कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

Part 1

इरुगपदण्डाधिनाथविरचिता नानार्थरत्नमाला

यत्पादाम्बुरुहाभाया (?) देवचूडामणीयते ।यस्य ज्ञानादयोऽनन्ताः स देवः श्रेयसेऽस्तु नः ॥
1 · p. 1
अनुष्टुप्
अस्ति श्रीमान्निरुपमदण्डनाथः प्रचण्डधीः ।सद्वृत्तौ चैव दण्डेशवंशमुक्तामणौ गुणः ॥
2 · p. 1
अनुष्टुप्
द्वितीयमन्तःकरणं राज्ञो हरिहरस्य यः ।राजकार्यं प्रजारक्षां द्वयं धत्ते कुलव्रतम् ॥
3 · p. 1
अनुष्टुप्
मारं हरिहराधीशो भुवः कूर्मादिदुर्वहम् ।बुद्धौ कुशाग्रसूक्ष्मायां यस्य विन्यस्य मोदते ॥
4 · p. 1
अनुष्टुप्
विविधग्रन्थसंदर्भविमर्दविमलीकृतम् ।यस्य चेतः सरस्वत्या विलासमुकुरायते ॥
5 · p. 1
अनुष्टुप्
तिस्रो दधानश्चतुरः पञ्च षट् च यथोचितम् ।प्रयुञ्जानो नयं बुद्धिं सप्ताष्टौ यो जिगीषति ॥
6 · p. 1
अनुष्टुप्
सोऽयं ग्रथ्नाति नानार्थरत्नमालां गुणोज्ज्वलाम् ।श्रीमानिरुगदण्डेशो नात्यल्पं नातिविस्तरम् ॥
7 · p. 1
अनुष्टुप्
काण्डैश्चतुर्भिरेकद्वित्रिचतुर्वर्णवर्णितैः ।संकीर्णाव्ययकाण्डाभ्यामिति षड्भिरनुक्रमात् ॥
8 · p. 2
अनुष्टुप्
कथ्यन्ते केऽपि नानार्थाः शब्दास्तन्त्रान्तराध्वना ।अमी सलिङ्गनिर्लिङ्गभेदाद्द्वेधा भवन्ति हि ॥
9 · p. 2
अनुष्टुप्
सलिङ्गाः सप्तधा वृत्या स्त्रियां पुंसि नपुंसके ।स्त्रीपुंसयोः क्लीबपुंसोः स्त्रीनपुंसकयोस्त्रिषु ॥
10 · p. 2
अनुष्टुप्
शब्दान्पुंसः स्त्रियः क्लीबान्नानालिङ्गांस्त्रिलिङ्गकान् ।प्रायः क्रमात्प्रवक्ष्यामि कान्तादीन्द्व्यक्षरादिषु ॥
11 · p. 2
अनुष्टुप्
रूपभेदात्साहचर्यात्कण्ठोक्त्या वा विभावयेत् ।लिङ्गान्यथादि त्वन्तं वा पदं पूर्वेण नान्वयि ॥
12 · p. 2
अनुष्टुप्
त्रिष्विति त्रिषु लिङ्गेषु ज्ञेयं द्वंद्वे द्वयोरिति ।लिङ्गान्तरनिषेधोऽत्र शेषलिङ्गविधायकः ॥
13 · p. 2
अनुष्टुप्