कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Vāṅmayārṇava

वाङ्मयार्णव Vāṅmayārṇava

6,843 verses · text only, tagging comes next

स (3/4)

सुखं शर्मणि लग्नाच्चतुर्थराशौ च शस्तखे ।स्याच्छोभनखयुक्ते च त्रिः सुखस्य च साधने ॥ ६४५० ॥
48.6450 · p. 477
अनुष्टुप्
शम्भोस्तु नवशक्तीनां स्यादेकत्र सुखा स्त्रियाम् ।सुखोदयस्तु ना मद्यभेदे माध्वीकसंज्ञके ॥ ६४५१ ॥
48.6451 · p. 477
अनुष्टुप्
अपक्वेक्षुरसैः सिद्धे योगार्थे तु यथायथम् ।सुगतः पुंसि बुद्धेऽथ त्रिः शोभनगते भवेत् ॥ ६४५२ ॥
48.6452 · p. 477
अनुष्टुप्
सुग्रीवो राममित्रे स्यात्कपिभेदे पुमानयम् ।वास्तुदेवविशेषे च कोष्ठश्रेणौ हि पश्चिमे ॥ ६४५३ ॥
48.6453 · p. 477
अनुष्टुप्
आरभ्य दक्षिणात्कोष्ठात्तृतीये तत्र यः स्थितः ।ग्रीवायां शोभनायां स्त्री बहुव्रीहौ तु भेद्यवत् ॥ ६४५४ ॥
48.6454 · p. 477
अनुष्टुप्
सुचरित्रा मता स्त्रीत्वे कुस्तुम्बुर्व्यां च योगिके ।सुतः सोमरसे भूपे लग्नाद्राशौ च पञ्चमे ॥ ६४५५ ॥
48.6455 · p. 477
अनुष्टुप्
पुत्रयोस्तु द्वयोः स्त्री तु शाकवल्ल्यन्तरे सुता ।उपोदकाख्ये त्रिषु तु प्रसूतेऽभिषुतेऽपि च ॥ ६४५६ ॥
48.6456 · p. 477
अनुष्टुप्
सुदर्शनः शङ्खणस्य पुत्र ऐक्ष्वाकभूभुजि ।विष्णुचक्रे तु पुंसि स्यात्क्लीबेऽपि च सुदर्शनः ॥ ६४५७ ॥
48.6457 · p. 477
अनुष्टुप्
अथाऽमरावत्यामेतत्क्लीबमेव सुदर्शनम् ।सुदर्शना तु दध्यालीनाम्नि वल्लीभिदि स्मृता ॥ ६४५८ ॥
48.6458 · p. 477
अनुष्टुप्
गृध्राख्यपक्षिभेदे तु द्वयोरुक्तः सुदर्शनः ।सुधाऽमृते तथा स्नुह्यामपि सौहित्यमूर्वयोः ॥ ६४५९ ॥
48.6459 · p. 477
अनुष्टुप्
गङ्गेष्टिकायां कुड्यादिलेपद्रव्यान्तरे स्त्रियाम् ।सुनारस्तु शुनीस्तन्ये सर्पाण्डे च पुमान्मतः ॥ ६४६० ॥
48.6460 · p. 477
अनुष्टुप्

