All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
त्र्यक्षरकाण्डः · ढान्ताः
॥ इति डान्ताः ॥
आषाढो व्रतिनां दण्डे मासे मलयपर्वते ।कृतसापत्निकाध्यूढा त्रिषु स्यादेष ईश्चरे ॥
3.11.1 · p. 75
अनुष्टुप्
त्रिषूत्तरे प्ररूढः स्याज्जठरे बद्धमूलके ।संरूढोऽङ्कुरिते प्रौढे विरूढो बद्धजातयोः ॥
3.11.2 · p. 75
अनुष्टुप्
समूढः पुञ्जिते सद्योजातेऽनुपहतेऽप्यथ ।कृच्छ्रे दृढे प्रगाढः स्यादुपोढो निकटस्थिते ॥
3.11.3 · p. 75
अनुष्टुप्
ऊढेऽपि स्यादुदूढस्तु परिणीते दृढे पृथौ ।
3.11.4 · p. 75