कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

सङ्कीर्णकाण्डम् · सङ्कीर्णवर्गः

॥ इति वाच्यलिङ्गविषमाक्षराः ॥

स्कन्दस्य शंभोर्धातुश्च पर्यायाः सकलाः क्रमात् ।रुद्राक्षे षण्मुखे पञ्चमुखे चापि चतुर्मुखे ॥
5.27.1 · p. 134
अनुष्टुप्
निशायास्तु हरिद्रायां मेघस्याभ्रकमुस्तयोः ।इन्द्रस्य गुग्गुलूलूककुटजेष्वथ चित्रके ॥
5.27.2 · p. 134
अनुष्टुप्
भल्लातकेऽपि वह्नेः स्युरर्कस्यार्कतरावपि ।गौर्यास्त्वतस्यामिन्दोस्तु काम्पिल्यघनसारयोः ॥
5.27.3 · p. 135
अनुष्टुप्
वज्रस्य हीरके खस्य त्वभ्रके परमात्मनि ।दृषदोऽद्रेश्च शैलेये कार्पासे वाससो नरः ॥
5.27.4 · p. 135
अनुष्टुप्
कनकस्य तु दुत्तूरनागकेसरयोर्नरः ।शिरसः शिखरे चाथ नरः पद्मस्य सारसे ॥
5.27.5 · p. 135
अनुष्टुप्
पर्णस्य गरुति क्लीबे नरः किंशुकपादपे ।शस्त्रस्यायसि केशस्य बर्हिष्ठे च नपुंसकम् ॥
5.27.6 · p. 135
अनुष्टुप्
व्याधेः कुष्ठाख्यौषधे स्याच्छोणितस्य तु कुङ्कुमे ।बिन्दोः सिध्मादिशरीरविकारेऽथ निधावपि ॥
5.27.7 · p. 135
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 6 श (wrong syllable)
कूर्मस्य मकरस्याथ शङ्खस्य निधिसंख्ययोः ।आयसो मरिचेऽपि स्युरपां बर्हिष्ठमुस्तयोः ॥
5.27.8 · p. 135
अनुष्टुप्
मातुर्नामानि पार्वत्यां रन्ध्रस्यागसि दूषणे ।ध्वजधूममृगेन्द्राश्ववृषरासभदन्तिनाम् ॥
5.27.9 · p. 135
अनुष्टुप्
वायसस्यापि पर्यायाः क्रमात् पूर्वादिसद्मसु ।अजवृषभमिथुनकर्कटमृगेन्द्रकन्यातुलालिचापानाम् ॥
5.27.10 · p. 135
अनुष्टुप्metre not read in every line
मकरकलशमीनानां द्वादशराशिष्वपि क्रमशः ।
5.27.11 · p. 135