All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
द्व्यक्षरकाण्डः · वान्ताः
॥ इति लान्ताः ॥
वनवन्यानलौ दावदवौ वैश्वानरे हये ।पविर्वज्रेऽस्त्रधारायां ग्रावाणौ पर्वतोपलौ ॥
2.27.2 · p. 54
अनुष्टुप्
उडुपे वानरे भेके प्लुते कारण्डवे प्लवः ।भावः पदार्थे सत्तायां क्रियाचेष्टात्मयोनिषु ॥
2.27.4 · p. 55
अनुष्टुप्
विद्वल्लीलास्वभावेषु भूत्यभिप्रायजन्तुषु ।कण्ठतच्छिरयोर्ग्रीवा छविः स्यात्कान्तिशोभयोः ॥
2.27.5 · p. 55
अनुष्टुप्
लघ्वी स्यन्दनभेदेऽपि दर्वी फणखजाकयोः ।पृथ्वी तु पृथिवी कृष्णजीरकं हिङ्गुपत्रिका ॥
2.27.6 · p. 55
अनुष्टुप्
संवित्प्रतिज्ञाथ युद्धसंकेताचारनामसु ।नीवी वार्धुषिमूले स्वे ग्रन्थौ जघनवाससः ॥
2.27.7 · p. 55
अनुष्टुप्
दार्वी दारुहरिद्रायां देवदारुहरिद्रयोः ।जिह्वा वाग्रसना ज्वाला रेवा नील्यां सरित्यपि ॥
2.27.8 · p. 55
अनुष्टुप्
तत्त्वं विलम्बमाने स्यात्स्वरूपे परमात्मनि ।द्वंद्वं द्वयं हिमोष्णादि कलहो मिथुनं रहः ॥
2.27.9 · p. 55
अनुष्टुप्
सान्त्वं सामनि दाक्षिण्ये हविर्हव्ये घृते जले ।पर्व ग्रन्थौ पञ्चदश्यामुत्सवे विषुवादिके ॥
2.27.10 · p. 55
अनुष्टुप्
प्रस्तावे चाथ किण्वं स्यात्पिण्याको नग्नहूरघम् ।ध्रुवः शङ्कौ वटे कीले योगे तारान्तरे पुमान् ॥
2.27.11 · p. 55
अनुष्टुप्
तर्कनिश्चितयोः क्लीबे नित्यनिश्चलयोस्त्रिषु ।गीतिमूर्वासालपर्णीस्रुग्भेदेषु स्त्रियां ध्रुवा ॥
2.27.12 · p. 55
अनुष्टुप्
जीवो बृहस्पतिप्राणजीवनात्मद्रुमेषु ना ।मौर्व्यां वचायां जीवन्त्यां जीवा जीववति त्रिषु ॥
2.27.13 · p. 55
अनुष्टुप्
लवो रामसुते लेशे विलासे छेदने च ना ।लवं मेषादिलोम्नि स्याद्देवो राज्ञि सुरेऽम्बुदे ॥
2.27.14 · p. 56
अनुष्टुप्
राजाग्रमहिषी मूर्वा देवी स्याद्देवमिन्द्रियम् ।सत्त्वं द्रव्ये पिशाचादौ व्यवसायस्वभावयोः ॥
2.27.15 · p. 56
अनुष्टुप्
गुणप्राणबलस्वान्तसत्तास्वस्त्री तु जन्तुषु ।विश्वं स्याज्जगति क्लीबे विषायां तु स्त्रियामयम् ॥
2.27.16 · p. 56
अनुष्टुप्
कृत्स्ने त्रिषु न ना शुण्ठ्यां पुमान्देवेषु भूम्नि च ।बन्धने दूरमार्गे च क्लीबे प्राध्वं नते त्रिषु ॥
2.27.17 · p. 56
अनुष्टुप्
अविर्ना पर्वते सूर्ये मेषे मूषिककम्बले ।प्राकारे भवने भासि स्त्री तु पुष्पवतीभुवोः ॥
2.27.18 · p. 56
अनुष्टुप्
कविः पुमान्काव्यकर्तृशुक्रवाल्मीकिसूरिषु ।खलीने तु कविः स्त्री स्यात्कण्वं पापे मुनौ तु ना ॥
2.27.19 · p. 56
अनुष्टुप्
स्रुग्भेदे ना स्रुवः स्त्री तु मूर्वायामथ पूर्वजे ।पूर्वदिग्देशकालस्थद्रव्ये पूर्वस्त्रिलिङ्गकः ॥
2.27.20 · p. 56
अनुष्टुप्
ऊर्ध्वं स्यादुपरि क्लीबे त्रिषु तूज्झिततुङ्गयोः ।उपरिस्थे चाथ पार्श्वमस्त्री कक्षान्तरेऽन्तिके ॥
2.27.21 · p. 56
अनुष्टुप्
भास्वानर्के त्रिषूद्दीप्ते नार्वाऽश्वे कुत्सिते त्रिषु ।क्लीबे शिवं भद्रसुखोदकेषु द्रव्ये त्रिषु स्यद्गिरिशे तु पुंसि ॥
2.27.22 · p. 56
अनुष्टुप्metre not read in every line
शिवा भवेदामलकी भवानी हरीतकी सक्तुफला सृगालः ।धन्व चापे मरौ नाथ त्रिषु ह्रस्वोऽल्पखर्वयोः ॥
2.27.23 · p. 56
अनुष्टुप्metre not read in every line
पक्कं भवेत्परिणते विनाशाभिमुखेऽपि च ।
2.27.24 · p. 56