All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
चतुरक्षरकाण्डः · वान्ताः
॥ इति लान्ताः ॥
अपह्नवोऽपलापे च स्नेहे चाथ पराभवः ।तिरस्कारे प्रणाशे च राहूत्पातावुपप्लवौ ॥
4.22.2 · p. 126
अनुष्टुप्
शस्त्रे पारशवो विप्राच्छूद्राजे मौक्तिकायसोः ।सन्निश्चयेऽनुभावः स्यात्प्रभावे भावसूचके ॥
4.22.3 · p. 126
अनुष्टुप्
आदीनवः पुमान्दोषे त्रिषु क्लिष्टदुरन्तयोः ।स्त्री शतपर्वा दूर्वावचयोर्वेणौ पुमान्बिसे क्लीबम् ॥
4.22.4 · p. 126
अनुष्टुप्metre not read in every line
पारिप्लवः परिप्लव इत्येतौ वाच्यवच्चलाकुलयोः ।
4.22.5 · p. 127