कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

चतुरक्षरकाण्डः · धान्ताः

॥ इति दान्ताः ॥

दोषोत्पादेऽनुबन्धः स्यात्प्रकृतस्यानुवर्तने ।प्रकृत्यादेर्नश्वरांशे शिशौ मुख्यानुयायिनि ॥
4.13.1 · p. 119
अनुष्टुप्
अवरोधो राजगृहे शुद्धान्तेऽप्यवरोधने ।भवेदतिविषाशुण्ठीलशुनेषु महौषधम् ॥
4.13.2 · p. 119
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 रा (wrong syllable)
अनिरुद्ध उषानाथे चरे नानर्गले त्रिषु ।वचाजमोदयोरुग्रगन्धा स्त्री लशुने च ना ॥
4.13.3 · p. 119
अनुष्टुप्
उपलब्धिः स्त्रियां प्राप्तौ मनीषायामथ त्रिषु ।अवष्टब्धं स्याददूरे समाक्रान्तेऽवलम्बने ॥
4.13.4 · p. 119
अनुष्टुप्
समुन्नद्धाः समुद्बुद्धपण्डितंमन्यगर्विताः ।
4.13.5 · p. 119