All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
चतुरक्षरकाण्डः · तान्ताः
॥ इति णान्ताः ॥
उदास्थितश्चरे द्वार्स्थे समाघातोऽवधारणे ।परिवर्तो विनिमये स्यात्कल्पान्ते परिभ्रमे ॥
4.10.1 · p. 116
अनुष्टुप्
नदीकान्तस्तु निचुले सिन्धुवारसमुद्रयोः ।त्वष्टृराजाग्निजामातृब्रह्मार्केषु प्रजापतिः ॥
4.10.3 · p. 116
अनुष्टुप्
अपुष्पफलवद्वृक्षे वृक्षमात्रे वनस्पतिः ।अपि शंभौ पशुपतिरपि लक्ष्मीपतिर्नृपे ॥
4.10.4 · p. 116
अनुष्टुप्
अपि श्रीदे धनपतिरपि सेनापतिर्गुहे ।उत्पातेऽग्नौ धूमकेतुर्विश्वगोप्ता हरीन्द्रयोः ॥
4.10.5 · p. 116
अनुष्टुप्
चोरोलूकौ दिवाभीतौ वासन्त्यां तिनिशद्रुमे ।अतिमुक्तः पारिजातौ पारिभद्रसुरद्रुमौ ॥
4.10.6 · p. 116
अनुष्टुप्
स्त्रियामपचितिः पूजानिष्कृत्योः संक्षये व्यये ।अथ हैमवती गङ्गा पथ्या शुक्लवचाप्युमा ॥
4.10.7 · p. 117
अनुष्टुप्
प्रतिमायां प्रतिकृतिः पूजनाप्रतिकारयोः ।प्रत्याप्तिर्गौरवं बुद्धिः प्रागल्भ्यं प्रतिपत्तयः ॥
4.10.8 · p. 117
अनुष्टुप्
अनुज्ञा स्यादनुमतिः कलाहीनेन्दुपूर्णिमा ।शूकशिम्ब्यां शतावर्यामृश्यप्रोक्ताथ दूषणे ॥
4.10.9 · p. 117
अनुष्टुप्
प्रार्थने चाभिशस्तिः स्यात्समुद्रान्ता दुरालभौ ।कार्पासी कृष्णवृन्ता तु पाटला माषपर्णिका ॥
4.10.10 · p. 117
अनुष्टुप्
प्रणिद्यूतं युद्धमात्रे प्राणियुद्धेऽपि तद्भवेत् ।अत्याहितं त्वतिभयं कर्म जीवानपेक्षि च ॥
4.10.11 · p. 117
अनुष्टुप्
उपोहितोऽग्न्युत्पाते ना स्यात्त्रिषूपनिवेशिते ।ऐरावतोऽभ्रमातङ्गे लिकुचे नागरङ्गके ॥
4.10.12 · p. 117
अनुष्टुप्
ऋजुदीर्घेन्द्रचापे तु क्लीबमैरावती तटित् ।कलधौतं हेम्नि रूप्ये क्लीबं त्रिषु कलध्वनौ ॥
4.10.13 · p. 117
अनुष्टुप्
वैजयन्तो ध्वजे शक्रप्रासादे षण्मुखे च ना ।वैजयन्ती पताकायां तर्कारीकेशवस्रजोः ॥
4.10.14 · p. 117
अनुष्टुप्
निराकृतिर्निरासे स्त्री स्वाध्यायरहिते त्रिषु ।उत्तरे त्रिष्ववसितं समाप्ते निश्चितेऽपि च ॥
4.10.15 · p. 117
अनुष्टुप्
अवदातः सिते पीते प्रवरे शुद्धिमत्यपि ।अन्तर्गतं मध्यगते विस्मृतेऽप्यथ गर्हिते ॥
4.10.16 · p. 117
अनुष्टुप्
मुहुर्दृष्टेऽवगीतं स्यात्प्रतिक्षिप्तं तु धिक्कृते ।प्रोषिते चाभिजातास्तु कुलीनन्याय्यपण्डिताः ॥
4.10.17 · p. 117
अनुष्टुप्
अभिनीतः संस्कृते च न्यायामर्षवतोरपि ।अधिक्षिप्तस्तु निहिते भर्त्सिते प्रेषितेऽपि च ॥
4.10.18 · p. 118
अनुष्टुप्
अपध्वस्ताः परित्यक्तपरिचूर्णितनिन्दिताः ।प्रतिज्ञाते विनिहिते समाधिस्थे समाहितः ॥
4.10.19 · p. 118
अनुष्टुप्
पुरस्कृतो रिपुग्रस्ते स्वीकृतेऽग्रेकृतेऽर्चिते ।उपरक्तस्तु दुःखार्ते राहुग्रस्तेन्दुसूर्ययोः ॥
4.10.20 · p. 118
अनुष्टुप्
परिप्राप्ते परिवृते ज्ञाते परिगतं भवेत् ।उद्गाहितमुपन्यस्ते निबद्धे ग्राहितेऽपि च ॥
4.10.21 · p. 118
अनुष्टुप्
दिग्धवृद्धावुपचितौ निर्गतेऽपि समुद्गतः ।उत्कीर्णतनूकृतयोरुल्लिखितं प्रणिहितं तु विन्यस्ते ॥
4.10.22 · p. 118
अनुष्टुप्metre not read in every line
ध्यातेऽथ परिस्खलिते प्रतिरुद्धे प्रतिहतं द्विष्टे ।
4.10.23 · p. 118