All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
चतुरक्षरकाण्डः · लान्ताः
॥ इति रेफान्ताः ॥
महाकालस्तु किंपाके शिवे प्रमथनायके ।गण्डशैलः स्याल्ललाटे गिरेश्च्युतमहोपले ॥
4.21.2 · p. 125
अनुष्टुप्
मणिमाला तु हारे स्यात्कान्तादन्तक्षतान्तरे ।उमादृष्टेन्द्वमावास्ये सिनीवाल्यावुभे इमे ॥
4.21.4 · p. 126
अनुष्टुप्
अङ्कपालिर्द्वारिकायां कोटावालिङ्गनेऽपि सा ।फलिनी स्याद्गन्धफली कलिका चम्पकस्य च ॥
4.21.5 · p. 126
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 द्ग (wrong syllable)
मुक्ताफलं तु कर्पूरे मौक्तिके लवलीफले ।लोकालोकगिरौ चक्रवालः क्लीबे तु मण्डले ॥
4.21.6 · p. 126
अनुष्टुप्
अतिबलमहाबलौ द्वौ त्रिषु बलिनीमौ स्त्रियौ बलायां हि ।अव्यक्तवाचि मदतस्त्रिषु मत्तगजे तु मदकलः पुंसि ॥
4.21.7 · p. 126
गीतिः