कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

द्‌व्यक्षरकाण्डः · पान्ताः

॥ इति नान्ताः ॥

रोपो बाणे रोपणे च लेपो भोजनगर्वयोः ।दर्पोऽहंकारकस्तूर्योर्बाष्पो नेत्रजलोष्मणोः ॥
2.19.1 · p. 37
अनुष्टुप्
सूपो व्यञ्जनभेदे च सूपकारे च सूदवत् ।शपथाक्रोशयोः शापः कपयोऽर्केभवानराः ॥
2.19.2 · p. 37
अनुष्टुप्
कूपः कुकुन्दरे गर्ते गुणवृक्षे प्रहावपि ।कल्पस्तु प्रलये न्याये शास्त्रे ब्रह्मदिने विधौ ॥
2.19.3 · p. 37
अनुष्टुप्
सुरद्रुमे विकल्पे च प्रत्ययश्चेत्समार्थकः ।निन्दाविलम्बयोः क्षेपो वपा विवरमेदसोः ॥
2.19.4 · p. 37
अनुष्टुप्
रूपं स्वभावे शुक्लादौ सौन्दर्ये नाणके पशौ ।ग्रन्थावृत्तौ नाटकादावाकारे श्लोकशब्दयोः ॥
2.19.5 · p. 37
अनुष्टुप्
वपुः काये शुभाकारे त्रपु सीसकरङ्गयोः ।स्त्रीणामृतौ विकासे च पुष्पं सर्पिर्घृताम्बुनोः ॥
2.19.6 · p. 37
अनुष्टुप्
तल्पं शय्याट्टजायासु कृपः कश्चित्कृपा दया ।माघे पुमान्व्रते क्लीबे तपो गोपस्तु वल्लवे ॥
2.19.7 · p. 37
अनुष्टुप्
गोष्ठाध्यक्षे महीशे च स्याद्गोपी शारिबासु च ।
2.19.8 · p. 37