सुनालं-सुरसा

सुनालं रक्तकुमुदे बहुव्रीहौ तु भेद्यवत् ।सुनिषण्णं शाकभेदे स्वस्तिकादिपदश्रुते ॥ ६४६१ ॥
48.6461 · p. 478
अनुष्टुप्
सुन्दो दैत्यान्तरे दारुलेखके च पुमान्मतः ।सुपर्णो गरुडे पुंसि किरणे च प्रकीर्त्तितः ॥ ६४६२ ॥
48.6462 · p. 478
अनुष्टुप्
अश्वे गरुडवच्चापि पक्षिजात्यन्तरे द्वयोः ।सुपर्णी तु स्त्रियामेषा विनतायां प्रकीर्त्तिता ॥ ६४६३ ॥
48.6463 · p. 478
अनुष्टुप्
सुपार्श्वो गर्दभाण्डाख्यपादपेऽपि पुमान्मतः ।मेरोरुत्तरविष्कम्भपर्वतेऽपि तथा भवेत् ॥ ६४६४ ॥
48.6464 · p. 478
अनुष्टुप्
सुप्तं तु त्रिषु निद्राणे प्रशस्तजटकेऽपि च ।खञ्जरीटे पुनः कृष्णवक्षसि द्वे स्त्रियां पुनः ॥ ६४६५ ॥
48.6465 · p. 478
अनुष्टुप्
सुप्ता जटायां शस्तायां क्ली तु स्वापे प्रकीर्त्तितम् ।सुप्रतीको यौगिके च पुमांस्त्वीशानदिग्गजे ॥ ६४६६ ॥
48.6466 · p. 478
अनुष्टुप्
सुब्रह्मण्यस्तु ना स्कन्द ऋत्विग्भेदे तु नृस्त्रियोः ।सुब्रह्मण्या तु निगदनाम्नि स्याद्यजुरन्तरे ॥ ६४६७ ॥
48.6467 · p. 478
अनुष्टुप्
सुभिक्षा धातकीवृक्षे त्रिस्त्वन्नाढ्ये प्रकीर्त्तिता ।सुमनास्तु स्त्रियां ज्ञेया मालत्यां कुसुमे पुनः ॥ ६४६८ ॥
48.6468 · p. 478
अनुष्टुप्
स्त्रीभूम्नि स्युः सुमनसस्त्रि तु स्याच्छुभचेतसि ।पण्डिते च द्वयोस्तु स्याद्देवे क्ली तु शुभे हृदि ॥ ६४६९ ॥
48.6469 · p. 478
अनुष्टुप्
[गृहोर्ध्वभूस्थस्थूणायां सुमेधा स्यात्स्त्रियामियम्] ।सुयामुनो वत्सराजप्रासादेऽभ्रान्तरेऽच्युते ॥ ६४७० ॥
48.6470 · p. 478
अनुष्टुप्
सुरः सुरी द्वयोर्देवे सुरा मद्य जलेऽपि च ।स्त्रियां सुरतताली स्याद्दूत्यां चैव शिरःस्रजि ॥ ६४७१ ॥
48.6471 · p. 478
अनुष्टुप्
सुरभिः कलमाले च गन्धे च घ्राणतर्पणे ।त्रि तु तद्वति चारौ च श्रेष्ठे च स्यात्स्त्रियां पुनः ॥ ६४७२ ॥
48.6472 · p. 478
अनुष्टुप्
देवधेनौ ना तु वह्नौ वसन्ते चम्पकेऽपि च ।कपित्थे राजजम्ब्वां च पुँल्लिङ्गः सुरभिच्छदः ॥ ६४७३ ॥
48.6473 · p. 478
अनुष्टुप्
सुरवल्लभ उक्तो ना पुन्नागे यौगिके तु सः ।सुरसा तु महाजम्बूनाम्नि जम्ब्वन्तरे स्मृता ॥ ६४७४ ॥
48.6474 · p. 478
अनुष्टुप्

