All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
सङ्कीर्णकाण्डम् · क्लीबविषमाक्षराः
॥ इति स्त्रीलिङ्गविषमाक्षराः ॥
यज्ञोपवीतोपवीते ब्रह्मसूत्रोत्तरीययोः ।शकुनं च निमित्तं च शुभादेः सूचकेऽपि च ॥
5.24.1 · p. 133
अनुष्टुप्
वारुणं धरुणं रत्नं गम्भीरं गहनं पुनः ।सेव्यं दिव्यं स्वादु शुद्धं पातालं च जलेऽप्यमी ॥
5.24.2 · p. 133
अनुष्टुप्