All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
त्र्यक्षरकाण्डः · लान्ताः
॥ इति रेफान्ताः ॥
उल्लोलहर्षौ कल्लोलौ देहात्मानौ तु पुद्गलौ ।कुन्तलौ देशचिकुरौ सृगालौ दैत्यजम्बुकौ ॥
3.25.1 · p. 103
अनुष्टुप्
कोकिलावुल्मुकपिकौ जम्बालौ पङ्कशैवलौ ।सर्पभेदे च दुत्तूरे मातृभ्रातरि मातुलः ॥
3.25.2 · p. 103
अनुष्टुप्
जगलः पिष्टमद्ये स्यात्कितवे मोदकेऽपि च ।कुम्भीलस्तस्करे नक्रे श्लोकच्छायाहरेऽपि सा ॥
3.25.3 · p. 103
अनुष्टुप्
काकोलस्तु द्रोणकाके विषभेदकुलालयोः ।शार्दूलो दानवे व्याघ्रे श्रेष्ठे तूत्तरतः स्थितः ॥
3.25.4 · p. 104
अनुष्टुप्
वञ्जुलस्तु निशाशोकवेतसेष्वथ मेखला ।काञ्चीदाम्न्यद्रिकटके श्रोणिस्थानासिबन्धयोः ॥
3.25.5 · p. 104
अनुष्टुप्
शृङ्खला पुंस्कटीवस्त्रबन्धेऽपि कदली मृगे ।रम्भायां वैजयन्त्यां च महिला भीरुगुन्द्रयोः ॥
3.25.6 · p. 104
अनुष्टुप्
वृषल्यृतुमती वन्ध्या शूद्राकन्या मृतप्रजा ।शकलं वल्कले खण्डे पललं पङ्कमांसयोः ॥
3.25.7 · p. 104
अनुष्टुप्
तिलचूर्णेऽथ पटलं बृन्दे छदिषि दृग्रुजि ।कुवलं कन्दरे मुक्ताफले कुवलयेऽपि च ॥
3.25.8 · p. 104
अनुष्टुप्
नाभीलं नाभिगण्डे च वङ्क्षणे चोत्तमस्त्रियाम् ।पातालं बडबाग्नौ च कीलालमसृगम्भसोः ॥
3.25.9 · p. 104
अनुष्टुप्
फणभागे दुकूलं तु क्षौमे सूक्ष्मांशुकेऽपि तत् ।लाङ्गूलं मेहने पुच्छे शमलं शकृदेनसोः ॥
3.25.10 · p. 104
अनुष्टुप्
कमलं छुरिकादीनां हेमाद्यैश्चित्रिताजिने ।क्लोम्न्यौषधेऽरुणाब्जे मृगे तु ना श्रीवरस्त्रियोः कमला ॥
3.25.11 · p. 104
अनुष्टुप्
तुषपावके कुकूलं ना क्लीबे शङ्कुसङ्कुलश्वभ्रे ।वातूलस्त्रिषु वातुलवातासहयोः पुमांस्तु वात्यायाम् ॥
3.25.12 · p. 104
गीतिः
चपलः पारदे कीशे पुमांस्त्रिषु तु चञ्चले ।दुर्विनीते द्रुते नीचे चपला श्रीस्तटित्कणा ॥
3.25.13 · p. 104
अनुष्टुप्
तरलो हारमध्यस्थमणौ ना चञ्चले त्रिषु ।पर्याप्तौ सुकृते क्षेमे कुशलं निपुणे त्रिषु ॥
3.25.14 · p. 105
अनुष्टुप्
त्रिषु श्रेष्ठे सिते रम्ये धवलो ना वृषे गुणे ।धवली गव्यथाश्वत्थे पक्षिभेदेऽपि पिप्पलः ॥
3.25.15 · p. 105
अनुष्टुप्
