कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

द्‌व्यक्षरकाण्डः · भान्ताः

॥ इति बान्ताः ॥

कुम्भः कुञ्जरमूर्धाग्रे कुम्भकर्णे घटे विटे ।भूपाद्री भूभृतौ जम्भा दम्भजम्बीरदानवाः ॥
2.22.1 · p. 38
अनुष्टुप्
दन्तेऽपि च पुमानेव भक्ष्यवाचिषु स त्रिषु ।गर्भोऽर्भके नाट्यसंधौ कुक्षौ पनसकण्टके ॥
2.22.2 · p. 38
अनुष्टुप्
भ्रूणे प्रवरके चाथ स्वभूर्वेधाः स्मरो हरिः ।शंभुर्धातृहरीशेषु डिम्भो बालकमूर्खयोः ॥
2.22.3 · p. 38
अनुष्टुप्
नाभिः प्रधाने प्राण्यङ्गे कस्तूर्यां क्षत्रिये नृपे ।स्तम्भोऽवष्टम्भ आलाननिश्चेष्टजडदारुषु ॥
2.22.4 · p. 38
अनुष्टुप्
स्तम्भो जाड्येऽप्यथ सभा समाजद्यूतसद्मसु ।कदल्यामप्सरोभेदे रम्भा भाज्वालयोः प्रभा ॥
2.22.5 · p. 38
अनुष्टुप्
वारिपर्ण्यां कट्फले च कुम्भी स्त्री कुम्भिनो गजाः ।भव्ये क्लीबे शुभं द्रव्ये त्रिषु जृम्भस्तु जृम्भणे ॥
2.22.6 · p. 39
अनुष्टुप्
त्रिषु ना तु विकासे स्यान्नभः खं श्रावणो नभाः ।व्याजे निभो ना सदृशे त्रिष्वथो वाच्यलिङ्गकौ ॥
2.22.7 · p. 39
अनुष्टुप्
प्रभू शक्ताधिपौ नित्ये पत्यौ सर्वगते विभुः ।
2.22.8 · p. 39