All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
द्व्यक्षरकाण्डः · छान्ताः
॥ इति चान्ताः ॥
कच्छो गुह्याम्बरप्रान्ते पार्श्वे कूपस्थले तटे ।गुच्छस्तु स्तबके स्तम्बे हारभेदकलापयोः ॥
2.6.1 · p. 17
अनुष्टुप्
पिच्छा शाल्मलिनिर्यासे मण्डेऽश्वचरणामये ।पिच्छं खगच्छदे बर्हे तुच्छं दुःखे नपुंसकम् ॥
2.6.2 · p. 17
अनुष्टुप्
शून्ये त्रिष्वथ पुच्छोऽस्त्री पश्चाद्भागेऽपि वालधौ ।त्रिष्वच्छो निर्मले ना तु भल्लूके स्फटिकेऽव्ययम् ॥
2.6.3 · p. 17
अनुष्टुप्
॥ इति छान्ताः ॥
मासोत्साहबलेषूर्जो व्याजः शाठ्यापदेशयोः ।कुजा द्रुनरकाङ्गारा व्रजा गोष्ठाध्वसंचयाः ॥
2.6.4 · p. 17
अनुष्टुप्
राजा यक्षे नृपे शक्रे पत्यौ क्षत्रियचन्द्रयोः ।वाजी खगशराश्वेषु वाजः पक्षे जवे स्वने ॥
2.6.5 · p. 17
अनुष्टुप्
वाजं घृते च यज्ञान्ने यवाग्वादियशःसु च ।प्रजा संतानजनयोः स्याद्रुजा रोगभङ्गयोः ॥
2.6.6 · p. 17
अनुष्टुप्
राजिस्तु पङ्क्तौ रेखायामाजिर्युद्धे समस्थले ।खर्जूः कीटविशेषे स्यात्कण्ड्वां खर्जूरिकाद्रुमे ॥
2.6.7 · p. 17
अनुष्टुप्
गुञ्जा कलध्वनौ काकबिम्बवाद्यविशेषयोः ।बीजं रेतसि तत्त्वेऽन्ने हेतावङ्कुरकारणे ॥
2.6.8 · p. 17
अनुष्टुप्
ओजः शब्दगुणे ज्ञाने बले गर्वप्रकाशयोः ।तेजो बले प्रतापेऽग्नौ त्विषि रेतस्यथो रजः ॥
2.6.9 · p. 17
अनुष्टुप्
गुणे रेणावार्तवेऽथ द्विजो विप्रे खगे रदे ।द्विजा भार्गीरेणुकयोः स्वजो ना स्वेदपुत्रयोः ॥
2.6.10 · p. 18
अनुष्टुप्
नपुंसकं शोणितेऽथ बाहौ पाणौ भुजो द्वयोः ।पीयूषपद्मयोः कञ्जं कञ्जो मूर्धजवेधसोः ॥
2.6.11 · p. 18
अनुष्टुप्
कुञ्जेाऽस्त्री दन्तिनां दन्ते निकुञ्जे कानने हनौ ।गञ्जा खन्यां सुरागेहे भाण्डागारे तु पुंस्ययम् ॥
2.6.12 · p. 18
अनुष्टुप्metre not read in every lineimpossible sign sequence: कुञ्जेाऽस्त्रnearly अनुष्टुप्
लवणाम्बुजयोरब्जं क्लीबे शङ्खे तु पुंसि वा ।पुंस्येव निचुले शीतरश्मौ धन्वन्तरावपि ॥
2.6.13 · p. 18
अनुष्टुप्
पताकाचिह्नखट्वाङ्गमेढ्रेषु ध्वजमस्त्रियाम् ।कुब्जाधोमुखयोर्न्युब्जस्त्रिषु रोगान्तरे तु ना ॥
2.6.14 · p. 18
अनुष्टुप्
अजः शंभौ विष्णुधात्रोः कामे छागे रघोः सुते ।त्रिषु त्वनादौ पिञ्जं तु बले क्लीबं वधे पुमान् ॥
2.6.15 · p. 18
अनुष्टुप्
हरिद्रातूलयोः स्त्री स्यादाकुले त्वभिधेयवत् ।अथोत्तरे त्रिष्ववक्रेऽप्युत्पत्तिरहितेऽप्यृजुः ॥
2.6.16 · p. 18
अनुष्टुप्
सज्जौ संभृतसंनद्धौ निजौ स्वीयाविनाशिनौ ।
2.6.17 · p. 18