्णः पुंसि हुताशे स्याद्ग्रीष्मे शिग्रुमहीरुहे ॥ ८५२ ॥
7.852 · p. 65
अनुष्टुप्
क्ली तु वह्निगुणे त्रिस्तु तद्युक्ते चतुरेऽपि च ।उष्णवीर्यो जलकपौ द्वे योगार्थे तु लोकवत् ॥ ८५३ ॥
7.853 · p. 65
अनुष्टुप्
उष्णिका स्त्री यवाग्वां स्याद्दक्षे त्रिर्मत उष्णकः ।उष्णीषोऽस्त्री शिरोवेष्टे किरीटे लक्षणान्तरे ॥ ८५४ ॥
7.854 · p. 65
अनुष्टुप्
उष्मको ना निदाघे स्यात्त्र्यातुरे क्षिप्रकारिणि ।उस्रो वृषे च किरणेप्युस्राऽर्जुन्युपचित्रयोः ॥ ८५५ ॥
7.855 · p. 65
अनुष्टुप्