क्लीबं वस्रच्छेदभेदे सलिले पिप्पली कणा ।बहुलोऽग्नौ कृष्णपक्षे पुमांस्त्रिष्वसिते बहौ ॥
3.25.16 · p. 105
अनुष्टुप्
एलाभूकृत्तिकागोषु बहुला स्यादथोपला ।शर्करायां दृषत्पुत्रे स्त्री न स्त्र्यश्मनि ना मणौ ॥
3.25.17 · p. 105
अनुष्टुप्
पिङ्गलोऽग्नौ मुनौ कीशे चण्डांशोः पारिपार्श्वके ।त्रिष्वयं कपिले याम्यदिक्करिण्यां तु पिङ्गला ॥
3.25.18 · p. 105
अनुष्टुप्
कम्बलोऽहिः कृमिः सास्ना प्रावारः कम्बलं जलम् ।जङ्गलं निर्जनस्थाने त्रिषु मांसे नपुंसकम् ॥
3.25.19 · p. 105
अनुष्टुप्
कन्दली वृक्षमृगयोः कन्दलं तु नवाङ्कुरे ।कुण्डलं वलयः पाशः कर्णभूषाथ कुण्डली ॥
3.25.20 · p. 105
अनुष्टुप्
भुजङ्गे चित्रकमृगे ना कुण्डलवति त्रिषु ।मण्डली ना राज्ञि सूर्ये शुक्रेऽहौ श्वबिडालयोः ॥
3.25.21 · p. 105
अनुष्टुप्
मण्डलं त्रिषु कुष्ठे स्यादुपसूर्यकदेशयोः ।बिम्बे द्वादशराजौघे निकुरुम्बेऽथ फेनिलः ॥
3.25.22 · p. 105
अनुष्टुप्
पुमानरिष्ठे बदरे क्लीबे फेनवति त्रिषु ।आशुव्रीहौ पाटलो ना पाटल्यां गवि पाटला ॥
3.25.23 · p. 105
अनुष्टुप्
क्लीबं तु पाटलीपुष्पे श्वेतरक्ते त्वयं त्रिषु ।शृङ्गारे ना विकसिते स्वच्छे दीप्ते त्रिषूज्ज्वलः ॥
3.25.24 · p. 105
अनुष्टुप्
वीणादण्डे प्रवालोऽस्त्री विद्रुमे नवपल्लवे ।इन्द्रवारुण्युज्जयिन्योर्विशाला पृथुले त्रिषु ॥
3.25.25 · p. 106
अनुष्टुप्
अचलोऽद्रौ भुव्यचला कपिलाग्नेयदिग्गजे ।शिंशुपा रेणुका गोश्च मुनौ ना पिङ्गले त्रिषु ॥
3.25.26 · p. 106
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 भु (wrong syllable)
रसाला मार्जिता दूर्वा जिह्वा ना त्विक्षुचूतयोः ।निर्णीते केवलं क्लीबं त्रिषु स्यादेककृत्स्नयोः ॥
3.25.27 · p. 106
अनुष्टुप्
नीलीधात्र्योः श्रीफला स्त्री बिले पुंस्यथ चञ्चला ।तटिल्लक्ष्म्योस्त्रिलिङ्गोऽयं चपलेऽथ त्रिषूत्तरे ॥
3.25.28 · p. 106
अनुष्टुप्
करालो दन्तुरे तुङ्गे भीषणे चाथ संकुलम् ।परस्पराहतवचस्याकीर्णेऽप्याकुलेऽपि च ॥
3.25.29 · p. 106
अनुष्टुप्
पेशलौ चारुचतुरौ पूर्णश्रेष्ठौ तु पुष्कलौ ।उत्तालावुत्कटश्रेष्ठावाभीलौ कृच्छ्रभीषणौ ॥
3.25.30 · p. 106
अनुष्टुप्
अखिलौ गर्ह्यनिःशेषौ बहुलौ सान्द्रपुष्कलौ ।
3.25.31 · p. 106