कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

चतुरक्षरकाण्डः · पान्ताः

॥ इति नान्ताः ॥

विप्रलम्भे विरोधोक्तावपार्थकवचस्यपि ।विप्रलापोऽवलेपस्तु दूषणे गर्वलेपयोः ॥
4.15.1 · p. 122
अनुष्टुप्
परिवापस्तु पर्युप्तावालवाले परिच्छदे ।परिक्षेपः परिवृतौ पादपार्श्वे च दन्तिनाम् ॥
4.15.2 · p. 122
अनुष्टुप्
उपतापौ रोगतापौ शिवविष्णू वृषाकपी ।
4.15.3 · p. 122