All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
द्व्यक्षरकाण्डः · कान्ताः
इति जगदुपकारिण्यामिरुगपदण्डाधिनाथरचितायाम् ।
एकाक्षरपदकाण्डः पूर्णो नानार्थरत्नमालायाम् ॥
॥ अथ द्व्यक्षरकाण्डप्रारम्भः ॥
अर्को मघोनि स्फटिके ज्येष्ठभ्रातरि भास्करे ।शुभ्रेऽर्कपादपे चाथ मर्को मनसि मारुते ॥
2.1.1 · p. 10
अनुष्टुप्
काङ्क्षोहकर्मभेदेषु तर्कः कर्कस्तु दर्पणे ।घटभेदे सिताश्वेऽग्नौ रङ्कः कृपणमल्लयोः ॥
2.1.2 · p. 10
अनुष्टुप्
अङ्को नाटकविच्छेदे संख्यायां युधि भूषणे ।समीपे रूपके स्थाने मन्तावुत्सङ्गचिह्नयोः ॥
2.1.3 · p. 11
अनुष्टुप्
वङ्कः पल्याणभागे च वक्रत्वे चाथ टङ्कणे ।गर्वे खनित्रे जङ्घायामसिकोशेऽश्मदारणे ॥
2.1.4 · p. 11
अनुष्टुप्
बाणान्तरे च टङ्कः स्यात्कङ्कस्तु यमपक्षिणोः ।न्यङ्कुर्गुरुकुलस्थायिशिष्ये मीने मृगे मुनौ ॥
2.1.5 · p. 11
अनुष्टुप्
शङ्कुः पर्णसिराजाले यादोभेदेऽस्त्रसंख्ययोः ।स्थाणौ कीले मेहने च रेकः शङ्काविरेकयोः ॥
2.1.6 · p. 11
अनुष्टुप्
काककोकौ पिकौ नाकुर्वल्मीके पर्वते मुनौ ।पाको जरसि निष्ठायामर्भके पचनेऽपि च ॥
2.1.7 · p. 11
अनुष्टुप्
जनविष्टपयोर्लोकः श्लोकः पद्ये यशस्यपि ।शृङ्गानुक्रोशयोः शोको नाकः स्वर्गान्तरिक्षयोः ॥
2.1.8 · p. 11
अनुष्टुप्
चक्रवाके वृके कोकः शको गोमयदेशयोः ।मुष्कोऽण्डकोशे मोक्षे द्रौ शङ्का त्रासवितर्कयोः ॥
2.1.9 · p. 11
अनुष्टुप्
लङ्का रक्षःपुरीशाखाशाकिनीकुलटासु च ।अकं तु दुरिते क्लेशेऽप्योकसी मन्दिराश्रयौ ॥
2.1.10 · p. 11
अनुष्टुप्
शकले वल्कलेऽपि स्याच्छल्कं वल्कमिति द्वयम् ।रतिभेदे शुकव्यूहे शौकं भेकस्तु कातरे ॥
2.1.11 · p. 11
अनुष्टुप्
त्रिषु वर्षाभ्वि पुंस्येव त्रिकं पृष्ठाधरे त्रये ।त्रिकस्त्रयाणां संघे च नेमौ कूपस्य च त्रिका ॥
2.1.12 · p. 12
अनुष्टुप्
पुष्पभेदे बकं रक्षःपक्षियक्षाधिपा बकाः ।कीरे दशाननामात्ये शोणके व्यासनन्दने ॥
2.1.13 · p. 12
अनुष्टुप्
शुकः शुकं तु शैरीषकुसुमग्रन्थिपर्णयोः ।त्रिष्वल्पे चातके पुंसि स्तोको राकस्तु पूषणि ॥
2.1.14 · p. 12
अनुष्टुप्
राका नवरजोनार्यां पूर्णचन्द्रतिथावपि ।शाकः शक्तौ वृक्षभेदे भूपद्वीपविशेषयोः ॥
2.1.15 · p. 12
अनुष्टुप्
अयं त्वस्त्री हरितके पङ्कोऽस्त्री कर्दमैनसोः ।द्वयोः किष्कुर्वितस्तौ ना हस्ते निष्कस्तु न स्त्रियाम् ॥
2.1.16 · p. 12
अनुष्टुप्
हेम्न्युरोभूषणे कर्षे साष्टस्वर्णशते पले ।दीनारे चाथ कल्कोऽस्त्री दम्भविट्किट्टपाप्मसु ॥
2.1.17 · p. 12
अनुष्टुप्
छेकोऽभिज्ञे त्रिषु गृहासक्तपक्षिमृगेषु ना ।पथिकैर्मार्गरक्षिभ्यो जामात्रा श्वशुराय च ॥
2.1.18 · p. 12
अनुष्टुप्
राज्ञे चाश्वादिविक्रेत्रा प्रदेयं शुल्कमस्त्रियाम् ।त्रिष्ववाग्दीनयोर्मूक एके मुख्यान्यकेवलाः ॥
2.1.19 · p. 12
अनुष्टुप्