All kośas › Vāṅmayārṇava
वाङ्मयार्णव Vāṅmayārṇava
6,843 verses · text only, tagging comes next
क (1/7)
को ब्रह्मणि समीरात्मयमदक्षेषु भास्करे ।किं सर्वनाम्नः क इति रूपं प्रश्नादिवाचकम् ॥ ९४३ ॥
17.943 · p. 72
अनुष्टुप्
पतत्रिपार्थिवे पुंसि कामग्रन्थौ च चक्रिणि ।मयूरेग्नौ नगे देहे शब्दबुद्धिमनःस्वपि ॥ ९४४ ॥
17.944 · p. 72
अनुष्टुप्
कं-कङ्कणं
कं तु क्लीबं सुखशिरः सलिलेषु प्रकीर्त्तितम् ।ककुदं क्ल्युन्नते श्रेष्ठे राजलक्ष्मवृषांसयोः ॥ ९४५ ॥
17.945 · p. 73
अनुष्टुप्
स्त्री तु दक्षस्य पुत्र्यां स्याद्भार्या धर्मस्य याऽभवत् ।ककुदो स्त्री बलीवर्दस्कन्धयोर्मध्य उन्नते ॥ ९४६ ॥
17.946 · p. 73
अनुष्टुप्
प्रधाने राजचिह्ने च हस्तिमेढ्रेऽश्वकान्तरे ।ककुदी तु पुमान्षण्डे ककुदेन युते त्रिषु ॥ ९४७ ॥
17.947 · p. 73
अनुष्टुप्
ककुद्मान्वृषभे षण्डे पर्वते ऋषभौषधे ।ककुद्मती स्त्रीश्रोण्यां च छन्दोभेदे च कीर्त्तिता ॥ ९४८ ॥
17.948 · p. 73
अनुष्टुप्
ककुद्मी वृषभे षण्डे गुरौ विष्णौ नृपान्तरे ।ककुद्वान्वृषभे प्रद्युम्नपत्यां तु ककुद्वती ॥ ९४९ ॥
17.949 · p. 73
अनुष्टुप्
ककुबुष्णिग्विशेषे स्त्री भूभृतः शिखरे दिशि ।तथा प्रवेण्यां शोभायां भारत्यां चम्पकस्रजि ॥ ९५० ॥
17.950 · p. 73
अनुष्टुप्
स्यादथैकान्नपञ्चाशद्रात्रे सत्रे च भूमनि ।शास्त्रे च रागिणीभेदे दक्षस्य दुहितर्यपि ॥ ९५१ ॥
17.951 · p. 73
अनुष्टुप्
ककुभोऽर्जुनवृक्षेऽपि रागभेदे प्रसेवके ।कक्खटी खटिकायां स्त्री कक्खटः कठिने त्रिषु ॥ ९५२ ॥
17.952 · p. 73
अनुष्टुप्
कक्षः स्पर्धापदे बाहुमूले दुर्गे तृणे वने ।कच्छे वीरुधि कक्षा तु स्त्र्यन्तरीयपराञ्चले ॥ ९५३ ॥
17.953 · p. 73
अनुष्टुप्
केचित्तु बाहुमूलेऽपि कक्षां स्त्रियमधीयते ।कक्ष्या बृहतिकायां स्यात्काञ्च्यां मध्येभबन्धने ॥ ९५४ ॥
17.954 · p. 73
अनुष्टुप्
अविशेषाद्वरत्रायां साम्ये गेहप्रकोष्ठके ।पार्श्वाद्यङ्गसमुद्भूतरोगभेदेऽङ्गुलावपि ॥ ९५५ ॥
17.955 · p. 73
अनुष्टुप्
कक्ष्यापालस्त्वौपरिके शूरपाले भवेत्त्रिषु ।कक्ष्यावेक्ष्यक इत्येष शुद्धान्तोद्यानपालयोः ॥ ९५६ ॥
17.956 · p. 73
अनुष्टुप्
