All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
त्र्यक्षरकाण्डः · डान्ताः
॥ इति ठान्ताः ॥
पिचण्डः स्यात्पशोरङ्गे शय्यायां जठरेऽपि च ।तरण्डो बडिशे सूत्रे बद्धवस्तुनि वाससि ॥
3.10.1 · p. 74
अनुष्टुप्
वरण्डोऽप्यन्तरावेद्यां समुदाये मुखामये ।मार्ताण्डः सूकरे सूर्ये शिखण्डः पिञ्छचूडयोः ॥
3.10.2 · p. 74
अनुष्टुप्
कूष्माण्डो गणभेदे स्यात्कर्कारुभ्रूणयोरपि ।भेरुण्डो देवताभेदे पक्षिभेदे भयंकरे ॥
3.10.3 · p. 74
अनुष्टुप्
निर्गुण्डी सिन्धुवारे च नीलशेफालिका च सा ।वेणुचापे चतुर्हस्तचापे चापे भ्रुवोरपि ॥
3.10.4 · p. 74
अनुष्टुप्
स्यात्कोदण्डः प्रचण्डस्तु ना श्वेतकरवीरके ।त्रिषु प्रगल्भे दुर्धर्षे विषशास्त्रे तु गारुडम् ॥
3.10.5 · p. 75
अनुष्टुप्
मणिभेदेऽपि चायं तु तार्क्ष्यसंबन्धिनि त्रिषु ।प्रकाण्डोऽस्त्री प्रशस्ते च तरोश्चास्कन्धमादितः ॥
3.10.6 · p. 75
अनुष्टुप्