All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
त्र्यक्षरकाण्डः · थान्ताः
॥ इति तान्ताः ॥
क्षवथू क्षुतकासौ द्वौ रुवथू ध्वनिकुक्कुटौ ।निशीथौ रात्र्यर्धरात्रौ पञ्चथौ काककोकिलौ ॥
3.14.1 · p. 85
अनुष्टुप्
दरिद्रनग्नौ निर्ग्रन्थौ सिद्धार्थौ बुद्धसर्षपौ ।अतिथिः स्यात्प्राहुणिके कोपे कुशतनूभवे ॥
3.14.2 · p. 85
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 त्प्रा (wrong syllable)
वमथुर्वमने कासे करिणां करशीकरे ।उन्माथः पाशयन्त्रेऽपि कपित्थेऽपि च मन्मथः ॥
3.14.3 · p. 85
अनुष्टुप्
वरूथो रथगुप्तौ ना क्लीबे सुकृतवेश्मनोः ।शयथु(थ?)स्त्रिषु निद्रालौ मृतावजगरेऽपि ना ॥
3.14.4 · p. 85
अनुष्टुप्
पथ्यामलक्योः कायस्था ना नृजात्यात्मनोरयम् ।करञ्जभेदः षड्ग्रन्थः षड्ग्रन्था ग्रन्थिकं वचा ॥
3.14.5 · p. 85
अनुष्टुप्
वयःस्थो वाच्यवद्यूनि वयःस्था शाल्मलिद्रुमे ।ब्राह्मीगुडूचिकाकोलसूक्ष्मैलामलकीषु च ॥
3.14.6 · p. 85
अनुष्टुप्
समर्थो वाच्यवच्छक्ते हितसंबन्धयोरपि ।
3.14.7 · p. 85