All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
झ
झो झण्टीशे सुरगुरौ दैत्यराजेऽध्वनावपि ॥ २३३९ ॥
25.2339 · p. 173
झटो झटितरि द्वे तु शूद्रामैत्रेयजे नरे ।झरा स्त्री झरणे नद्यां झरी ना निर्झरे झरः ॥ २३४० ॥
25.2340 · p. 173
अनुष्टुप्
झर्झरः स्यात्कलियुगे वाद्यभेदे नदान्तरे ।विशीर्णे तु त्रिलिङ्गं तज्झर्झरं परिकीर्त्तितम् ॥ २३४१ ॥
25.2341 · p. 173
अनुष्टुप्
झला स्यादातपस्योर्मौ दुहितर्यपि च स्त्रियाम् ।झल्लरी वाद्यभेदे च छत्रान्तालम्बिवाससि ॥ २३४२ ॥
25.2342 · p. 173
अनुष्टुप्
झल्लिकोद्वर्त्तनपटे स्त्रियां द्योते च कीर्तिता ।झषो ना विपिने तापेऽथ द्वे मकरमत्स्ययोः ॥ २३४३ ॥
25.2343 · p. 173
अनुष्टुप्
झषा नागबलासंज्ञभेषजे स्यात्स्त्रियामियम् ।झाण्टो निकुञ्जे कान्तारे व्रणादीनां च मार्जने ॥ २३४४ ॥
25.2344 · p. 173
अनुष्टुप्
पुमान्स्थावरभेदेऽपि संघातेऽपि प्रकीर्त्तितः ।झिल्लिका स्त्रीमता झिण्ट्यामातपस्य रुचावपि ॥ २३४५ ॥
25.2345 · p. 173
अनुष्टुप्
झिल्ली चीर्याख्यकीटे स्यादातपस्य रुचौ स्त्रियाम् ।तथा दग्धौदनेऽपि स्याद्वर्त्त्यामुद्वर्त्तनांशुके ॥ २३४६ ॥
25.2346 · p. 173
अनुष्टुप्