रङ्गाजीवे कवौ षिङ्गे द्वाःस्थे चैव प्रकीर्त्तितः ।कङ्को यमे छद्मविप्रे ना द्वयोर्लोहपृष्ठके ॥ ९५७ ॥
17.957 · p. 73
अनुष्टुप्
कङ्कटः पुंसि कवचे चाऽङ्कुशेऽपि प्रकीर्त्तितः ।कङ्कणं करभूषायां सूत्रे भूषणमात्रके ॥ ९५८ ॥
17.958 · p. 73
अनुष्टुप्
कङ्कणी-कज्जली
कङ्कणी तु स्त्रियां क्षुद्रघण्टिकायां प्रकीर्त्तिता ।कङ्कणीका प्रतिसरे घण्टाजाले तु पुंस्ययम् ॥ ९५९ ॥
17.959 · p. 74
अनुष्टुप्
कङ्कती तु त्रिलिङ्गेऽयं केशमार्जनके भवेत् ।द्वे त्वेकस्यां तासां याश्चतस्रः काकजातयः ॥ ९६० ॥
17.960 · p. 74
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 4 स्यां (syllables merged)
कङ्कपत्रो वाणभेदे यौगिके लिङ्गमर्थतः ।ना संदंशे कङ्कमुखो यौगिके लिङ्गमर्थतः ॥ ९६१ ॥
17.961 · p. 74
अनुष्टुप्
नियुतानां शते तक्रे कङ्करं त्रि तु कुत्सिते ।कङ्गुः प्रियङ्गुके कङ्गुधान्ये ना कंससोदरे ॥ ९६२ ॥
17.962 · p. 74
अनुष्टुप्
कचः केशे गुरोः पुत्रे बन्धे शुष्कव्रणेऽपि ना ।नृजातिभेदे शतकीक्षत्रियप्रभवे द्वयोः ॥ ९६३ ॥
17.963 · p. 74
अनुष्टुप्
कचपोता तिले पत्रे तथा शाकपलालयोः ।कचा करिण्यां शोभायां स्त्रीलिङ्गे परिकीर्त्तिता ॥ ९६४ ॥
17.964 · p. 74
अनुष्टुप्
कचाकुस्तु दुराधर्षे दुःशीले च बिलेशये ।कच्चरं कुत्सिते वाच्यलिङ्गं तक्रे नपुंसकम् ॥ ९६५ ॥
17.965 · p. 74
अनुष्टुप्
कच्चित्प्रश्ने मङ्गले च हर्षे कामप्रवेदने ।कच्छोऽनूपे तुन्नकद्रौ पार्श्वे गुह्याम्बरे तथा ॥ ९६६ ॥
17.966 · p. 74
अनुष्टुप्
नान्दीवृक्षे च नौकाङ्गे कूर्माङ्घ्रौ स्थावरान्तरे ।स्त्री वाराहीचीरिकयोर्नीवृद्भेदे नृभूमनि ॥ ९६७ ॥
17.967 · p. 74
अनुष्टुप्
कच्छपो द्वे भवेत्कूर्मे मल्लबन्धान्तरे निधौ ।स्त्री कच्छपी सरस्वत्या वीणायां क्षुद्ररुग्भिदि ॥ ९६८ ॥
17.968 · p. 74
अनुष्टुप्
कच्छघ्नी तु पटोले स्त्री तथैव हपुषान्तरे ।कच्छरा स्त्री यवासे च तथा शाट्यात्मगुप्तयोः ॥ ९६९ ॥
17.969 · p. 74
अनुष्टुप्
पामाभिस्तु युते तद्वत्पुंश्चले कच्छुरस्त्रिषु ।कजं नपुंसकं पद्मे पीयूषे च प्रकीर्त्तितम् ॥ ९७० ॥
17.970 · p. 74
अनुष्टुप्
कज्जलं त्वञ्जने कंसोत्पलाख्ये च वनोत्पले ।कज्जलः स्यात्पुमान्मेघे कज्जली तु पराञ्जने ॥ ९७१ ॥
