कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

चतुरक्षरकाण्डः · जान्ताः

॥ इति चान्ताः ॥

ग्रहराजोऽर्कचन्द्रयोः ।भारद्वाजो मुनौ द्रोणे व्याघ्राटेऽथ युधिष्ठिरे ॥
4.5.1 · p. 114
अनुष्टुप्metre not read in every line
यमे बुद्धे धर्मराजोऽनुजशूद्रौ जघन्यजौ ।राजराजः कुबेरेऽपि द्विजराजः खगेश्वरे ॥
4.5.2 · p. 114
अनुष्टुप्
चन्द्रेऽपि भृङ्गराजाः स्युर्भृङ्गधूम्याटमार्कवाः ।
4.5.3 · p. 114