कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

त्र्यक्षरकाण्डः · गान्ताः

॥ इति खान्ताः ॥

प्लवंगौ कपिमण्डूकौ विहंगौ खगसायकौ ।मातङ्गौ करिचण्डालौ भुजंगौ विटपन्नगौ ॥
3.3.1 · p. 68
अनुष्टुप्
निषङ्गौ सङ्गतूणीरौ रक्ताङ्गौ भौमविद्रुमौ ।प्रियङ्गू फलिनीकङ्गू हेमाङ्गौ तार्क्ष्थवेधसौ ॥
3.3.2 · p. 69
अनुष्टुप्impossible sibilant cluster: तार्क्ष्थवेधसौ
पुंनागौ द्रुमपुंश्रेष्ठौ निसर्गौ शीलनिर्मिती ।अपाङ्गौ तिलकाक्ष्यन्तावावेगौ कोपसंभ्रमौ ॥
3.3.3 · p. 69
अनुष्टुप्
आभोगौ पूर्णतायत्नावाशुगौ शरमारुतौ ।आयोगो गन्धमाल्योपहारे च व्यापृतावपि ॥
3.3.4 · p. 69
अनुष्टुप्
प्रयोगो यज्ञादितन्त्रे निदर्शनकुसीदयोः ।भवेत्परागः स्नानीये रेणौ रेणौ च कौसुमे ॥
3.3.5 · p. 69
अनुष्टुप्
तटा(डा?)गस्तु जलाधारविशेषे कूटयन्त्रके ।संभोगः करिशुण्डायां भोगे च सुरते च सः ॥
3.3.6 · p. 69
अनुष्टुप्
सामान्यन्याय उत्सर्गो दानवर्जनयोश्च सः ।त्यागे विसर्जनीये च विसर्गः स्यान्मलेऽपि सः ॥
3.3.7 · p. 69
अनुष्टुप्
त्रिवर्गो धर्मकामार्थाः स्थानापचयवृद्धयः ।कटुत्रयं सत्वरजस्तमांसि त्रिफलापि च ॥
3.3.8 · p. 69
अनुष्टुप्
पतंगः शालिभेदेऽर्के बिडाले शलभे खगे ।पन्नगः पद्मकाष्ठेऽहौ वराङ्गं योनिशीर्षयोः ॥
3.3.9 · p. 69
अनुष्टुप्
जलावतारे खड्गे च धाराङ्गमथ चातके ।भृङ्गे कुरङ्गे मातङ्गे सारङ्गः शबले त्रिषु ॥
3.3.10 · p. 69
अनुष्टुप्
मानसौकसि चक्राङ्गश्चक्राङ्गी कटुरोहिणी ।स्यात्पूगफलमुद्वेगमुद्वेगो भीतिरुद्गमः ॥
3.3.11 · p. 70
अनुष्टुप्
चक्रे रथाङ्गं कोके ना कलिङ्गं कौटजे फले ।कलिङ्गः पूतिकरजे देशधूम्याटयोरपि ॥
3.3.12 · p. 70
अनुष्टुप्
तातगुः शू(क्षु?)द्रताते ना ताताय तु हिते त्रिषु ।
3.3.13 · p. 70