सुराष्ट्रः-सुहृत्

योगार्थे त्वस्य लिङ्गादि तर्कणीयं यथायथम् ।सुराष्ट्रः पीतमुद्गे ना सुराष्ट्रास्तु नृभूमनि ॥ ६४७५ ॥
48.6475 · p. 479
अनुष्टुप्
पश्चिमाब्ध्यन्तिके देशभिद्यस्त्री तु सुराष्ट्रके ।सुराष्ट्रजाढकीसंज्ञे स्त्री सौराष्ट्रमृदन्तरे ॥ ६४७६ ॥
48.6476 · p. 479
अनुष्टुप्
नपुंसकं सुरूपं च शाल्मलीफल इष्यते ।सुरूपा मल्लिकाभेदे वैश्यनाम्नि स्त्रियामथ ॥ ६४७७ ॥
48.6477 · p. 479
अनुष्टुप्
सुलभः पाकयज्ञाग्नावयत्नाऽप्ये तु स त्रिषु ।स्त्रियां सुलवणाधान्ये गवीथुरिति विश्रुते ॥ ६४७८ ॥
48.6478 · p. 479
अनुष्टुप्
सुलोहं त्वारकूटेऽपि शस्तलोहेऽपि कीर्त्तितम् ।सुवर्चला प्रभाख्यायां सूर्यपत्न्यां प्रकीर्त्तिता ॥ ६४७९ ॥
48.6479 · p. 479
अनुष्टुप्
तथा क्षुमाह्वये धान्ये शाकभेदेऽपि च स्त्रियाम् ।सुवर्णा मखभिद्यस्त्री पुमांस्तु स्वर्णकर्षयोः ॥ ६४८० ॥
48.6480 · p. 479
अनुष्टुप्
सुवहा सल्लकीगोधापदीशेफालिकासु च ।एलापर्ण्यां च रास्नायां वीणायां च स्त्रियां मता ॥ ६४८१ ॥
48.6481 · p. 479
अनुष्टुप्
सुविदत्रं कुटुम्बे क्ली धनलाङ्गलयोरपि ।सुविदत्रः पुनस्त्रि स्याच्छुद्धज्ञानसुविद्ययोः ॥ ६४८२ ॥
48.6482 · p. 479
अनुष्टुप्
सुव्रता सुखसन्दौह्यसुरभौ त्रि तु सद्व्रते ।सुषमा परमायां स्त्री शोभायां त्रिस्तु सुन्दरे ॥ ६४८३ ॥
48.6483 · p. 479
अनुष्टुप्
सुषवी कारवल्ल्यां स्त्री तथा कृष्णे च जीरके ।क्लीबं तु सुषिरं छिद्रे वंशादौ वाद्यभिद्यपि ॥ ६४८४ ॥
48.6484 · p. 479
अनुष्टुप्
स्याद्विद्रुमलतायां तु सुषिरा स्त्री नटे तु ना ।सुषियुक्ते तु सुषिरो भेद्यवत्परिकीर्त्तितः ॥ ६४८५ ॥
48.6485 · p. 479
अनुष्टुप्
सुषेणस्तु पुमान्विष्णौ करमर्दद्रुमेऽपि च ।सुग्रीववैद्य क्लीबं तु करमर्दफलादिके ॥ ६४८६ ॥
48.6486 · p. 479
अनुष्टुप्
कृष्णत्रिवृल्लतायां तु सुषेणा स्त्री प्रकीर्त्तिता ।सुस्तरः शयने पुंसि तथा माने प्रकीर्त्तितः ॥ ६४८७ ॥
48.6487 · p. 479
अनुष्टुप्
सुहितस्तु मतस्तृप्ते तथा सुष्ठुहिते त्रिषु ।सुहृन्मन्त्रिणि पुंसि त्रिर्मित्रे क्ली शोभने हृदि ॥ ६४८८ ॥
48.6488 · p. 479
अनुष्टुप्

