All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
त्र्यक्षरकाण्डः · खान्ताः
॥ इति कान्ताः ॥
मयूखोंऽशुज्वालभासु वैशाखो मासमन्थयोः ।रथ्याखनित्र्योर्विशिखा विशिखस्तोमरे शरे ॥
3.2.1 · p. 68
अनुष्टुप्
नक्रे ना लेपने क्लीबे वाद्मे न स्त्री च गोमुखम् ।भे विशाखा गुहे पुंसि श्रेष्ठाद्योः प्रमुखस्त्रिषु ॥
3.2.2 · p. 68
अनुष्टुप्