कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

अव्ययकाण्डः · त्र्यक्षरनानार्थाव्ययाः

॥ इति द्व्यक्षराव्ययपदानि ॥

अभीक्ष्णमनिशे शीघ्रे मुहुरर्थप्रकर्षयोः ।पुरस्तात्प्रथमेऽग्रे च पुरार्थे पूर्वदिश्यपि ॥
6.3.1 · p. 140
अनुष्टुप्
किमुतातिशयप्रश्नविकल्पेष्वथ सांप्रतम् ।युक्तार्थे चाधुनार्थे चाप्यन्ततोऽवयवान्तयोः ॥
6.3.2 · p. 140
अनुष्टुप्
अग्रतः पुरतश्चेति द्वावेतौ प्रथमाग्रयोः ।साकल्यशीघ्रोभयतःसामीप्याभिमुखेऽभितः ॥
6.3.3 · p. 140
अनुष्टुप्
सपदि क्षिप्रसद्योर्थ इदानीं वाक्यभूषणे ।संप्रत्यर्थे च समयाशब्दस्त्वन्तिकमध्ययोः ॥
6.3.4 · p. 140
अनुष्टुप्
प्रातः पूर्वेऽह्नि पूर्वेद्युरन्तरान्तिकमध्ययोः ।विनार्थे स्यादथोपांशु रहस्यश्रुतिजल्पने ॥
6.3.5 · p. 140
अनुष्टुप्
अञ्जसा त्वरिते तत्त्वे सहसा शून्यहेतुके ।सद्योऽर्थेऽप्यहह क्लेशहर्षानुशयवाचकः ॥
6.3.6 · p. 141
अनुष्टुप्
अहहा अद्भुते खेदेऽप्यथ
6.3.7 · p. 141