All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
त्र्यक्षरकाण्डः · टान्ताः
॥ इति ञान्ताः ॥
करटो वायसे बिल्वे दुर्दुरूटेभगण्डयोः ।चक्राटो विषवैद्येऽपि दीनारे दुर्जनेऽपि सः ॥
3.8.2 · p. 72
अनुष्टुप्
गृहे कवाटे केदारे गृहारामे च निष्कुटः ।सारमेये वह्निकणे ताम्रचूडे च कुक्कुटः ॥
3.8.3 · p. 73
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 व (wrong syllable)
अश्वे मितंपचे निःस्वे देशभेदे च कीकटः ।रतिबन्धे राशिभेदे कुलीरेऽपि च कर्कटः ॥
3.8.4 · p. 73
अनुष्टुप्
ऊर्णनाभौ कपौ कान्तारतिभेदे च मर्कटः ।उर्वारौ शूकशिम्ब्यां च कर्कटी मर्कटी क्रमात् ॥
3.8.5 · p. 73
अनुष्टुप्
सूक्ष्मैला त्रिवृता चापि त्रिपुटा वरटा तु सा ।गण्डोली हंसयोषा चाप्यवटुर्गर्तघाटयोः ॥
3.8.6 · p. 73
अनुष्टुप्
परिष्टिः परिचर्यायां प्राक्राम्येऽन्वेषणेऽपि सा ।चिरण्टी तु सुवासिन्यां स्याद्द्वितीयवयस्त्रियाम् ॥
3.8.7 · p. 73
अनुष्टुप्
पिच्छटो नेत्ररोगे ना क्लीबे च त्रपुसीसयोः ।मोरटं गोरसे चेक्षुमूले मूर्वा तु मोरटा ॥
3.8.8 · p. 73
अनुष्टुप्
अशि(रि?)ष्टमशुभे तक्रे लशुने सूतिकागृहे ।मृत्युचिह्ने च ना त्वेष काके फेनिलनिम्बयोः ॥
3.8.9 · p. 73
अनुष्टुप्
विकटः पृथुले रम्ये विशालविकरालयोः ।स्यादुत्कटो बलवति क्षीबे च द्वाविमौ त्रिषु ॥
3.8.11 · p. 73
अनुष्टुप्