All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
चतुरक्षरकाण्डः · कान्ताः
॥ इति क्षान्ताः ॥
इति जगदुपकारिण्यामिरुगपदण्डाधिनाथरचितायामेष त्र्यक्षरकाण्डः पूर्णो नानार्थरत्नमालायाम् ॥
॥ नानार्थरत्नमालायां चतुरक्षकाण्डः ॥
पिकभृङ्गावलिपकौ पिकभेकौ वलासकौ ।भृङ्गालकौ भ्रमरकौ श्रीवत्साङ्कौ वृषाच्युतौ ॥
4.1.1 · p. 112
अनुष्टुप्
अङ्गारकस्तूल्मुकस्य खण्डे भौमे कुरण्टके ।सालावृकः सारमेये वृके क्रोष्टरि मर्कटे ॥
4.1.4 · p. 112
अनुष्टुप्
विनायकस्तु सुगते गरुत्मति गणाधिपे ।हारभेदे माणवको बाले कुपुरुषे च सः ॥
4.1.5 · p. 112
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 मा (wrong syllable)
पुण्डरीकं सितच्छत्रे कुष्टभेदे सिताम्बुजे ।ना त्वाम्रे राजिले व्याघ्रे दिग्गजे कुञ्जरे ज्वरे ॥
4.1.6 · p. 112
अनुष्टुप्
नियामकः पोतवाहे ना नियन्तरि तु त्रिषु ।भयानकस्तु शार्दूले राहौ ना भीषणे त्रिषु ॥
4.1.7 · p. 112
अनुष्टुप्
पुमान्वृन्दारको देवे त्रिषु श्रेष्ठमनोज्ञयोः ।कौलेयकः सारमेये ना कुलीने तु वाच्यवत् ॥
4.1.8 · p. 112
अनुष्टुप्
पाञ्चालिका पुत्रिकायां द्रौपदीरीतिभेदयोः ।कनीनिकाक्षितारायां स्यात्कनिष्ठाङ्गुलावपि ॥
4.1.10 · p. 112
अनुष्टुप्
वाद्यानां लगुडे वाद्यभेदे घर्घरिका भवेत् ।जीवन्तिका तु जीवायां गुडूचीवन्दयोरपि ॥
4.1.11 · p. 113
अनुष्टुप्
उत्कण्ठायामुत्कलिका सैव हेलातरङ्गयोः ।कोशातकी ज्योत्स्निकायामपामार्गे च सा भवेत् ॥
4.1.12 · p. 113
अनुष्टुप्
सौगन्धिकं तु कल्हारे पद्मरागे च कत्तृणे ।रक्तर्धिकं सुखे स्थाने दिवसे मङ्गलेऽपि च ॥
4.1.13 · p. 113
अनुष्टुप्
त्रिफलायां त्रिकटुकं त्रिगन्धे च त्रिपर्णकम् ।स्तनवृत्ते पिप्पलकमपि सीवनसूत्रके ॥
4.1.14 · p. 113
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 पि (wrong syllable)
तिन्त्रिणीकं पादपाम्ले चिञ्चायामप्यथास्त्रियाम् ।विशेषकं स्यात्तिलके विशेषाधायके त्रिषु ॥
4.1.15 · p. 113
अनुष्टुप्
शूद्राद्वैदेहको वैश्यासुते ना वणिजि त्रिषु ।मयूरकस्त्वपामार्गे पुमान्क्लीबे तु तुत्थके ॥
4.1.16 · p. 113
अनुष्टुप्
सुप्रतीको भेद्यलिङ्गः शुभाङ्गे दिग्गजे पुमान् ।पलमाने षोडशिका न ना न स्त्री पलद्वये ॥
4.1.17 · p. 113
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 षो (wrong syllable)
जैवातृकः कर्षकेन्द्वोर्वाद्ये नायुष्मति त्रिषु ।त्रिषु वृद्धे शतानीको मुनौ पुंस्यथ वाच्यवत् ॥
4.1.18 · p. 113
अनुष्टुप्
कार्याक्षमः प्रभोर्भावदर्शी लालाटिकावुभौ ।अदूरेरितदृग्दम्भयुक्तः कौक्कुटिकावुभौ ॥
4.1.19 · p. 113
अनुष्टुप्