सुह्मा-सूरः

सुह्मा नृभूम्नि स्युर्देशभेदे सर्ववचो नृपे ।वाच्यवत्सूक्ष्ममत्यल्पे क्लीबं त्वध्यात्म इष्यते ॥ ६४८९ ॥
48.6489 · p. 480
अनुष्टुप्
सूक्ष्मा नवानां शक्तीनां विष्णोरेकत्र कीर्त्तिता ।सूचकः पिशुने हस्तभ्रूभङ्गाद्यैश्च बोधके ॥ ६४९० ॥
48.6490 · p. 480
अनुष्टुप्
द्वे तु श्वक्रोष्ट्टकाकेषु सूचकः परिकीर्त्तितः ।सूचना तु न ना वृष्टौ गन्धने व्यर्थनेऽपि च ॥ ६४९१ ॥
48.6491 · p. 480
अनुष्टुप्
सूचे सूचौ दर्भणे तु सूचं सूचस्तु सूचने ।सूचिः स्यूति शलाकायां कवाटाल्पार्गले स्त्रियाम् ॥ ६४९२ ॥
48.6492 · p. 480
अनुष्टुप्
सूचीवद्द्वे तु वेश्याजे निषादात्सूचिरुच्यते ।सूचीमुखं तु क्लीबं स्यादासने यस्य लक्षणम् ॥ ६४९३ ॥
48.6493 · p. 480
अनुष्टुप्
ऊर्ध्वज्ञोर्जानुनोर्बाहूप्रसार्य करयोस्तलौ ।संहत्य च स्थितिर्या स्यात्तत्सूचीमुखमासनम् ॥ ६४९४ ॥
48.6494 · p. 480
अनुष्टुप्
सूतः पारदसारथ्योः पुंसि तक्षणि तु द्वयोः ।तथा वन्दिनि विप्रायां क्षत्रियाज्जात इष्यते ॥ ६४९५ ॥
48.6495 · p. 480
अनुष्टुप्
त्रिः प्रेरिते च जनिते क्ली सूतौ प्रेरणेऽपि च ।सूतकं जन्मनि प्रोक्तं नृनपो राहुपारदे ॥ ६४९६ ॥
48.6496 · p. 480
अनुष्टुप्
स्त्रियां तु स्यात्प्रसूतायां सूतका सूतिकापि च ।सूत्रोऽस्त्री यज्ञसूत्रे च तन्तौ सङ्ग्रहवाच्यपि ॥ ६४९७ ॥
48.6497 · p. 480
अनुष्टुप्
सूदो ना सूपकारेऽथ सूपे रूपे च नप्स्त्रियोः ।सूदा तु क्षरणे स्त्री स्यान्नतु ना क्षारणे मता ॥ ६४९८ ॥
48.6498 · p. 480
अनुष्टुप्
सूनं तु पुष्पे क्लीबं स्यात्प्रसूते पुष्पिते त्रिषु ।सूना वधे वधस्थाने स्याच्च दण्डाऽर्पिताऽङ्कुशे ॥ ६४९९ ॥
48.6499 · p. 480
अनुष्टुप्
अधःसिरायां जिह्वायां तथा दुहितरि स्मृता ।सूनुर्द्वयोरपत्ये स्यादथाऽर्के चाऽनुजे पुमान् ॥ ६५०० ॥
48.6500 · p. 480
अनुष्टुप्
सूपो ना सूपकृत्यस्त्री मुद्गाद्यैर्व्यञ्जने कृते ।सूमः प्रकीर्तितश्चन्द्रे पुँल्लिङ्गः श्वयथावपि ॥ ६५०१ ॥
48.6501 · p. 480
अनुष्टुप्
क्ली त्वन्तरिक्षे त्रिषु तु सदूमे सदुमेऽपि च ।सूरः सूर्ये गभस्तौ च पुँल्लिङ्गः परिकीर्त्तितः ॥ ६५०२ ॥
48.6502 · p. 480
अनुष्टुप्

