All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
इ
इ-इध्मवाहकः
इ खेदे परुषोक्तौ चापाकृतावनुकम्पने ॥ ६३८ ॥
5.638 · p. 50
इः पुमांस्तु मतः कामे… ।इक्षुकाण्डोऽस्त्रियां मुञ्जे काशे चेक्ष्वन्तरेपि च ॥ ६३९ ॥
5.639 · p. 50
अनुष्टुप्metre not read in every line
इक्षुगन्धा स्त्रियामुक्ता कोकिलाक्ष इति श्रुते ।आनूपे कण्टकिस्तम्बे विदारीकाशगोक्षुरे ॥ ६४० ॥
5.640 · p. 50
अनुष्टुप्
इक्षुरः कोकिलाक्षे च काशे गोक्षुरकेऽपि च ।पुमानिक्षुरसः काशे योगाऽर्थे च प्रकीर्त्तितः ॥ ६४१ ॥
5.641 · p. 50
अनुष्टुप्
इक्ष्वाकुर्मदनद्रौ ना वैवस्वतमनोः सुते ।तिक्तालाब्वां पुनरियमिक्ष्वाकुः स्त्री प्रकीर्त्तिता ॥ ६४२ ॥
5.642 · p. 50
अनुष्टुप्
इङ्गोऽद्भुते जङ्गमे च ना ज्ञानेङ्गितयोर्मतः ।इङ्गुदी तापसतराविङ्गुदोऽपि द्वयोर्मतः ॥ ६४३ ॥
5.643 · p. 50
अनुष्टुप्
ज्योतिष्मत्यां स्त्रियामेवेङ्गुदीयं परिकीर्त्तिता ।इज्या दाने च यज्ञे च पूजायां सङ्गमे स्त्रियाम् ॥ ६४४ ॥
5.644 · p. 50
अनुष्टुप्
जनन्यां गवि कुट्टिन्यां श्रेष्ठे तु त्रिर्गुरौ तु ना ।इडीट् च त्रिषु नाथे स्याद्वसुधायां स्त्रियामिमे ॥ ६४५ ॥
5.645 · p. 50
अनुष्टुप्
बुधपत्न्यामिडेलावन्नाडीभेदे च कीर्त्तिता ।जनन्यां देवताभेदे भा भूगोस्वर्गवाक्ष्वपि ॥ ६४६ ॥
5.646 · p. 50
अनुष्टुप्
इतं स्मृते गतेप्येतद्वाच्यवत्परिकीर्त्तितम् ।इतरः पामरेऽन्यस्मिन्वाच्यवत्परिकीर्त्तितः ॥ ६४७ ॥
5.647 · p. 50
अनुष्टुप्
इति हेतौ प्रकारे स्यात्परकृत्यनुकर्षयोः ।निदर्शने प्रकरणे समाप्तौ च प्रकाशने ॥ ६४८ ॥
5.648 · p. 50
अनुष्टुप्
भवेदितिकथाऽपार्थवाच्यश्रद्धेयनष्टयोः ।इत्या स्त्रियां गतौ चैव शिविकायां च कीर्त्तिता ॥ ६४९ ॥
5.649 · p. 50
अनुष्टुप्
इत्वर्यसत्यां स्त्री त्रिस्तु गत्वरे क्रूरनीचयोः ।इदानीं वाक्यभूषायां सम्प्रत्यर्थेऽपि दृश्यते ॥ ६५० ॥
5.650 · p. 50
अनुष्टुप्
इद्धं स्यादातपे क्लीबं दीपिते त्वभिधेयवत् ।इध्मवाहो दृढच्युन्नाम्न्यृषौ त्रि त्विध्मवाहके ॥ ६५१ ॥
5.651 · p. 50
अनुष्टुप्
इनः-इभ्या
इनो नृपात्मसूर्येषु त्रि तु स्वाम्याढ्ययोर्मतः ।इन्दीवरा शतावर्यां स्त्री क्ली कुवलये भवेत् ॥ ६५२ ॥
5.652 · p. 51
अनुष्टुप्
इन्दुर्ना यज्ञशशिनोः स्त्रीकर्पूरेऽप्सु च स्मृतम् ।स्त्रियामिन्दुकलाशब्दः कविभिः परिकीर्त्तितः ॥ ६५३ ॥
5.653 · p. 51
अनुष्टुप्
गुडूचीसोमलतयोर्यवानीचन्द्रलेखयोः ।इन्दुकान्तश्चन्द्रकान्तेऽथेन्दुकान्ता निशि स्त्रियाम् ॥ ६५४ ॥
5.654 · p. 51
अनुष्टुप्
इन्दुजा नर्मदानद्यामिन्दुजः स्याद्बुधग्रहे ।राकाभोजस्वसृनदीभेदेष्विन्दुमती मता ॥ ६५५ ॥
5.655 · p. 51
अनुष्टुप्
इन्दुलेखा स्मृता सोमलताशशिकलासु च ।इन्द्रः पुरन्दरे सूर्ये सूर्येषु द्वादशस्वपि ॥ ६५६ ॥
5.656 · p. 51
अनुष्टुप्
स्याद्विशेषत एकस्मिन्योगभेदेऽन्तरात्मनि ।विषभेदेऽश्मन्तके च पत्यौ स्यान्नामपूर्वकः ॥ ६५७ ॥
5.657 · p. 51
अनुष्टुप्
इन्द्रकोशो गृहस्याङ्गे स्यात्तमङ्गकनामनि ।इन्द्रस्य कोशेऽपि स्पष्टं पुँल्लिङ्गः परिकीर्त्तितः ॥ ६५८ ॥
5.658 · p. 51
अनुष्टुप्
