कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

त्र्यक्षरकाण्डः · क्षान्ताः

॥ इति हान्ताः ॥

प्रत्यक्षोऽधिकृतेऽध्यक्षस्त्रिष्वारक्षस्तु रक्षणे ।अधश्च दन्तिकुम्भस्य हर्यक्षः श्रीदसिंहयोः ॥
3.31.1 · p. 111
अनुष्टुप्
रक्ताक्षो महिषो दैत्ये पारावतचकोरयोः ।गोतुम्बायां गवाक्षी स्त्री गवाक्षो जालके पुमान् ॥
3.31.2 · p. 111
अनुष्टुप्