All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
त्र्यक्षरकाण्डः · बान्ताः
॥ इति पान्ताः ॥
॥ फान्ता अप्रसिद्धाः ॥
हेरम्बौ महिषेभारयौ प्रलम्बौ हारदानवौ ।कादम्बौ कलहंसेषू कदम्बौ नीपसंहती ॥
3.20.1 · p. 93
अनुष्टुप्metre not read in every linenearly अनुष्टुप्
कलम्बौ नीपविशिखौ शाकभेदे कलम्ब्यपि ।नितम्बः स्त्रीकटेः पश्चात्तटेऽद्रिकटके कटौ ॥
3.20.2 · p. 93
अनुष्टुप्
बडबाश्वाकुम्भदास्योर्योषिद्भेदे द्विजस्त्रियाम् ।बाडबौ ब्राह्मणौर्वाग्नी बाडबं बडबागणे ॥
3.20.3 · p. 93
अनुष्टुप्