All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
प्रारम्भः
प्रारम्भः
मनसा न समाम्नायो यैः सव्याख्योऽनुशीलितः ।श्रुतिभ्यः शब्दमणयो नोच्चिता यैरतन्द्रितैः ॥ १० ॥
2.10 · p. 2
अनुष्टुप्
स्मृतौ तन्त्रे पुराणेषु दर्शने व्याकृतावपि ।ज्योतिषे प्राकृते बौद्धजैनसाहित्यकानने ॥ ११ ॥
2.11 · p. 2
अनुष्टुप्
पदप्रसूनाञ्जलयो नाऽटद्भिर्यैरुरीकृताः ।वैजयन्ती न दृष्टा यैर्नैव मङ्खोऽवलोकितः ॥ १२ ॥
2.12 · p. 2
अनुष्टुप्
नेक्षिता यैरनेकार्थकैरवाकरकौमुदी ।नानार्थार्णवसंक्षेपो नैवाभ्यस्तः परिश्रमात् ॥ १३ ॥
2.13 · p. 2
अनुष्टुप्
सव्याख्यो नैवाऽभिधानचिन्तामणिरपीक्षितः ।न च राजनिघण्टूनां विहितं चावगाहनम् ॥ १४ ॥
2.14 · p. 2
अनुष्टुप्
नैव केशवकल्पद्रुः कल्पितो हृदये मुहुः ।शर्मण्यसङ्ग्रहा नैव कृता ग्रहणगोचराः ॥ १५ ॥
2.15 · p. 2
अनुष्टुप्
रत्नाकरस्य मल्लस्य सोमदेवस्य भारवेः ।नेक्षिताः कृतयो यैश्च कोशं किं कुर्युरीदृशाः ॥ १६ ॥
2.16 · p. 2
अनुष्टुप्