17.971 · p. 74
अनुष्टुप्
गन्धके मिश्रितरसे तथा स्त्री परिकीर्त्तिता ।कज्जला कज्जलीत्येतद्द्वयं मीनान्तरे मतम् ॥ ९७२ ॥
17.972 · p. 74
अनुष्टुप्
कञ्चुकः-कटम्भरा
कञ्चुकोऽस्त्री वारवाणे निर्मोके करभेऽपि च ।वर्धापकगृहीताङ्गस्थितवस्त्रे च चोलके ॥ ९७३ ॥
17.973 · p. 75
अनुष्टुप्
स्त्रियामोषधिभेदे च क्षीरीशद्रौ च कञ्चुकी ।कञ्चुकी तु द्वयोः सर्पे त्रिस्तु कञ्चुकसंयुते ॥ ९७४ ॥
17.974 · p. 75
अनुष्टुप्
ना विटेऽन्तःपुराध्यक्षे जोङ्गके चणकेपि च ।कञ्जः केशे विरिञ्चे ना कञ्जं त्वमृतपद्मयोः ॥ ९७५ ॥
17.975 · p. 75
अनुष्टुप्
कञ्जनः कामदेवे ना द्वयोर्मदनपक्षिणि ।कञ्जरो जठरे सूर्ये विरिञ्चे वारणे मुनौ ॥ ९७६ ॥
17.976 · p. 75
अनुष्टुप्
कञ्जारस्तु गृहे गूढे मणौ ना त्रिस्त्वशोभने ।कटो ग्रामादिपर्यन्ते किलिञ्जगजगण्डयोः ॥ ९७७ ॥
17.977 · p. 75
अनुष्टुप्
स्त्री कटी श्रोणिपिप्पल्योश्चापाग्रेऽथ भृशे त्रिषु ।कटकोऽस्त्री नितम्बेद्रेर्दन्तिनां दन्तमण्डने ॥ ९७९ ॥
17.979 · p. 75
अनुष्टुप्
सामुद्रलवणे राजधान्यां बलयसैन्ययोः ।हस्तमुष्टौ तु पुंसि स्यात्स्त्रियां तु कटिका कृते ॥ ९८० ॥
17.980 · p. 75
अनुष्टुप्
सूत्रस्यूतशलाकाभिरायुधस्य निवारणे ।परिमण्डलसंस्थानद्रव्ये संपरिकीर्त्तिता ॥ ९८१ ॥
17.981 · p. 75
अनुष्टुप्
कटखादक इत्येष बलिपुष्टे च जम्बुके ।खादके काचकलशे पुँल्लिङ्गः परिकीर्त्तितः ॥ ९८२ ॥
17.982 · p. 75
अनुष्टुप्
कटप्रूर्ना शिवे विद्याधरराक्षसभेदयोः ।तथाक्षदेवने स्त्री तु भवेत्खेलगतावियम् ॥ ९८३ ॥
17.983 · p. 75
अनुष्टुप्
कटभङ्गस्तु सस्यानां हस्तच्छेदे नृपात्यये ।कटभी वृक्षभेदेऽपि ज्योतिष्मत्यामपि स्त्रियाम् ॥ ९८४ ॥
17.984 · p. 75
अनुष्टुप्
कटम्बो वाद्यभेदेऽपि शरेऽपि च पुमानयम् ।कटम्भरः स्यात्श्योनाके कटभ्यामपि चेष्यते ॥ ९८५ ॥
17.985 · p. 75
अनुष्टुप्
कटम्भरा प्रसारण्यां रोहिण्यां गजयोषिति ।कलविङ्क्यां च गोलायां वर्षाभूमूर्वयोरपि ॥ ९८६ ॥
17.986 · p. 75
अनुष्टुप्
कटहः-कडम्बः
कटहः कर्णवति ना कालायसविनिर्मिते ।जलपात्रे तथैवाऽयं पर्जन्येऽपि प्रकीर्त्तितः ॥ ९८७ ॥
17.987 · p. 76
अनुष्टुप्
