कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

द्‌व्यक्षरकाण्डः · यान्ताः

॥ इति मान्ताः ॥

चयः समूहे प्राकारे मूलबन्धे च संग्रहे ।नयो नीतौ द्यूतभेदे तार्क्ष्योऽश्वे गरुडे रथे ॥
2.24.1 · p. 42
अनुष्टुप्
कलिनक्षत्रयोस्तिष्यः स्याद्वियुः कालघूकयोः ।मन्युः क्रोधे क्रतौ दैन्ये दस्युः प्रत्यर्थिचोरयोः ॥
2.24.2 · p. 42
अनुष्टुप्
क्षयो रोगान्तरे गेहे कल्पान्तेऽपचयेऽप्यथ ।नाशे संश्लेषणे तौर्यत्रिकसाम्ये भवेल्लयः ॥
2.24.3 · p. 42
अनुष्टुप्
दायो धने विभक्तव्यपितृद्रव्ये च यौतके ।प्रायो वयोमृत्युतुल्यबाहुल्यानशनेषु ना ॥
2.24.4 · p. 42
अनुष्टुप्
प्रायोऽव्ययं च बाहुल्ये स्यादर्यः स्वामिवैश्ययोः ।कक्ष्या कच्छे वरत्रायां काञ्च्यां गेहप्रकोष्ठके ॥
2.24.5 · p. 42
अनुष्टुप्
संध्या संधौ पितृप्रस्वां प्रतिज्ञासीमयोरपि ।छाया कान्तिः सूर्यजाया प्रतिबिम्बमनातपः ॥
2.24.6 · p. 42
अनुष्टुप्
त्रयी त्रिवेद्यां त्रितये व्रज्या वर्गे गतावपि ।क्रिया तु चेष्टाकरणसंप्रधारणकर्मसु ॥
2.24.7 · p. 42
अनुष्टुप्
शिक्षारम्भोपायपूजाचिकित्सानिष्कृतिष्वपि ।शब्दगुम्फेऽपि शय्या स्यात्कन्या राश्यन्तरेऽपि च ॥
2.24.8 · p. 42
अनुष्टुप्
वीर्यं पराक्रमे शुक्रे द्रव्यं वित्ते गुणाश्रये ।यक्षदेवजकूर्मेषु छेकदम्भाध्वस्वैरिषु ॥
2.24.9 · p. 42
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 2, syllable 5 ध्व (wrong syllable)
गुह्यश्च शाखानगरे गुह्या शैलान्तरोकयोः ।गुह्यं रहस्युपस्थे च पयः पानीयदुग्धयोः ॥
2.24.10 · p. 42
अनुष्टुप्
वयः पक्षिणि बाल्यादौ वत्सरे यौवनेऽपि च ।माल्यं पुष्पे पुष्पदाम्नि मूल्यं वेतनवस्नयोः ॥
2.24.11 · p. 42
अनुष्टुप्
चैत्यमायतने बुद्धे बिम्बे चोद्देशपादपे ।कांस्यं वाद्यान्तरे पानपात्रे तैजसवस्तुनि ॥
2.24.12 · p. 43
अनुष्टुप्
नाट्यं तौर्यत्रिके नृत्तेऽप्याज्यं श्रीवाससर्पिषोः ।पद्यं श्लोके पद्या मार्गे काव्यः शुक्रे काव्यं ग्रन्थे ॥
2.24.13 · p. 43
अनुष्टुप्metre not read in every line
गव्यूतौ गोवृन्दे गव्या गव्यं ज्यायां रागद्रव्ये ।रूप्यं स्यादाहतस्वर्णे रजते तद्विभूषणे ॥
2.24.14 · p. 43
अनुष्टुप्metre not read in every line
स्वरूपे त्रिषु पूज्यस्तु त्रिष्वर्च्ये श्वशुरे पुमान् ।स्यात्तथ्ये शपथे सत्यं लोके ना त्रिष्वृतान्विते ॥
2.24.15 · p. 43
अनुष्टुप्
ययुर्नाश्वेऽश्वमेधीये दीर्घयष्ट्यां त्वयं स्त्रियाम् ।ऋषितीर्थे भवेत्कायं कायो देहसमूहयोः ॥
2.24.16 · p. 43
अनुष्टुप्
कदेवताके त्रिष्वेष जयस्तु विजये पुमान् ।जया तु पथ्या तर्कारी तिथिभेद उमासखी ॥
2.24.17 · p. 43
अनुष्टुप्
वन्या वनसमूहे स्याद्वन्यं त्रिषु वनोद्भवे ।एकत्वादौ विचारे च संख्या संख्यं तु संयुगे ॥
2.24.18 · p. 43
अनुष्टुप्
अस्त्री मध्यं समे न्यायेऽप्यवकाशावलग्नयोः ।त्रिषु साध्यं साधनीये ना योगे गणदैवते ॥
2.24.19 · p. 43
अनुष्टुप्
हृद्यं हृदो हिते हृज्जे हृत्प्रिये च त्रिलिङ्गकम् ।वश्यकृद्वेदमन्त्रे तु हृद्यो हृद्यं विलेपने ॥
2.24.20 · p. 43
अनुष्टुप्