स्यादिन्द्रमह इन्द्रस्योत्सवे ना द्वे पुनः शुनि ।इन्द्रवृक्षस्तु ककुभे कुटजे देवदारुके ॥ ६५९ ॥
5.659 · p. 51
अनुष्टुप्
इन्द्रवृद्धिस्तु निर्मुष्कहये ना स्त्रीन्द्रसम्पदि ।इन्द्रा तु कविभिः प्रोक्ता स्त्री फणिज्जकभेषजे ॥ ६६० ॥
5.660 · p. 51
अनुष्टुप्
इन्द्राणी रतबन्धे स्त्री पौलोमी सिन्धुवारयोः ।सूक्ष्मैलायां तथा स्थूलैलायामेषा क्वचिन्मता ॥ ६६१ ॥
5.661 · p. 51
अनुष्टुप्
क्लीबमिन्द्रायुधं शक्रचापइन्द्रायुधा पुनः ।अचिकित्स्यविषायां स्यात्सविषाणां जलौकसाम् ॥ ६६२ ॥
5.662 · p. 51
अनुष्टुप्
षण्णामेकजलूकायां स्त्रियामश्वान्तरे पुनः ।कृष्णनेत्रसमायुक्ते द्वयोरिन्द्रायुधो मतः ॥ ६६३ ॥
5.663 · p. 51
अनुष्टुप्
इन्द्रियं चेतसि धने हृषीके रेतसि स्मृतम् ।अथाभिधेयवच्चैतदिन्द्रसम्बन्धिनि स्मृतम् ॥ ६६४ ॥
5.664 · p. 51
अनुष्टुप्
इन्धनं त्वग्न्यर्थकाष्ठे दीपनेऽपि नपुंसकम् ।इभ्य आढ्ये त्रिष्वथेभ्या हस्तिवातिङ्गने भवेत् ॥ ६६५ ॥
5.665 · p. 51
अनुष्टुप्
इरा-इषोः
तथा करेणुशल्लक्योः स्त्रियामेव प्रयुज्यते ।इरा दिवि च दैत्यान्ने तथा भूवाक्सुराम्बुषु ॥ ६६६ ॥
5.666 · p. 52
अनुष्टुप्
इरावा निरयायुक्ते वाच्यवत्स्त्री त्विरावती ।नदीमात्रेऽपि बाह्लीकब्रह्मादितटिनीषु च ॥ ६६७ ॥
5.667 · p. 52
अनुष्टुप्
इरिणं त्रिषु शून्ये स्यादूषरे सिकतावति ।क्लीबं त्विरिणमेतत्स्याद्दुर्गे तद्वद्वनेऽपि च ॥ ६६८ ॥
5.668 · p. 52
अनुष्टुप्
बुधपत्न्यामिलेडावन्नाडीभेदे च कीर्त्तिता ।जनन्यां देवताभेदे भाभूगोस्वर्गवाक्ष्वपि ॥ ६६९ ॥
5.669 · p. 52
अनुष्टुप्
इल्वकं सामभेदे क्ली व्यापके त्वभिधेयवत् ।इल्वका मृगशीर्षर्क्षे स्त्रियां काले च तद्युते ॥ ६७० ॥
5.670 · p. 52
अनुष्टुप्
इल्वलः पुंसि यूपे द्वे त्विल्वलो मत्स्यरक्षसोः ।मृगशीर्षशिरस्तारास्त्विल्वलाः कीर्त्तिताः स्त्रियः ॥ ६७१ ॥
5.671 · p. 52
अनुष्टुप्
इषिराग्नाविषौ साम्नश्चैषिराख्यस्य द्रष्टरि ।नपुंसकं तु यवस इषिरे परिकीर्त्तितम् ॥ ६७२ ॥
5.672 · p. 52
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 स्य (wrong syllable)
इषीकास्तु नृभूम्नि स्युर्दक्षिणापथवर्त्तिनि ।नीवृद्भेदे तृणस्तस्बे तूलिकायां त्वियं स्त्रियाम् ॥ ६७३ ॥
5.673 · p. 52
अनुष्टुप्
इषुः स्त्रीपुंसयोर्वाणे क्रतुभेदे तु पुंस्ययम् ।विष्कुत्योस्तूभयोः स्त्रीत्व इषुरेषा प्रकीर्त्तिता ॥ ६७४ ॥
5.674 · p. 52
अनुष्टुप्
इष्टं त्रिष्वाशंसितेऽपि पूजितेऽपि प्रियेऽपि च ।यागक्रियाकर्मभूते पर्याप्तेऽपि प्रकीर्त्तितम् ॥ ६७५ ॥
5.675 · p. 52
अनुष्टुप्
अथेच्छायां च यजने यज्ञदाने नपुंसकम् ।इष्टगन्धः सुगन्धौ स्यात्त्रिषु क्लीबं तु बालके ॥ ६७६ ॥
5.676 · p. 52
अनुष्टुप्
इष्टिर्मताऽभिलाषे स्त्री संग्रहश्लोकयोगयोः ।कलत्रे त्वपरेऽथेष्वः पुंस्याऽऽचार्याभिलाषयोः ॥ ६७७ ॥
5.677 · p. 52
अनुष्टुप्
इष्वा स्त्री पुत्रसन्तत्यां कुटुम्बे चेति केचन ।इष्वासस्त्वस्त्रियां चापे क्ली त्विषोरासने भवेत् ॥ ६७८ ॥
5.678 · p. 52
अनुष्टुप्
इषोः क्षेप्तर्य्ययं शब्दो वाच्यवत्परिकीर्त्तितः ॥ ६७८-१/२ ॥
5.42 · p. 52