कटाहो द्वीपभेदेऽपि तैलादेः पाकभाजने ।तिर्यच्छृङ्गे च महिषी तर्णके कर्मकर्परे ॥ ९८८ ॥
17.988 · p. 76
अनुष्टुप्
कटिः श्रोणौ कटी च स्त्री पिप्पल्यां चोच्यते कटी ।कटित्रं रशनायां च दन्तमूले च दन्तिनाम् ॥ ९८९ ॥
17.989 · p. 76
अनुष्टुप्
कटुः स्त्री कटुरोहिण्यां लताराजिकयोरपि ।कटुस्तु गुग्गुलौ पुंसि लशुने टङ्कने तथा ॥ ९९० ॥
17.990 · p. 76
अनुष्टुप्
ऊषणाख्ये रसे चापि गन्धे सौरभ्यनामनि ।त्रिस्तूक्तगन्धरसयोरेकयुक्ते समत्सरे ॥ ९९१ ॥
17.991 · p. 76
अनुष्टुप्
तीक्ष्णकार्यप्रियेषु क्ली शुण्ठौ च मरिचेपि च ।कटुका कटुरोहिण्यां व्योषे तु कटुकं मतम् ॥ ९९२ ॥
17.992 · p. 76
अनुष्टुप्
कटुकन्दः पुमान् शिग्रौ शृङ्गबेररसोनयोः ।कटुग्रन्थिर्भवेच्छृङ्गबेरपिप्पलिमूलयोः ॥ ९९३ ॥
17.993 · p. 76
अनुष्टुप्
कटुतिक्तस्तु भूनिम्बे शोणेऽपि च पुमान्मतः ।कटुतुम्ब्यां स्त्रियामेषा कीर्त्तिता कटुतिक्तिका ॥ ९९४ ॥
17.994 · p. 76
अनुष्टुप्
कटूत्कटं तु क्ली व्योषेऽप्यार्द्रके त्रि तु यौगिके ।कट्वङ्गः पक्षिभेदे द्वे ना टुण्टुद्रुदिलीपयोः ॥ ९९५ ॥
17.995 · p. 76
अनुष्टुप्
कठो मुनौ तदाख्यातवेदाध्येतृकयोः स्वरे ।कठारस्तु भवेत् पिङ्गे शिल्पिन्यपि च पुंस्त्रियोः ॥ ९९६ ॥
17.996 · p. 76
अनुष्टुप्
कठिनं निष्ठुरे स्तब्धे त्रिषु स्थाल्यां तु नप् स्मृतम् ।कठिनी खटिकायां स्त्री कठिना गुडशर्करा ॥ ९९७ ॥
17.997 · p. 76
अनुष्टुप्
कठिल्लकं कारवेल्लफले ना तु कठिज्जरे ।पुनर्नवायां रक्तायां कारवेल्ले कठिल्लकः ॥ ९९८ ॥
17.998 · p. 76
अनुष्टुप्
कडत्रवत्तु क्लीबे स्यात्कलत्रं श्रोणिभार्ययोः ।कडत्रन्तु नृपादीनां दुर्गस्थानेऽपि कीर्त्तितम् ॥ ९९९ ॥
17.999 · p. 76
अनुष्टुप्
कडम्बो व्यञ्जनीभूतशाकनाले द्रुमान्तरे ।कदम्बे तु मतं क्लीबं प्रसवे तस्य शाखिनः ॥ १००० ॥
17.1000 · p. 76
अनुष्टुप्
कडारं-कण्डारं
कडारं तु जले क्लीबं रूक्षताशूलयोस्तु ना ।तथा कपिलवर्णे च तद्युक्ते त्वभिधेयवत् ॥ १००१ ॥
17.1001 · p. 77
अनुष्टुप्
विषमीभूतदशने निःसारे द्वे तु दासके ।कणोऽतिसूक्ष्मे बाणे च तण्डुलावयवे च ना ॥ १००२ ॥
17.1002 · p. 77
अनुष्टुप्
अपसक्तुषु पुंभूम्नि तदेकावयवेऽन्यथा ।कणा जीरककुम्भीरमक्षिकापिप्पलीषु च ॥ १००३ ॥