सूरिः-सेवकः

सूरिः पुमान्स्यादाचार्ये त्रि तु स्तोतरि पण्डिते ।सूर्पो वार्त्ताकयोः पुंसि मत्स्यजातौ द्वयोर्मतः ॥ ६५०३ ॥
48.6503 · p. 481
अनुष्टुप्
सूर्मः सूर्मी शुष्ककाष्ठलोहप्रतिमयोर्द्वयोः ।सूर्या वाचि श्वेतगिरिकर्ण्यां सूर्यस्तु ना रवौ ॥ ६५०४ ॥
48.6504 · p. 481
अनुष्टुप्
सृको वके सृगाले द्वे ना वज्रे नरके शरे ।सृगालो दैत्यभेदे ना क्रौष्ट्रौ द्वे डमरे स्त्रियाम् ॥ ६५०५ ॥
48.6505 · p. 481
अनुष्टुप्
सृणिस्तु वह्नौ वज्रे च पुँल्लिङ्गः स्यात्तथाऽङ्कुशे ।सृणीकस्तु त्रिषून्मत्ते ना त्वग्नावशनावपि ॥ ६५०६ ॥
48.6506 · p. 481
अनुष्टुप्
सृणीका तु स्त्रियामेषा लालायां परिकीर्त्तिता ।सृतिस्तु मार्गे गमनेऽपि च स्त्रीत्वे प्रकीर्त्तिता ॥ ६५०७ ॥
48.6507 · p. 481
अनुष्टुप्
सृत्वा प्रजापतौ वह्नौ पुंसि द्वे नीचजातिषु ।सृत्वरी तु स्त्रियां वाचि जननीवैश्ययोरपि ॥ ६५०८ ॥
48.6508 · p. 481
अनुष्टुप्
सृदाकुर्द्वे खगेऽप्सु क्ली नाऽग्नौ गोत्रर्षिभिद्यपि ।सृपा द्वयोः शिशौ सर्पे यतिनि त्वेष भेद्यवत् ॥ ६५०९ ॥
48.6509 · p. 481
अनुष्टुप्
सृप्रं सर्पिषि तैले क्ली सृप्रश्चन्द्रे पुमान्मतः ।सृप्रा तूज्जयिनीपार्श्ववाहिन्यां सरिति स्मृता ॥ ६५१० ॥
48.6510 · p. 481
अनुष्टुप्
सृमरो मृगभेदे द्वे गत्वरे तु स्त्रियां मतः ।सृष्टं तु सर्जने क्लीबं निश्चिते त्वभिधेयवत् ॥ ६५११ ॥
48.6511 · p. 481
अनुष्टुप्
बहुनिर्मितयोर्मुक्तेऽपि सृष्टं परिकीर्त्तितम् ।सृष्टिः स्त्रियां स्वभावे च त्यागेऽप्युत्पादनेऽपि च ॥ ६५१२ ॥
48.6512 · p. 481
अनुष्टुप्
सेशब्दः सेवने स्त्री स्यात्सेवके वाच्यलिङ्गकः ।सेक्ता पुंसि धवे त्रिस्तु सेचके परिकीर्त्तितः ॥ ६५१३ ॥
48.6513 · p. 481
अनुष्टुप्
सेचनं नौसेकपात्रे सिक्तावपि नपुंसकम् ।सेतुरायतने वारिबन्धे ना वरुणद्रुमे ॥ ६५१४ ॥
48.6514 · p. 481
अनुष्टुप्
सेनस्त्रिष्विनयुक्ते स्यात्सेना चम्वां स्त्रियां मता ।सेनानीस्तु पुमान्स्कन्दे त्रि तु सेनापतौ स्मृतः ॥ ६५१५ ॥
48.6515 · p. 481
अनुष्टुप्
सेवः स्यूतौ पुमान्न क्ली भजने परिकीर्त्तितः ।सेवको ना प्रसेवाख्ये स्यूते सेवितरि त्रिषु ॥ ६५१६ ॥
48.6516 · p. 481
अनुष्टुप्

सेवना-सौगन्धिकम्

सेवना सुवयत्यर्थे न ना क्ली स्यूतिसेवयोः ।सेव्यं तु सेवनीये त्रिर्वातव्येऽप्यथ नब्जले ॥ ६५१७ ॥
48.6517 · p. 482
अनुष्टुप्
उशीरे निःशरे दध्नि पत्राङ्गाह्वयभेषजे ।अब्धिजे लवणे ना तु मध्वासव इति श्रुते ॥ ६५१८ ॥
48.6518 · p. 482
अनुष्टुप्
मद्यभेदे स्त्रियां तु स्यात्सेव्या नीवारधान्यके ।स्यात्स्त्री मतल्लिकायां द्वे त्वायोगव्यां हि दस्युजे ॥ ६५१९ ॥
48.6519 · p. 482
अनुष्टुप्
वन्दाकेऽप्यज्झटासंज्ञस्तम्बेऽथ चटके द्वयोः ।त्रि सैकतं सिकतिले सिकतापुलिने त्रिषु ॥ ६५२० ॥
48.6520 · p. 482
अनुष्टुप्
सैनिकः सैन्यरक्षेऽपि स्यात्सेनासमवायिनि ।सैन्धवोऽश्वेऽश्वभेदे द्वे मनुष्ये सिन्धुदेशजे ॥ ६५२१ ॥
48.6521 · p. 482
अनुष्टुप्
क्ली वस्त्रजालराष्ट्रेषु पुमांस्तु स्याज्जयद्रथे ।सिन्धुसम्बन्धिनि पुनस्त्रिषु सैन्धव इष्यते ॥ ६५२२ ॥
48.6522 · p. 482
अनुष्टुप्
सैन्यं क्लीबं च सेनायां त्रिः सेनासमवायिनि ।सैन्यश्चतुर्णामश्वानां कृष्णस्यैकत्र पुंस्ययम् ॥ ६५२३ ॥
48.6523 · p. 482
अनुष्टुप्
सैरास्तु मध्यदेशस्य नीवृद्भदे नृभूमनि ।सीरस्य तु सिरायाश्च सम्बन्धिन्यभिधेयवत् ॥ ६५२४ ॥
48.6524 · p. 482
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 3 द्भ (wrong syllable)
सैरिकस्त्रिः सीरयोगिवोढ्रादौ स्वर्ग एष ना ।सैरिन्ध्री स्ववशाऽन्यालयस्थशिल्पकृति स्त्रियाम् ॥ ६५२५ ॥
48.6525 · p. 482
अनुष्टुप्
सोता नाऽध्यापके त्रिस्तु जनके चाभिषोतरि ।सोमो ब्रह्मणि पूष्णीन्दौ वह्नौ पुण्ये लतान्तरे ॥ ६५२६ ॥
48.6526 · p. 482
अनुष्टुप्
वीर्येऽमृतरसे शैत्ये सोमं तु त्रिषु तद्वति ।तथोमया च सहिते ऊमेन सहितेऽपि च ॥ ६५२७ ॥
48.6527 · p. 482
अनुष्टुप्
नर्मदायां सोमभवा स्त्रीयोगे तु यथायथम् ।सोमयोनिर्द्वयोर्विप्रे सुरे योगे तु लोकवत् ॥ ६५२८ ॥
48.6528 · p. 482
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 सो (wrong syllable)
अथो नपुंसकं क्षीरे ज्ञेयं सोमरसोद्भवम् ।सोमवल्कस्तु धवलखदिरे कट्फलेऽपि च ॥ ६५२९ ॥
48.6529 · p. 482
अनुष्टुप्
सोमवल्ली स्त्रियां ब्राह्म्यां गुडूच्यामप्यवल्गुजे ।सौगन्धिकं तु क्ली पद्मे कल्हारेऽध्यामसंज्ञके ॥ ६५३० ॥
48.6530 · p. 482
अनुष्टुप्

