All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
त्र्यक्षरकाण्डः · रान्ताः
॥ इति यान्ताः ॥
दासीसुतोष्ट्रौ दासेरौ विष्किरौ शिखिकुक्कुटौ ।रसेभभूषे शृङ्गारावङ्गारौ भूसुतोल्मुकौ ॥
3.24.2 · p. 98
अनुष्टुप्
प्रकारौ भेदसादृश्ये विकारौ रोगविक्रिये ।कुम्भीरौ चोरभुजगौ कुटीरौ कर्कटालयौ ॥
3.24.3 · p. 99
अनुष्टुप्
दैत्यारी देवगोविन्दौ तित्तिरी मुनिपक्षिणौ ।शांकरी स्कन्दहेरम्बौ सहुरी वृषभास्करौ ॥
3.24.4 · p. 99
अनुष्टुप्
कपोणिजान्वोराकारस्त्वाकृतौ गात्रवैकृतौ ।मिहिरा वायुचन्द्रर्काः केसरी हयसिंहयोः ॥
3.24.6 · p. 99
अनुष्टुप्
प्रस्तरा मण्यश्मकुथाः संस्तरोऽध्वरशय्ययोः ।आकराः स्थानखन्योधाः प्रदरा भङ्गरुक्शराः ॥
3.24.7 · p. 99
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 ण्य (wrong syllable)
प्रकरः कीर्णपुष्पादौ संहतौ मकरस्त्विह ।निधौ यादसि राशौ च चङ्कुरस्तु द्रुमे रथे ॥
3.24.8 · p. 99
अनुष्टुप्
किंशारुः सस्यशूके स्यात्सायके कङ्कपक्षिणि ।विष्टरः कुशमुष्टौ स्यात्पीठाद्यासनवृक्षयोः ॥
3.24.9 · p. 99
अनुष्टुप्
खपुरो लशुने पूगवेष्टे निर्यासपूगयोः ।कपाले च कटाहे च भिक्षापात्रे च कर्परः ॥
3.24.10 · p. 99
अनुष्टुप्
मन्दारः पारिभद्रेऽर्कपर्णे कल्पमहीरुहे ।गान्धारस्तु स्वरे रागे देशसिन्दूरयोरथ ॥
3.24.11 · p. 99
अनुष्टुप्
स्यादासारो मित्रबले वेगवृष्टिप्रसारयोः ।केदारः शंकरक्षेत्रे शैलभेदालवालयोः ॥
3.24.13 · p. 99
अनुष्टुप्
मयूरो बर्हिचूडायामपामार्गे शिखावले ।नरेन्द्रो विषवैद्येऽपि महेन्द्रः पतिशक्रयोः ॥
3.24.14 · p. 100
अनुष्टुप्
क्रीडायां चाथ संस्कारः संकल्पप्रतियत्नयोः ।शर्करा तु गुडे रोगभेदे शर्करिलस्थले ॥
3.24.16 · p. 100
अनुष्टुप्
शिलाभेदे सितायां च शकलाल्पकपालयोः ।गायत्री खदिरश्छन्दः कृपाण्यामपि कर्तरी ॥
3.24.17 · p. 100
अनुष्टुप्
सा सैरन्ध्री यान्यगेहे स्वायत्ता शिल्पकारिणी ।वर्णसंकरजायां च काञ्च्यां छन्दसि शक्वरी ॥
3.24.18 · p. 100
अनुष्टुप्
छत्रप्रान्तालम्बिवस्त्रे केशे वाद्ये च झल्लरी ।उर्वरा सर्वसस्याढ्यभूमौ भूमात्रकेऽपि च ॥
3.24.19 · p. 100
अनुष्टुप्
शैलवृक्षाग्रयोः कोटौ कक्षायां शिखरं मतम् ।कुहरं गह्वरे छिद्रे मन्दिरं नगरे गृहे ॥
3.24.20 · p. 100
अनुष्टुप्
ध्वान्तेऽक्षिरोगे तिमिरमम्बरं व्योम्नि वाससि ।औशीरश्चामरे दण्डे कटित्रं कटिवाससि ॥
3.24.21 · p. 100
अनुष्टुप्
मेखलायां गुहादम्भगहनेषु तु गह्वरम् ।कटीरं कन्दरे कट्यां विषयेऽङ्गेऽङ्गणेऽजिरम् ॥
3.24.22 · p. 100
अनुष्टुप्
पुष्करमम्बुनि खेऽब्जे युधि वाद्यमुखे मदेऽसिधारायाम् ।द्वीपे भेषजभेदे सारसतीर्थाहिकरिकराग्रेषु ॥
3.24.23 · p. 100
गीतिः
दधिकलशगोमयाम्बुषु कुशताम्रब्रह्मसूत्रमन्त्रेषु ।हेम्न्यर्थे च पवित्रं त्रिषु पूते पुंसि शंभुपावकयोः ॥
3.24.24 · p. 100
गीतिः
कर्बुरं हेम्न्यघे तोये ना दैत्ये शबले त्रिषु ।जर्जरो नापिते शक्रध्वजे जीर्णे तु वाच्यवत् ॥
3.24.25 · p. 101
अनुष्टुप्
दर्दुरो ना गिरौ भेके त्रिष्वीषद्भग्नवस्तुनि ।पिञ्जरं कनके क्लीबं पीते त्रिषु हये पुमान् ॥
3.24.26 · p. 101
अनुष्टुप्
ग्रीवायां कन्धरा मेघे पुमान् देवेऽपि निर्जरः ।शार्वरं तमसि क्लीबं हिंस्रे त्रिष्वथ शार्वरः ॥