17.1003 · p. 77
अनुष्टुप्
सूक्ष्मे च जीरके द्वे तु निषादाद्द्रमिडीसुते ।कणपः शरभेदे च क्रतुभेदे पुमान्मतः ॥ १००४ ॥
17.1004 · p. 77
अनुष्टुप्
कणिका तिलमण्डे च गोधूमे तस्य चूर्णके ।कणे चैवाऽग्निमन्थे च स्त्रियामेषा प्रकीर्त्तिता ॥ १००५ ॥
17.1005 · p. 77
अनुष्टुप्
कणिकः पटवासे ना कणिका स्त्री वनस्पतेः ।बीजेऽथ सा भवेद्भिन्नतण्डुलावयवे द्वयोः ॥ १००६ ॥
17.1006 · p. 77
अनुष्टुप्
कणीचिः स्त्री लतायां च मनस्यश्वे तु सद्वयोः ।कणीची पुष्पितलतागुञ्जयोः शकटे स्त्रियाम् ॥ १००७ ॥
17.1007 · p. 77
अनुष्टुप्
कणे रेभ्यां च वेश्यायां कणेरः कर्णिकारके ।कणेरुः कर्णिकारे च करिणीवेश्ययोः स्त्रियाम् ॥ १००८ ॥
17.1008 · p. 77
अनुष्टुप्
कण्टकोऽस्त्री वृक्षसूचौ रोमाञ्चे क्षुद्रविद्विषि ।नैयोगिकादिदोषोक्तौ वेणौ मत्स्यादिकीकसे ॥ १००९ ॥
17.1009 · p. 77
अनुष्टुप्
कण्टकद्रुम इत्येष शाल्मलौ कण्टकिद्रुमे ।कण्टका कण्टकमुखे स्त्रियां कीटान्तरे मता ॥ १०१० ॥
17.1010 · p. 77
अनुष्टुप्
कण्टकिन् तु त्रिलिङ्गोऽयं कीर्त्तितः कण्टकान्विते ।स्यात्कण्टकिफलः पुंसि पनसे गोक्षुरेपि च ॥ १०११ ॥
17.1011 · p. 77
अनुष्टुप्
कण्टकी नारिमेदाख्ये मदनाख्ये च पादपे ।कण्टिका त्वनुवाकाख्ये ग्रन्थस्यांशे स्त्रियां मता ॥ १०१२ ॥
17.1012 · p. 77
अनुष्टुप्
कण्ठो गलेऽन्तिके पुंसि ध्वनौ मदनपादपे ।कण्ठाला तु द्वयोर्द्रोणाप्रभेदे ना क्रमेलके ॥ १०१३ ॥
17.1013 · p. 77
अनुष्टुप्
कण्डारं रक्तपद्मे क्ली नावर्णे सितकाचरे ।त्रिस्तु तद्वति वर्णश्च काचरः कृष्णधूमलः ॥ १०१४ ॥
17.1014 · p. 77
अनुष्टुप्
कण्डुरः-कद्वरं
कण्डुरः कुन्दरकणे कारवेल्ले च सूरणे ।कण्डुराऽत्यम्लपर्ण्यां चात्मगुप्तायामपि स्त्रियाम् ॥ १०१५ ॥
17.1015 · p. 78
अनुष्टुप्
कण्डूघ्न आरग्वधेऽपि तथा स्याद्गौरसर्षपे ।कण्डूलः सूरणे पुंसि त्रि तु कण्डूप्रयोजके ॥ १०१६ ॥
17.1016 · p. 78
अनुष्टुप्
कण्वं पर्वणि भूषायां पापे मुन्यन्तरे तु ना ।बधिरे तु त्रिलिङ्गोऽयं मेधाविनि च कीर्त्तितः ॥ १०१७ ॥
17.1017 · p. 78
अनुष्टुप्
कतस्तु कतके ऋष्यन्तरे चाथ कतं जले ।कत्तृणं तृणभित्पृश्न्योः कुट्यां चैव नपुंसकम् ॥ १०१८ ॥
