कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

द्‌व्यक्षरकाण्डः · थान्ताः

॥ इति तान्ताः ॥

अर्थः प्रयोगे विषये व्यवहारे प्रयोजने ।अभिधेये धने शास्त्रे वस्तुहेतुनिवृत्तिषु ॥
2.15.1 · p. 32
अनुष्टुप्
गजपृष्ठास्तीर्णचित्रद्रव्ये वेण्यां कुशे कुथः ।रथो देहेऽपि सार्थस्तु वणिक्संघे च संहतौ ॥
2.15.2 · p. 32
अनुष्टुप्
मन्थौ साक्तवमन्थानौ ग्रन्थिः पर्वगदान्तरे ।ग्रन्थो धने वाक्संदर्भे द्वाविंशद्वर्णसंहतौ ॥
2.15.3 · p. 32
अनुष्टुप्
आस्था प्रतिज्ञातात्पर्यगोष्ठीयत्नोपलम्भने ।संस्था स्थितौ व्यवस्थायां समाप्त्याकारमृत्युषु ॥
2.15.4 · p. 32
अनुष्टुप्
वीथिर्वर्त्मनि पङ्क्तौ च गृहाङ्गे रूपकान्तरे ।वृत्तभाषितयोर्गाथा पाथोऽग्न्यर्कस्वरिन्दवः ॥
2.15.5 · p. 32
अनुष्टुप्
नवनीतं जलं पाथमन्नं तोयं च पाथसी ।जलावतारो गुरुयोन्युपायशास्त्राणि यज्ञो मुनिजुष्टतोयम् ॥
2.15.6 · p. 32
अनुष्टुप्metre not read in every line
मन्त्रादयोऽष्टादश पुण्यभूमिः पात्रं जलं स्त्रीकुसुमं च तीर्थम् ।पृथुर्नृपे स्त्री तु कृष्णजीरके महति त्रिषु ॥
2.15.7 · p. 32
metre not recognised
कटीस्त्रीगर्भयोरश्वघोणायां प्रोथमस्त्रियाम् ।सिक्थो भक्तपुलाके ना मधूच्छिष्टं तु न स्त्रियाम् ॥
2.15.8 · p. 32
अनुष्टुप्
नीलीसूक्ष्मैलयोस्तुत्था तुत्थः स्यादञ्जने पुमान् ।नाथस्त्रिषु प्रभौ नेन्द्रे प्रस्थोऽस्त्री सानुमानयोः ॥
2.15.9 · p. 32
अनुष्टुप्
त्रिष्वज्ञदुर्गतौ दुःस्थावर्थी धनिकयाचकौ ।
2.15.10 · p. 32