All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
त्र्यक्षरकाण्डः · कान्ताः
॥ इति क्षान्ताः ॥
इति जगदुपकारिण्यामिरुगपदण्डाधिनाथरचितायां द्व्यक्षरपदकाण्डोऽयं पूर्णो नानार्थरत्नमालायाम् ॥
॥ नानार्थरत्नमालायां त्र्यक्षरकाण्डः ॥
उलूकौ घूकदेवेन्द्रौ जम्बूकौ पाशिफेरवौ ।डुण्डुकौ शोणकक्रूरौ वृषाङ्कौ शिवसज्जनौ ॥
3.1.2 · p. 61
अनुष्टुप्
एष्यतोः कालफलयोरुदर्कः स्यादथात्मजे ।मदालसायां श्वेतार्केऽप्यलर्को भ्रान्तशुन्यपि ॥
3.1.3 · p. 61
अनुष्टुप्
चुलकः प्रसृतौ भाण्डे पृथुकश्चिपिटे शिशौ ।क्षुरकः कोकिलाक्षे स्याद्गोक्षुरे तिलकद्रुमे ॥
3.1.5 · p. 62
अनुष्टुप्
रुचको मङ्गलद्रव्ये दन्ते कण्ठविभूषणे ।एरण्डे मातुलुङ्गे च सौवर्चलविलङ्गयोः ॥
3.1.6 · p. 62
अनुष्टुप्
शिशुकः शिंशुमारे स्याद्बालकोलुपिनोरपि ।भेर्यां मृदङ्गे पटहे ध्वनन्मेघेऽपि चातकः ॥
3.1.7 · p. 62
अनुष्टुप्
चार्चिक्ये मदिरादीनां बुद्बुदे स्थासको भवेत् ।क्रमुकः श्वेतलोध्रे च पूगे च ब्रह्मदारुणि ॥
3.1.8 · p. 62
अनुष्टुप्
प्रियकोऽलौ मृगे नीपे प्रियङ्गौ कुङ्कुमेऽसने ।पिण्याकः सिल्हके किण्वे श्रीवासतिलकल्कयोः ॥
3.1.9 · p. 62
अनुष्टुप्
स्यात्पुलाकस्तु संक्षेपे तुच्छधान्यान्नसिक्थयोः ।गजलाङ्गूलमूलस्य प्रान्ते घूके च पेचकः ॥
3.1.10 · p. 62
अनुष्टुप्
वैधवेये भग्नभाण्डे शिरस्त्रे मणिके गुडे ।कम्बले चेन्द्रियस्थाने पूगकोशे च गोलकः ॥
3.1.11 · p. 62
अनुष्टुप्
कूपकोऽन्धौ तैलपात्रे गुणवृक्षे कुकुन्दरे ।शम्बूको गजकुम्भान्ते जलशुक्तौ च दानवे ॥
3.1.12 · p. 62
अनुष्टुप्
मुग्धस्त्रीहस्तविन्यासभेदे च स्वस्तिको मतः ।स्यात्कञ्चुको वारबाणे निर्मोके कवचेऽपि च ॥
3.1.14 · p. 62
अनुष्टुप्
निर्मोको वर्मणि व्योम्नि मोचने सर्पकञ्चुके ।पुलको मणिदोषे स्त्री राज्यां रोमोद्गमे क्रिमौ ॥
3.1.15 · p. 63
अनुष्टुप्
हीरकेऽप्यथ पार्श्वं च पक्षद्वारं च पक्षकम् ।कटुतुम्ब्यामपीक्ष्वाकुस्तुरुष्कः सिल्हकेऽपि च ॥
3.1.16 · p. 63
अनुष्टुप्
भुजंगचित्रकव्याघ्रवृश्चिकाः स्युः पृदाकवः ।मर्कटार्कपरोत्तापिहव्यवाहाः कुषाकवः ॥
3.1.17 · p. 63
अनुष्टुप्
तार्क्ष्यभूपालमार्जारशलभाः स्युस्त्रिशङ्कवः ।बृसीमञ्चौ तु पर्यङ्कौ करङ्को मस्तकास्थिनि ॥
3.1.18 · p. 63
अनुष्टुप्
नारिकेलफले च स्यात्कलङ्कस्त्वङ्कनिन्दयोः ।आतङ्कः संज्वरे रोगे साध्वसे मुरजध्वनौ ॥
3.1.19 · p. 63
अनुष्टुप्
कण्टकः पुलके रेणौ द्रुमाङ्गे क्षुद्रवैरिणि ।विपाकः परिणामे च स्वेदने दुर्गतावपि ॥
3.1.20 · p. 63
अनुष्टुप्
विपाकः पचने स्वेदे दुष्फलेऽप्यथ कौशिकः ।गुग्गुलूलूकनकुलमुनिशक्राहितुण्डिकाः ॥
3.1.21 · p. 63
अनुष्टुप्
अम्बिका मातुलीगौर्योः पाण्डुमातरि मातरि ।पार्यां काले च घटिका कर्णिका कर्णभूषणे ॥
3.1.22 · p. 63
अनुष्टुप्