3.24.27 · p. 101
अनुष्टुप्
शशाङ्के ना निशासन्ध्याहरिद्रासु तु शर्वरी ।स्थण्डिलाङ्गणयोः क्लीबं चत्वरं ना चतुष्पथे ॥
3.24.28 · p. 101
अनुष्टुप्
क्रियाकारप्रतिज्ञापद्युद्धार्थे पुंसि सङ्गरः ।क्लीबे शमीफले पान्थस्त्वित्वरः कुलटेत्वरी ॥
3.24.29 · p. 101
अनुष्टुप्
शाक्वरो ना वृषे क्लीबं छन्दोभेदेऽथ नागरम् ।मुस्ताशुण्ठ्योस्त्रिषु त्वेष विदग्धे नगरोद्भवे ॥
3.24.30 · p. 101
अनुष्टुप्
प्रभौ त्रिष्वीश्वरः शंभौ ना गौर्यामीश्वरेश्वरी ।कान्तारोऽस्त्री वने दुर्गवर्त्मनीक्ष्वन्तरे तु ना ॥
3.24.31 · p. 101
अनुष्टुप्
कुमारो ना शुके स्कन्दे युवराजेऽश्ववारके ।बाले वरुणवृक्षे च द्वीपे स तु नपुंसकम् ॥
3.24.32 · p. 101
अनुष्टुप्
कुमारी तु सहा गौरी कन्यका नवमालिका ।ओष्ठे पुंस्यधरो नोर्ध्वे हीने च त्रिष्वथामरा ॥
3.24.33 · p. 101
अनुष्टुप्
स्थूणागुडूचीन्द्रपुरीदूर्वासु स्त्री सुरे पुमान् ।अन्तरः परिधानीयस्वीयबाह्येषु वाच्यवत् ॥
3.24.34 · p. 101
अनुष्टुप्
अन्तरात्मनि पुंस्येष विनार्थेऽव्ययमन्तरा ।अन्तरं विवरान्तर्धिभेदेष्ववधिमध्ययोः ॥
3.24.35 · p. 102
अनुष्टुप्
अवकाशावसरयोस्तादर्थ्यान्यार्थयोरपि ।प्रतिवाच्युत्तरं ना तु विराटतनये नले ॥
3.24.36 · p. 102
अनुष्टुप्
त्रिषूदीच्योत्तमोर्ध्वेषु ताराभेदे दिशि स्त्रियाम् ।अक्षरं प्रणवे धर्मे प्रकृतौ तपसि क्रतौ ॥
3.24.37 · p. 102
अनुष्टुप्
वर्णे मोक्षे च ना त्वेष शिवविष्णुविरिञ्चिषु ।मृगदानवबौद्धेषु शम्बरः शम्बरी वृषा ॥
3.24.38 · p. 102
अनुष्टुप्
क्लीबे व्रताम्बुवित्तेषु सुषिरस्त्वनले पुमान् ।त्रिषु रन्ध्रान्विते क्लीबे छिद्रवंशादिवाद्ययोः ॥
3.24.39 · p. 102
अनुष्टुप्
क्लीबं लोहे पुमान् सोमे कवाटार्थेऽररं न ना ।करीरो ना घटे वृक्षे न स्त्रियां वैणवाङ्कुरे ॥
3.24.40 · p. 102
अनुष्टुप्
टगरष्टङ्कणे पुंसि त्रिषु केकरलोचने ।मत्सरोऽन्योदयद्वेषे तद्वत्कृपणयोस्रिषु ॥
3.24.41 · p. 102
अनुष्टुप्
असृक्कुङ्कुमयोः क्लीबं रुधिरं भूसुते पुमान् ।मधुरो ना रसे तद्वत्सुन्दरस्वादुषु त्रिषु ॥
3.24.42 · p. 102
अनुष्टुप्
मधुरा शतपुष्पायां शिशिरः शीतले त्रिषु ।ऋतौ ना जठरं क्लीबमुदरे कठिने त्रिषु ॥
3.24.43 · p. 102
अनुष्टुप्
मराले बन्धुरः पुंसि त्रिषु स्यान्नम्ररम्ययोः ।धूसरो वर्णखरयोरीषत्पाण्डौ तु वाच्यवत् ॥
3.24.44 · p. 102
अनुष्टुप्
सिंहस्याश्वस्य केशेषु किञ्जल्के केसरोऽस्त्रियाम् ।नागकेसरपुन्नागबकुलेषु पुमानयम् ॥
3.24.45 · p. 103
अनुष्टुप्
सामुद्रं लवणादौ त्रिष्वयं क्लीबेऽङ्गलक्षणे ।ध्वान्तरात्रौ च रात्रौ च तमिस्रं तिमिरे न ना ॥
3.24.46 · p. 103
अनुष्टुप्
चिकुरोऽहौ गेहबभ्रौ केशे त्रिषु तु चञ्चले ।हिमशीकरयोः पुंसि तुषारः शीतले त्रिषु ॥
3.24.47 · p. 103
अनुष्टुप्
चामरो ना मृगे क्लीबं चामरेऽथ त्रिषूत्तरे ।उदारो दक्षिणे ख्याते दानशौण्डे महत्यपि ॥
3.24.48 · p. 103
अनुष्टुप्
कालेऽप्यशृङ्गो गौः श्मश्रुरहितो ना च तूबरः ।धीरैकतानावेकाग्रौ भङ्गुरौ वक्रनश्वरौ ॥
3.24.49 · p. 103
अनुष्टुप्
विधुरौ कष्टविश्लिष्टावज्ञनीचौ तु पामरौ ।चतुरौ दक्षधीमन्तावितरावन्यपामरौ ॥
3.24.50 · p. 103
अनुष्टुप्