17.1018 · p. 78
अनुष्टुप्
कथं कथाप्रकारार्थे हर्षे प्रश्ने च संभ्रमे ।संभावनायां गर्हायां चाऽव्ययं परिकीर्त्तितम् ॥ १०१९ ॥
17.1019 · p. 78
अनुष्टुप्
कथाऽऽख्याने च कथनेऽव्ययं तु कथमर्थकम् ।कथाप्रसङ्गो वार्त्तायां पुँल्लिङ्गः परिकीर्त्तितः ॥ १०२० ॥
17.1020 · p. 78
अनुष्टुप्
कथाप्रसङ्गस्तु भवेद् वैद्यवातूलयोस्त्रिषु ।कथेरः शकुनौ द्वे त्रिः कथके कुहकेपि च ॥ १०२१ ॥
17.1021 · p. 78
अनुष्टुप्
कदनं मर्दने पापे क्लीबं स्यान्मारणे रणे ।कदम्बः सर्षपे नीपे माक्षिके देवताडके ॥ १०२२ ॥
17.1022 · p. 78
अनुष्टुप्
क्ली तु वृन्दे देवदालीलतायां तु कदम्ब्यपि ।कदम्बकं समूहे क्ली ना सर्षपकदम्बयोः ॥ १०२३ ॥
17.1023 · p. 78
अनुष्टुप्
कदरः श्वेतखदिरे क्रकचे ना रुजान्तरे ।कदला कदलश्चेति पृश्न्यां स्त्रीपुंसयोर्मतम् ॥ १०२४ ॥
17.1024 · p. 78
अनुष्टुप्
कदला डिम्बिकायां स्त्री शाल्मली भूरुहेपि च ।कदलः कदलीत्येतद्रम्भायां पुंस्त्रियोर्भवेत् ॥ १०२५ ॥
17.1025 · p. 78
अनुष्टुप्
कदली करिकेतौ स्त्री चर्मयोनिमृगान्तरे ।कदली तु बिले शेते मृदुरूक्षोच्चकर्बुरैः ॥ १०२६ ॥
17.1026 · p. 78
अनुष्टुप्
नीलाग्रै रोमभिर्युक्ता सा विंशत्यङ्गुलायता ।कद्रुर्नागजनन्यां च भूमौ च स्त्री प्रकीर्त्तिता ॥ १०२७ ॥
17.1027 · p. 78
अनुष्टुप्
पुमांस्तु पिङ्गले वर्णे स्यात्तद्वति तु भेदवत् ।कद्वरं तु दधिस्नेहे तक्रे चापि नपुंसकम् ॥ १०२८ ॥
17.1028 · p. 78
अनुष्टुप्
कनकः-कन्दली
कनकः काञ्चनारे च धुर्धूरे नागकेसरे ।किंशुके चम्पके चैव कालीये च बृहस्पतौ ॥ १०२९ ॥
17.1029 · p. 79
अनुष्टुप्
कनकं प्रसवे प्रोक्तन्द्रुमाणां हेम्नि च स्मृतम् ।कनका सप्तजिह्वानामग्नेर्यैकात्र कीर्त्तिता ॥ १०३० ॥
17.1030 · p. 79
अनुष्टुप्
छन्दोभेदे महाज्योतिष्मत्यां च कनकप्रभा ।कनिष्ठोऽवरजेऽप्यल्पतमे युवतमे त्रिषु ॥ १०३१ ॥
17.1031 · p. 79
अनुष्टुप्
कनिष्ठं कूप्यलवणे कनिष्ठाऽल्पतमाङ्गुलौ ।अवरोढानतिमभार्ययोश्च स्त्रियां मता ॥ १०३२ ॥
17.1032 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कनिष्ठकः कनिष्ठे त्रि क्लीबं शूकतृणे मतम् ।कनिष्ठिका स्त्रियामल्पतमायामङ्गुलौ स्मृता ॥ १०३३ ॥