हस्तमध्याङ्गुलौ हस्तिहस्ताग्रेऽब्जवराटके ।पिण्डिका पिण्डके जङ्घामांसे स्यादथ कालिका ॥
3.1.23 · p. 63
अनुष्टुप्
कार्ष्ण्ये भवान्यां रोमालिधूमालिजलदालिषु ।पटोलशाखायोगिन्योर्नाले मांसे नवाम्बुदे ॥
3.1.24 · p. 64
अनुष्टुप्
कणिका वह्निमन्थे स्याल्लेशे गोधूमचूर्णके ।स्याल्लेख्यकूर्चिकातूलशय्ययोरपि तूलिका ॥
3.1.25 · p. 64
अनुष्टुप्
शेफालिकायां नीलिन्यां क्षुद्ररोगेऽपि नीलिका ।जमदग्निप्रियायां च तुषे रेणौ च रेणुका ॥
3.1.26 · p. 64
अनुष्टुप्
मीने मृत्पात्रभेदे च तृणशून्ये च मल्लिका ।कुट्मले तूलिकासूच्योर्मस्तुपिण्डे च कूर्चिका ॥
3.1.27 · p. 64
अनुष्टुप्
अङ्गुलीये तरङ्गे च वस्त्रभङ्गेऽपि चोर्मिका ।मृद्भाण्डभेदे कान्तायां करभस्यापि चोष्ट्रिका ॥
3.1.28 · p. 64
अनुष्टुप्
धेनुका गौः करेणुश्च कामुका कामिनी वधूः ।भित्तिका तु शतावर्यां वज्रे चाप्यथ नाडिका ॥
3.1.29 · p. 64
अनुष्टुप्
नाले काले चुल्लिरन्ध्रे विवरे रेणुभाजने ।यः संघः कर्म भावो वा वृद्धानां तत्र वार्धकम् ॥
3.1.30 · p. 64
अनुष्टुप्
धैनुकं धेनुबृन्दे स्याद्रतिबन्धान्तरेऽपि तत् ।भूतिकं कत्तृणे दीप्ये भूनिम्बे भूस्तृणेऽपि च ॥
3.1.31 · p. 64
अनुष्टुप्
उत्तरीये वस्त्रमात्रे सूक्ष्मवस्त्रेऽपि चांशुकम् ।अप्रियेऽप्यनृतेऽलीकं गजबिन्दौ च पद्मकम् ॥
3.1.33 · p. 64
अनुष्टुप्
व्यलीकं दुःखवैलक्ष्याप्रियकार्येष्वथान्वये ।शीलेऽप्यनूकं शास्त्रेऽपि कार्मुकं कौतुकं त्विह ॥
3.1.34 · p. 64
अनुष्टुप्
कुतुकेच्छाहस्तसूत्रमङ्गलैतिह्यनर्मसु ।प्रख्यातहर्षयोश्चाथ स्वर्णे धातौ च गैरिकम् ॥
3.1.35 · p. 65
अनुष्टुप्
कटुकं कटुरोहिण्यां व्योषे चाथार्भकस्त्रिषु ।दरिद्रे बालके मूर्खे जडे भ्रूणे तु पुंस्ययम् ॥
3.1.36 · p. 65
अनुष्टुप्
चित्रकं तिलके ना तु व्याघ्रे वह्न्याख्यभेषजे ।एरण्डे सरकं त्वस्त्री शीधौ तत्पात्रपानयोः ॥
3.1.37 · p. 65
अनुष्टुप्
बालकं स्यादङ्गुलीये ह्रीबेरे वलयेऽपि च ।शिशौ तु त्रिषु नालीकं त्वब्जे क्लीबं शरे पुमान् ॥
3.1.38 · p. 65
अनुष्टुप्
खे किञ्जल्कं केसरे ना सूतकः पारदे पुमान् ।आशौचे सूतकं चुल्ल्यामन्तिका निकटेऽन्तिकम् ॥
3.1.39 · p. 65
अनुष्टुप्
कनकं काञ्चने ना तु दुत्तूरे नागकेसरे ।चम्पके काञ्चनाद्रौ च करकस्तु कमण्डलौ ॥
3.1.40 · p. 65
अनुष्टुप्
दाडिमे पक्षिभेदे च द्वयोरेष घनोपले ।चटकः कलविङ्के स्यात्तस्य कान्तास्त्र्यपत्ययोः ॥
3.1.41 · p. 65
अनुष्टुप्
चटका कुलकस्तु स्याद्वल्मीके काकतिन्दुके ।क्लीबे त्वेकान्वयश्लोकबृन्देऽथ क्लोम्नि चित्रके ॥
3.1.42 · p. 65
अनुष्टुप्
तिलकं द्रुमरोगाश्वभेदेषु तु पुमानयम् ।आढकं स्यान्मानभेदे तुवर्यामाढकी स्त्रियाम् ॥
3.1.43 · p. 65
अनुष्टुप्
पिनाकोऽस्त्री पांसुवर्षे त्रिशूले शिवधन्वनि ।प्रतीकः स्यादवयवे प्रतिकूले त्वयं त्रिषु ॥
