All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
द्व्यक्षरकाण्डः · बान्ताः
॥ इति फान्ताः ॥
स्तम्बो गुल्मेऽप्यशाखेऽद्रौ डिम्बः फ्लीहखगाण्डयोः ।शम्बस्तु मुसलाग्रस्थलोहमण्डलके पवौ ॥
2.21.1 · p. 38
अनुष्टुप्
कम्बिरंशे च वंशस्य खजाकायामपि स्त्रियाम् ।प्रतिबिम्बे तत्प्रकृतौ प्रतिकृत्यां च मण्डले ॥
2.21.2 · p. 38
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त (wrong syllable)
लाञ्छनेऽपि च बिम्बोऽस्त्री न द्वयोर्बिम्बिकाफले ।कम्बुर्ना वलये शङ्खे संख्यायां जलशुक्तिषु ॥
2.21.3 · p. 38
अनुष्टुप्
नद्यां द्रुमे च जम्बूः स्त्री वा क्लीबे जाम्बवे फले ।त्रिषु निर्विक्रमे क्लीबः षण्डे त्वेष नपुंसकः ॥
2.21.4 · p. 38
अनुष्टुप्