सौदामनी-स्कन्धः

गन्धद्रव्ये गन्धकाख्यधातौ तु स्यादयं पुमान् ।सौदामनी मता विद्युद्विशेषेऽपि च विद्युति ॥ ६५३१ ॥
48.6531 · p. 483
अनुष्टुप्
सौधस्तु न स्त्री सुधया गेहे शुक्लीकृते मतः ।क्लीबं तु रजते सौधं सुधासम्बन्धिनि त्रिषु ॥ ६५३२ ॥
48.6532 · p. 483
अनुष्टुप्
सौप्तिकस्तु प्रपाताख्यशत्रुनिग्रहकर्मणि ।सौमिको दीक्षणीयेष्टौ त्रि तु सोमक्रतूद्भवे ॥ ६५३३ ॥
48.6533 · p. 483
अनुष्टुप्
सौम्यस्त्रिः सुन्दरे सोमदेवते ना तु वत्सरे ।बुधग्रहे सोमयागेऽरत्नौ पञ्चदशेऽस्य च ॥ ६५३४ ॥
48.6534 · p. 483
अनुष्टुप्
यूपः सप्तदशारत्निर्वाजपेयस्य यः श्रुतः ।सौम्या निशि स्त्रियां सौम्यं क्लीबं कृतयुगेऽपि च ॥ ६५३५ ॥
48.6535 · p. 483
अनुष्टुप्
तुरायणाख्यतपसोर्द्वितयेऽपि प्रकीर्त्तितम् ।सौरतो मृदुवायौ ना त्रि स्यात्सुरतयोगिनि ॥ ६५३६ ॥
48.6536 · p. 483
अनुष्टुप्
सौरभेयी तु सुरभौ सौरभेयस्तु ना वृषे ।सौरभ्यमुक्तं सौगन्ध्ये क्लीबं च गुणगौरवे ॥ ६५३७ ॥
48.6537 · p. 483
अनुष्टुप्
मनोज्ञत्वेऽपि सौरभ्यस्तु मनोज्ञे विधेयवत् ।सौराष्ट्रं कांस्यलोहेऽथ सौराष्ट्री त्वाढकी मृदि ॥ ६५३८ ॥
48.6538 · p. 483
अनुष्टुप्
सौवीरो गोपघोण्टायां सौवीरं बदरीफले ।स्रोतोऽञ्जने काञ्जिकेऽथ नीवृद्भेदे नृभूमनि ॥ ६५३९ ॥
48.6539 · p. 483
अनुष्टुप्
सौष्ठवं तु प्रशस्तत्वेऽवष्टम्भेऽपि नपुंसकम् ।स्कन्दस्तु कार्त्तिकेयेऽपि नदीतीरेऽपि पारते ॥ ६५४० ॥
48.6540 · p. 483
अनुष्टुप्
स्कन्दने ब्रह्मणि शिवे नृपे देहे तथा पुमान् ।उत्तरस्थः पुनः स्कन्दो भवेत्स्कन्देन कर्त्तरि ॥ ६५४१ ॥
48.6541 · p. 483
अनुष्टुप्
स्कन्दनं पातवैफल्यविरेकगतिशोषणे ।स्कन्दोलस्तु पुमाञ्शीतगुणे शीते पुनस्त्रिषु ॥ ६५४२ ॥
48.6542 · p. 483
अनुष्टुप्
स्कन्धोंऽशे भूपतौ वृक्षमहाविटपमूलके ।चये समुदये रूपवेदनादिकपञ्चके ॥ ६५४३ ॥
48.6543 · p. 483
अनुष्टुप्
सैन्यव्यूहे ग्रन्थकाण्डे काये पिण्डे मुनावपि ।आर्याभेदे स्कन्धकाख्ये सम्पराये मरुत्पथे ॥ ६५४४ ॥
48.6544 · p. 483
अनुष्टुप्