17.1033 · p. 79
अनुष्टुप्
कनीनस्तु त्रिलिङ्गोऽयं तरुणे परिकीर्त्तितः ।कनीनको बालके स्यात्कन्यायां तु कनीनका ॥ १०३४ ॥
17.1034 · p. 79
अनुष्टुप्
अक्ष्णस्तु तारकायां स्यात्पुँल्लिङ्गेऽपि कनीनकः ।स्त्रियां कनीनकाऽप्येषा तथैव स्यात्कनीनिका ॥ १०३५ ॥
17.1035 · p. 79
अनुष्टुप्
कनीनिका कनिष्ठायामप्यङ्गुल्यां स्त्रियां मता ।कनीयानतिपूति स्यादत्यल्पेऽवरजे त्रिषु ॥ १०३६ ॥
17.1036 · p. 79
अनुष्टुप्
कनीयसं क्ली ताम्रेऽथ स्यात्कनीयसि वाच्यवत् ।कन्तुः पुंसि कुसूलेऽपि कन्दर्पे च प्रकीर्त्तितः ॥ १०३७ ॥
17.1037 · p. 79
अनुष्टुप्
कशब्दार्थवति त्वेष वाच्यलिङ्गः प्रकीर्त्तितः ।कन्था ग्रामे च मृद्भित्तौ बहुचीरकृताम्बरे ॥ १०३८ ॥
17.1038 · p. 79
अनुष्टुप्
कन्थारी भेषजे स्थानभेदेपि परिकीर्त्तिता ।कन्दोऽस्त्री सूरणे मूलसस्यमात्रेऽम्बुदे तु ना ॥ १०३९ ॥
17.1039 · p. 79
अनुष्टुप्
कन्दरा त्रिर्गिरे रन्ध्रे स्त्र्युच्चजानुमृगान्तरे ।अङ्कुशे कन्दरस्त्वेष पुँल्लिङ्गः परिकीर्त्तितः ॥ १०४० ॥
17.1040 · p. 79
अनुष्टुप्
कन्दरालोऽक्षोटगर्दभाण्डप्लक्षद्रूमेषु ना ।कन्दलस्त्रिकपाले चाप्युपरागे नवाङ्कुरे ॥ १०४१ ॥
17.1041 · p. 79
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 द्रू (wrong syllable)
कलध्वनौ गुल्मभेदे जिनयोनिमृगे स्त्रियाम् ।कन्दली सा श्यामवर्णा हस्तायामा महोदरी ॥ १०४२ ॥
17.1042 · p. 79
अनुष्टुप्
कन्दूः-कपिः
कन्दूः स्यान्नृस्त्रियोः पाकस्थाने क्रीडनकेपि च ।सूत्रिते स्वेदनीनाम्नि तथा स्यात्पाकसाधने ॥ १०४३ ॥
17.1043 · p. 80
अनुष्टुप्
कन्दुकोऽस्त्र्युपधाने च स्यात्क्रीडागुडकेपि च ।कन्दोटोऽस्त्री श्वेतपद्मे नीलपद्मे च कीर्त्तितः ॥ १०४४ ॥
17.1044 · p. 80
अनुष्टुप्
कन्धरो मारिषे मेघे सा ग्रीवासिरयोः स्त्रियाम् ।कन्धिः पुंसि समुद्रे स्यात्सा ग्रीवायां स्त्रियां मता ॥ १०४५ ॥
17.1045 · p. 80
अनुष्टुप्
कन्या मेषात्षष्ठराशौ प्रियङ्ग्वाख्यमहीरुहे ।कुमार्यां शारिवायां च तरणीसंज्ञगुल्मके ॥ १०४६ ॥
17.1046 · p. 80
अनुष्टुप्
कपटः कितवे द्वे ना वर्णभेदे त्रि तद्वति ।कपटी तु छलैर्युक्ते वाच्यवत्परिकीर्त्तितः ॥ १०४७ ॥