सौम्यः पुमान्बुधे विप्रे त्रिषु स्यात्सोमदैवते ।रम्येऽनुग्रे च जन्यं तु रथ्याकलहयुद्धयोः ॥
2.24.21 · p. 43
अनुष्टुप्
जन्या माता पिता जन्यस्त्रिषु तूत्पाद्यनीचयोः ।ज्ञातौ भृत्यां नवोढायां जन्याः स्निग्धा वरस्य ये ॥
2.24.22 · p. 43
अनुष्टुप्
अश्लीले सुरते ग्राम्यं ग्राम्यः पल्लीभवे जने ।रथ्या रथौघविशिखे रथ्यस्तु रथवोढरि ॥
2.24.23 · p. 44
अनुष्टुप्
हरीतक्यां तु पथ्या स्याद्धिते पथ्यं त्रिलिङ्गकम् ।कर्मावबोधके गृह्यमयं स्ववशगे त्रिषु ॥
2.24.24 · p. 44
अनुष्टुप्
गृह्यं शाखापुरं गृह्या गृहासक्तमृगाः खगाः ।सह्योऽद्रि ः सह्यमारोग्यं सोढव्ये त्वेष वाच्यवत् ॥
2.24.25 · p. 44
अनुष्टुप्impossible sign sequence: ह्योऽद्रि ः सह्यम
योग्यं क्लीबेऽपूपयानचन्दनाभ्यासवाचकम् ।प्रवीणोपायवच्छक्तयोगार्हेषु त्वयं त्रिषु ॥
2.24.26 · p. 44
अनुष्टुप्
धर्माम्बुपुष्पस्वर्गेषु पुण्यं धर्मवति त्रिषु ।त्रिषु चोद्यं चोदनार्हे क्लीबे तु प्रश्नचित्रयोः ॥
2.24.27 · p. 44
अनुष्टुप्
धिष्ण्यौ शुक्रानलौ धिष्ण्यमृक्षे स्थाने गृहे बले ।कर्मरङ्गतरौ भव्यो भव्या करिकणोमयोः ॥
2.24.28 · p. 44
अनुष्टुप्
भव्यं सत्ये शुभे क्लीबं त्रिषु स्याद्योग्यभाविनोः ।सेव्यं त्रिलिङ्गं सेवार्हे क्लीबे तु स्यादुशीरके ॥
2.24.29 · p. 44
अनुष्टुप्
इभ्या करेण्वां त्रिष्वाढ्ये भृत्यो दासे भृतौ स्त्रियाम् ।कृत्रिमाऽल्पनदी कुल्या प्रणाल्यां च कुलोद्भवे ॥
2.24.30 · p. 44
अनुष्टुप्
कुल्यस्त्रिष्वस्थि कुल्यं स्यादथ कल्यमहर्मुखे ।कल्या कल्याणवाचि स्यात्त्रिषु नीरोगदक्षयोः ॥
2.24.31 · p. 44
अनुष्टुप्
शल्यं वंशशलाकायां शङ्कुतोमरयोरपि ।शल्यः कश्चिन्महीपालः श्वाविन्मदनपादपः ॥
2.24.32 · p. 44
अनुष्टुप्
आस्यं वक्त्रे वक्त्रबिले क्लीबे वक्त्रभवे त्रिषु ।अश्वमध्यं सुरा कश्यं कश्यस्रिषु कशार्हके ॥
2.24.33 · p. 45
अनुष्टुप्
दूष्यं पटगृहं दूष्या कक्ष्या निन्द्ये त्वयं त्रिषु ।शरव्यसंख्याव्याजेषु लक्ष्यं दृश्ये त्वयं त्रिषु ॥
2.24.34 · p. 45
अनुष्टुप्
इज्या स्त्री यागदानार्चासङ्गेष्विज्यो बृहस्पतौ ।गौर्यामार्या त्रिषु त्वेष कुलीनन्याय्यसाधुषु ॥
2.24.35 · p. 45
अनुष्टुप्
कृत्यं कार्ये देवतायां कृत्या स्त्री कुपिते त्रिषु ।पुनरर्थेऽव्ययं भूयो भूयान्बहुतरे त्रिषु ॥
2.24.36 · p. 45
अनुष्टुप्
धर्मे मोक्षे शुभे श्रेयः सुप्रशस्ते त्वयं त्रिषु ।आद्य आदिभवे मुख्ये भक्ष्ये चापि त्रिलिङ्गकः ॥
2.24.37 · p. 45
अनुष्टुप्
पूर्वेऽप्याद्या विधात्राद्या उत्तरे वाच्यलिङ्गकाः ।अर्थ्यो भवेदात्मवति प्रार्थनीयार्थयुक्तयोः ॥
2.24.38 · p. 45
अनुष्टुप्
अर्घाय क्लृप्ते चार्घार्हेऽप्यर्घ्योऽन्यो भिन्नतुल्ययोः ।वामदक्षिणयोः सव्यमन्त्योऽन्त्यजनिकृष्टयोः ॥
2.24.39 · p. 45
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 प्ते (wrong syllable)
सभ्यः सामाजिके साधौ जात्यः श्रेष्ठकुलीनयोः ।लभ्यौ तु न्याय्यलब्धव्यौ नित्यौ सततशाश्वतौ ॥
2.24.40 · p. 45
अनुष्टुप्
गर्हेऽपि याप्यो ज्यायांसो वृद्धशस्तवराग्रजाः ।
2.24.41 · p. 45