स्कन्धकः-स्तब्धरोमा

राज्याभिषेकसम्भाराङ्गभूतकलशादिके ।धूर्वहस्कन्धसाम्येऽपि स्यान्नागान्तरसंविदोः ॥ ६५४५ ॥
48.6545 · p. 484
अनुष्टुप्
भद्रादौ च बके तु द्वे स्कन्धा स्त्री वल्लिशाखयोः ।स्कन्धकस्तु भवेत्स्कन्धेऽप्यार्याभेदे क्वचिन्मतः ॥ ६५४६ ॥
48.6546 · p. 484
अनुष्टुप्
अथ स्कन्धफलो नारिकेले बिल्वेऽप्युदुम्बरे ।स्कन्धः सान्तं मतं स्कन्धे शिखरेऽपि तरोर्मतः ॥ ६५४७ ॥
48.6547 · p. 484
अनुष्टुप्
स्कन्धोपनेयं स्याद्राज्ञां सन्धिभेदेऽपि यौगिके ।स्कन्नं शुष्के लम्बमाने पतितेऽप्युन्नते क्वचित् ॥ ६५४८ ॥
48.6548 · p. 484
अनुष्टुप्
स्खदनं पाटने स्थैर्ये क्लेशोत्पादनहिंसयोः ।विद्रावणे विदारेऽपि स्खदनाऽपि क्वचिन्मता ॥ ६५४९ ॥
48.6549 · p. 484
अनुष्टुप्
स्खलस्तु स्खलनेऽप्याह तस्यार्थं सायणः खलम् ।स्खलनं गद्गदने स्यादस्थैर्यभ्रंशयोरपि ॥ ६५५० ॥
48.6550 · p. 484
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 6 द (wrong syllable)
बाधायामपराधेऽपि विनिपाते पराभवे ।स्खलितं त्वस्थिरे मत्ते निगृहीते च गद्गदे ॥ ६५५१ ॥
48.6551 · p. 484
अनुष्टुप्
अनुल्बणे प्रमत्तेऽपि सम्भ्रान्तभ्रान्तयोस्त्रिषु ।स्खलितं त्वपराधेऽपि नाशे वक्रगतावपि ॥ ६५५२ ॥
48.6552 · p. 484
अनुष्टुप्
स्तनो न स्त्री कुचे चूचुके च पात्राङ्गभिद्यपि ।स्तननं कासने शब्दमात्रे कुन्थनगर्जयोः ॥ ६५५३ ॥
48.6553 · p. 484
अनुष्टुप्
अथ स्तनभवो योगाऽर्थेऽपि स्त्रीकरणान्तरे ।स्तनयित्नुः पुमान्मेघे तथा मेघस्य गर्जिते ॥ ६५५४ ॥
48.6554 · p. 484
अनुष्टुप्
व्याधौ मृतौ विद्युति च मुस्तके मेघवाचिवत् ।स्तनान्तरं तु स्तनयोर्मध्ये चापि नपुंसकम् ॥ ६५५५ ॥
48.6555 · p. 484
अनुष्टुप्
भाविवैधव्यचिह्नेऽपि स्तनस्थे परिकीर्त्तितम् ।स्तनितं गर्जिते दुःखशब्दे चापकरध्वनौ ॥ ६५५६ ॥
48.6556 · p. 484
अनुष्टुप्
स्तब्धः स्थिरे जडेऽहङ्कारिणि मन्दे घने त्रिषु ।स्तबके नस्त्रियां गुच्छे समूहे ग्रन्थकाण्डके ॥ ६५५७ ॥
48.6557 · p. 484
अनुष्टुप्
स्तन्यं क्षीरे भवेत्क्लीबं स्तन्यः स्तनभवे त्रिषु ।स्तब्धरोमा वराहे द्वे यौगिके तु यथायथम् ॥ ६५५८ ॥
48.6558 · p. 484
अनुष्टुप्

