कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

ऊ

ऊ वाक्यारम्भरक्षानुकम्पास्वव्ययमुच्यते ।ऊः स्त्रियां रक्षणे तृप्तौ प्रीताववगतौ गतौ ॥ ८५६ ॥
8.856 · p. 65
अनुष्टुप्

ऊकः-ऊर्मिः

वृद्धाववाप्तौ तृप्तौ च प्रवेशे श्रवणेच्छयोः ।स्वाम्यसामर्थ्ययाच्ञासु क्रियायां भावहिंसयोः ॥ ८५७ ॥
8.857 · p. 66
अनुष्टुप्
आलिङ्गने च दहनेऽप्यर्थेष्वेकान्तविंशतौ ।ऊकः किलिञ्जके राशौ राशिस्थाने पुमानयम् ॥ ८५८ ॥
8.858 · p. 66
अनुष्टुप्
ऊक ऊकीतिमिथुनं कीर्त्तितं पक्षिवाचकम् ।ऊका तु जन्तौ प्रोक्ता स्त्री स्वेदजेऽस्थिविवर्जिते ॥ ८५९ ॥
8.859 · p. 66
अनुष्टुप्
ऊधः क्ली सान्तमापीने निशायां च प्रकीर्त्तितम् ।पादभेदे च सामाख्यसाम्न ऊध उदाहृतम् ॥ ८६० ॥
8.860 · p. 66
अनुष्टुप्
ऊधस्यं तु नपि क्षीरे त्रिषु तूधोभवादिके ।ऊम् रुषोक्तौ च पृच्छायामव्ययं परिकीर्त्तितम् ॥ ८६१ ॥
8.861 · p. 66
अनुष्टुप्
ऊमोऽस्त्रियां पुख्योम्नोः प्राणिन्येष त्रिलिङ्गकः ।ऊरव्यञ्चोरुजे वैश्ये द्वयोरूरुभवे त्रिषु ॥ ८६२ ॥
8.862 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 यां (syllables merged)
ऊर्गन्नान्नरसोत्साहबलेषु स्याच्चतुर्ष्वपि ।ऊर्जस्तु कार्त्तिकोत्साहबलेषु प्राणनेपि च ॥ ८६३ ॥
8.863 · p. 66
अनुष्टुप्
ऊर्जस्वती स्त्री नद्यां स्यात्त्रिषु तूर्जस्वले भवेत् ।ऊर्णा स्त्रियां कदल्यादेस्तन्तौ मेषादिलोम्नि च ॥ ८६४ ॥
8.864 · p. 66
अनुष्टुप्
प्रशस्तरोमावर्त्ते च भ्रूमध्यस्थेऽथ हिंसिते ।ऊर्णस्त्रि हिंसने तूर्णं क्लीबलिङ्गं प्रकीर्त्तितम् ॥ ८६५ ॥
8.865 · p. 66
अनुष्टुप्
ऊर्णायुः स्याद्द्वयोर्मेषलूतयोर्ना तु कम्बले ।मेषलोमकृते तद्वद्गन्धर्वे श्रुतिवर्णिते ॥ ८६६ ॥
8.866 · p. 66
अनुष्टुप्
ऊर्दरं स्यादावपने भेद्यलिङ्गं तु दुर्बले ।ऊर्ध्वस्त्रितुङ्गोपर्यर्थोत्थितेष्वृष्यन्तरे तु ना ॥ ८६७ ॥
8.867 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 दा (wrong syllable)
ऊर्ध्वमूलस्तम्बभेद उल्लूकाख्ये पुमान्मतः ।ऊर्ध्वाङ्घ्रिवृक्षादौ त्वेष वाच्यवत्संप्रयुज्यते ॥ ८६८ ॥
8.868 · p. 66
अनुष्टुप्
ऊर्ध्वरूपक इत्येष हरिमन्थाख्यमुद्गके ।प्रयोगमनुसृत्यास्य लिङ्गाद्यर्थे च यौगिके ॥ ८६९ ॥
8.869 · p. 66
अनुष्टुप्
ऊर्मिर्द्वयोस्तरङ्गेऽपि वेगवीचिप्रभासु च ।वस्त्रसंकोचरेखायां वेदनोत्पीडयोरपि ॥ ८७० ॥
8.870 · p. 66
अनुष्टुप्

ऊर्मिकाः-ऋज्जसानः

क्षुत्पिपासाशोकमोहजरामृत्युषु चोच्यते ।ऊर्मिका त्वङ्गुलीये स्याद्वस्त्रभङ्गतरङ्गयोः ॥ ८७१ ॥
8.871 · p. 67
अनुष्टुप्
ऊवध्यं गुदवाते क्ली वृक्षादेश्च गदान्तरे ।ऊषणो ना कटुरसे विज्ञेयस्त्रिषु तद्वति ॥ ८७२ ॥
8.872 · p. 67
अनुष्टुप्
क्लीबं तु मरिचे शुण्ठावूषणाख्ये च कर्मणि ।ऊषणा तु स्त्रियामेषा पिप्पल्यां परिकीर्त्तिता ॥ ८७३ ॥
8.873 · p. 67
अनुष्टुप्
ऊषा रुजि स्त्रियामूषं लवणे क्लीबमौषरे ।ऊषस्तु क्षारमृद्येष पुँल्लिङ्गः परिकीर्त्तितः ॥ ८७४ ॥
8.874 · p. 67
अनुष्टुप्
ऊष्मा त्वौष्ण्यगुणे ग्रीष्मे वाष्पे शषसहेषु ना ।ऊहा न क्ली विचारे स्यात्सामग्रन्थान्तरे तु ना ॥ ८७५ ॥
8.875 · p. 67
अनुष्टुप्