17.1047 · p. 80
अनुष्टुप्
अथ स्त्रियां कपटिनी गन्धद्रव्यान्तरे मता ।कपट्यज्जलिमानेऽपि वृक्षभेदे स्त्रियां मता ॥ १०४८ ॥
17.1048 · p. 80
अनुष्टुप्
कपर्दो ना शिवजटाजूटे द्वे तु वराटके ।पुमाञ्जटाजूटमात्रे कपर्दः परिकीर्त्तितः ॥ १०४९ ॥
17.1049 · p. 80
अनुष्टुप्
कुशद्वीपस्य वर्षेऽद्रिनागदानवभित्स्वथ ।नृभूम्नि शाल्मलिद्वीपविप्रेष्वपि जनान्तरे ॥ १०५० ॥
17.1050 · p. 80
अनुष्टुप्
कपर्दी सजटे त्रिर्ना शिवे रुद्रान्तरेऽपि च ।कपालोऽस्त्री क्वचित्स्त्री च कपालीति शिरोऽस्थनि ॥ १०५१ ॥
17.1051 · p. 80
अनुष्टुप्
व्रणे घटादिशकले तथा शकलमात्रके ।चषकेच्छादने शल्के कुष्ठभेदे पदास्थनि ॥ १०५२ ॥
17.1052 · p. 80
अनुष्टुप्
कपालसंधिसंज्ञे तु संधौ पुंसि समानयोः ।कर्णसंकरभेदे तु कपालोऽयं द्वयोर्मतः ॥ १०५३ ॥
17.1053 · p. 80
अनुष्टुप्
कपालिका दन्तमले कपालार्थे कपालकः ।कपाली त्रिषु योगार्थे द्वे ब्राह्मण्यां च धीवरात् ॥ १०५४ ॥
17.1054 · p. 80
अनुष्टुप्
जातेपि शैवभेदे च ना तु रुद्रान्तरे शिवे ।कपालिनी तु दुर्गायां तस्याश्चानुचरी भिदि ॥ १०५५ ॥
17.1055 · p. 80
अनुष्टुप्
कपिर्ना ऋषिभेदेऽर्के सिल्हके मधुसूदने ।वानरे तु गजे चैव कपिः स्त्रीपुंसयोर्मतः ॥ १०५६ ॥
17.1056 · p. 80
अनुष्टुप्
कपिः-कपीतनः
स्त्रीत्वे कपिः कपी चात्र बभ्रुवर्णे तु वाच्यवत् ।कपिञ्जलो द्वे चटके तथा पक्ष्यन्तरेप्यथ ॥ १०५७ ॥
17.1057 · p. 81
अनुष्टुप्
ना पुण्डरीकमित्रेऽथ सरिद्भेदे कपिञ्जला ।कपित्थस्तु दधित्थेपि तथा मुद्रान्तरेपि च ॥ १०५८ ॥
17.1058 · p. 81
अनुष्टुप्
सूर्यावर्त्ते द्रुमे रक्तापामार्गे कपिपिप्पली ।केचित्तु करिपिप्पल्यामप्याहुः कपिपिप्पलीम् ॥ १०५९ ॥
17.1059 · p. 81
अनुष्टुप्
कपिप्रियः कपित्थाम्रातकयोः प्रसवे तु नप् ।तयोः कपिप्रिया तिन्त्रिणीके योगे तु लोकवत् ॥ १०६० ॥
17.1060 · p. 81
अनुष्टुप्
पुमान्कपिरथो रामेऽप्यर्जुनेऽपि प्रकीर्त्तितः ।कपिलो मुनिभेदेऽग्नौ वासुदेवे कडारके ॥ १०६१ ॥
17.1061 · p. 81
अनुष्टुप्
कडारवर्णयुक्ते तु त्रि स्त्री तु कपिला द्रुमे ।स्याद्गङ्गायां च कपिलधारा तीर्थान्तरेऽपि च ॥ १०६२ ॥
17.1062 · p. 81
अनुष्टुप्