स्तम्बः-स्तोमः

स्तम्बस्तृणे च विटपे संहतौ च पुमान्मतः ।पुमान्स्तम्बकरिर्व्रीहौ वाच्यवत्स्तम्बकारिणि ॥ ६५५९ ॥
48.6559 · p. 485
अनुष्टुप्
स्तम्बेरमो गजेऽप्यष्टसंख्यायां हस्तिवाचिवत् ।स्तम्बजं स्तम्बजाते त्रिरुशीरे तु नपुंसकम् ॥ ६५६० ॥
48.6560 · p. 485
अनुष्टुप्
स्तभस्तुस्तु भवेच्छागे तथा मेषे द्वयोर्मतः ।स्तम्भ ऊक्तो जडीभावे स्थूणायां प्रतिबन्धने ॥ ६५६१ ॥
48.6561 · p. 485
अनुष्टुप्
स्तम्भकस्त्रिः स्तम्भकृति पुमांस्तु प्रमथान्तरे ।कृतौ पुमान्स्तम्भकरः स्तम्भकारिणि वाच्यवत् ॥ ६५६२ ॥
48.6562 · p. 485
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 स्त (wrong syllable)
स्तम्भनं स्तब्धताहेतौ त्रिर्ना कामशरान्तरे ।विद्यान्तरे स्तम्भनी स्त्री क्ली स्तब्धकरणे मतम् ॥ ६५६३ ॥
48.6563 · p. 485
अनुष्टुप्
स्तरस्त्वास्तरणे पाषाणाद्यंशेऽपि पुमान्मतः ।स्तरणं छादनेऽपि स्याद्वधेऽपि च नपुंसकम् ॥ ६५६४ ॥
48.6564 · p. 485
अनुष्टुप्
स्तरिर्धूमे पुमान्स्त्री तु तृणे स्यात्स्तरिवत्स्तरी ।वन्ध्यायां च स्तरी तद्वत्स्त्रीमात्रेऽपि प्रकीर्त्तिता ॥ ६५६५ ॥
48.6565 · p. 485
अनुष्टुप्
स्तिमितं निश्चले क्लिन्नेऽप्यभिधेयवदिष्यते ।स्तामुस्तु स्तोतरि मतो गर्जितर्यपि वाच्यवत् ॥ ६५६६ ॥
48.6566 · p. 485
अनुष्टुप्
अस्त्री स्तवरको वस्त्रभेदे पुंसि वृतौ भवेत् ।स्तिहितिः स्त्री महीजस्य फले स्यादङ्कुरेऽपि च ॥ ६५६७ ॥
48.6567 · p. 485
अनुष्टुप्
स्तीभिः पुंसि समुद्रे च हृदये च प्रकीर्त्तितः ।स्तीर्णाः प्रमथभेदेषु स्तीर्णस्त्रि स्यात्प्रसारिते ॥ ६५६८ ॥
48.6568 · p. 485
अनुष्टुप्
संयुगोपायतनयोः पुँल्लिङ्गः परिकीर्त्तितः ।स्तीर्विर्नभसि चाध्वर्यौ तृणजातौ पयस्यपि ॥ ६५६९ ॥
48.6569 · p. 485
अनुष्टुप्