3.1.44 · p. 66
अनुष्टुप्
वल्मीकोऽस्त्री रोगभेदेऽप्यनीकोऽस्त्री रणे बले ।मण्डूकपर्ण्यां मण्डूकी पुमांछोणकभेकयोः ॥
3.1.45 · p. 66
अनुष्टुप्
ग्रन्थिकं पिप्पलीमूले पुंस्ययं गुग्गुलुद्रुमे ।बाल्हिकं कुङ्कुमे हिङ्गौ देशभेदाश्वयोस्तु ना ॥
3.1.46 · p. 66
अनुष्टुप्
कन्यया यद्धनं लब्धं पित्रादेस्तत्र यौतकम् ।युतकस्येदमित्यत्र त्रिष्वयं युतकं त्विह ॥
3.1.47 · p. 66
अनुष्टुप्
यौतके युगले युक्ते संश्रये वसनाञ्चले ।शूर्पाग्रे वस्त्रभेदे च स्त्रीणां नद्यां तु गण्डकी ॥
3.1.48 · p. 66
अनुष्टुप्
स्याद्गण्डकः खड्गमृगे प्रत्यूहे शकुलार्भके ।मेचकश्चन्द्रके ध्वान्ते नीले ना तद्वति त्रिषु ॥
3.1.49 · p. 66
अनुष्टुप्
मधुकः स्याद्वन्दिजनो मधुकं मधुयष्टिका ।जतुकाजिनपत्रायां जतुकं हिङ्गुलाक्षयोः ॥
3.1.50 · p. 66
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द्व (wrong syllable)
कुमार्यां नग्निका वन्दिक्षपणौ नग्निकावुभौ ।वालुका सिकतासु स्यात्क्लीबेऽयं हरिवालुके ॥
3.1.51 · p. 66
अनुष्टुप्
मोचकः कदलीशिग्र्वोः सेचकोऽम्बुधरेऽपि च ।जतुकाकश्वसूचीषु सूचको वाच्यवत्खले ॥
3.1.52 · p. 66
अनुष्टुप्
क्षारकः पक्षिमत्स्यादिपिटके पुष्पजालके ।भक्ष्येऽपि मोदकः काव्यालंकारेऽपि च दीपकम् ॥
3.1.53 · p. 66
अनुष्टुप्
रूपकं वागलंकारे नाटकेऽप्यथ जीवकः ।क्षपणे वृद्धिजीविन्यप्यसने चाहितुण्डिके ॥
3.1.54 · p. 67
अनुष्टुप्
स्यादाजीवे जीविका स्त्री तुन्नवाये च सौचिकः ।जनको मैथिलेऽपि स्याद्रजको धावकेंऽशुके ॥
3.1.55 · p. 67
अनुष्टुप्
द्रावकस्रिष्वभिज्ञे ना शिलाभेदेऽथ लासकः ।मयूरे लास्यकारे च तक्षकौ नागवर्धकी ॥
3.1.56 · p. 67
अनुष्टुप्
पावकोऽग्नौ सदाचारे भल्लातकविडङ्गयोः ।अग्निमन्थे चित्रके च दारकस्तु शिशावपि ॥
3.1.57 · p. 67
अनुष्टुप्
हारकौ चोरकितवौ कर्मादावपि कारकम् ।स्यात्कारिका यातनायां श्लोके विवरणे कृतौ ॥
3.1.58 · p. 67
अनुष्टुप्
वर्णकोऽस्त्री प्रकारे स्याच्चन्दनेऽङ्गविलेपने ।लोचकस्त्वञ्जने मांसपिण्डे रक्तांशुके भ्रुवि ॥
3.1.59 · p. 67
अनुष्टुप्
नन्दको विष्णुखड्गेऽपि प्रतीहारेऽपि दर्शकः ।वर्तकोऽश्वखुरः पक्षी सायकः शरखड्गयोः ॥
3.1.60 · p. 67
अनुष्टुप्
करेण्वसत्यौ बन्धक्यावाधिद्रव्ये तु बान्धकः ।याजको राजमातङ्गेऽप्ययस्कान्तेऽपि चुम्बकः ॥
3.1.61 · p. 67
अनुष्टुप्
गजवेश्या यूथिकासु(च) गणिका ना तु तान्त्रिके ।आखुचोरौ तु खनकौ तारकौ दैत्यनाविकौ ॥
3.1.63 · p. 67
अनुष्टुप्
कनीनिकायां भे चायं न ना चक्षुषि न द्वयोः ।मोचकाद्या अमी मोक्तृमोचयित्रादिषु त्रिषु ॥
3.1.64 · p. 68
अनुष्टुप्
नीचेऽल्पे क्षुल्लकोऽभीकः क्रूरे कामिनि निर्भये ।ईर्ष्यायुते वञ्चके च कुहकस्रिष्वमी त्रयः ॥
3.1.65 · p. 68
अनुष्टुप्