कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

द्‌व्यक्षरकाण्डः · चान्ताः

॥ इति घान्ताः ॥

क्रौञ्चो द्विपे खगे शैले पिचुस्तूलेऽसुरान्तरे ।कुष्ठरोगेऽपि काचस्तु शिक्यमृद्भेददृग्रुजः ॥
2.5.1 · p. 16
अनुष्टुप्
अर्चा पूजाप्रतिमयोश्चर्चा स्थासकचिन्तयोः ।रुचिस्तु किरणे कान्तावभिषङ्गाभिलाषयोः ॥
2.5.2 · p. 16
अनुष्टुप्
सूचिः सुरतभेदेऽभिनये सीवनसाधने ।वीचिः कुन्तलवक्रत्वे स्वल्पे पङ्क्तितरङ्गयोः ॥
2.5.3 · p. 16
अनुष्टुप्
काञ्ची पुरीमेखलयोर्नीचः खर्वेऽधमे त्रिषु ।वर्चांसि ज्वालविट्भासः शोचिः शुद्धिशुगंशुषु ॥
2.5.4 · p. 16
अनुष्टुप्
कदल्यां शाल्मलौ मोचा पुंस्ययं शिग्रुपादपे ।शुचिर्ना शुक्रशृङ्गारचन्द्राषाढहराग्निषु ॥
2.5.5 · p. 16
अनुष्टुप्
उपधाशुद्धसचिवे ग्रीष्मे श्वेतगुणे रवौ ।अयं तु श्वेतगुणिनि शुद्धेऽनुपहते त्रिषु ॥
2.5.6 · p. 16
अनुष्टुप्
स्त्री त्रोटौ चञ्चुरेरण्डे ना कूर्चस्त्वस्त्रियां कुशे ।श्मश्रुकैतवपीठेषु भ्रुवोर्मध्ये विकत्थने ॥
2.5.7 · p. 16
अनुष्टुप्
कचः शुष्कव्रणे बन्धे केशे सूनौ वृहस्पतेः ।कचा करिण्यामर्चिस्तु न पुमाञ्ज्वालरोचिषोः ॥
2.5.8 · p. 16
अनुष्टुप्