All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
त्र्यक्षरकाण्डः · दान्ताः
॥ इति थान्ताः ॥
सौगन्ध्यहर्षावामोदौ जलदौ मुस्तकाम्बुदौ ।दायादौ ज्ञातितनयौ निषादौ श्वपचस्वरौ ॥
3.15.1 · p. 85
अनुष्टुप्
मुकुन्दः कुन्दुरौ विष्णौ पारदे निधिरत्नयोः ।आक्रन्दो रोदनं त्राता मित्रं घोररणो ध्वनिः ॥
3.15.2 · p. 85
अनुष्टुप्
प्रसादोऽनुग्रहः काव्यप्राणः स्वास्थ्यं प्रसन्नता ।अर्धेन्दुः स्यादतिप्रौढस्त्रीगुह्याङ्गुलियोजने ॥
3.15.3 · p. 85
अनुष्टुप्
गलहस्ते नखाङ्के च प्रह्लादौ हर्षदानवौ ।संभेदः सिन्धुसङ्गेऽपि प्रासादो देवभूभुजाम् ॥
3.15.4 · p. 86
अनुष्टुप्
गृहे कपर्दस्त्वीशस्य जटाजूटे वराटके ।निर्वादः स्यात्परीवादपरिनिष्ठितवादयोः ॥
3.15.5 · p. 86
अनुष्टुप्
श्रोत्रामये ताररवे प्रणादोऽथ बृहस्पतौ ।गवाध्यक्षेऽपि गोविन्दो दारदौ विषपारदौ ॥
3.15.6 · p. 86
अनुष्टुप्
मर्यादा धारणासीम्नो सुनन्दा रोचनास्त्रियोः ।प्रमदः सम्मदे पुंसि त्रिषु मत्ते स्त्रियामयम् ॥
3.15.7 · p. 86
अनुष्टुप्
विशदो धवले व्यक्ते शुचौ त्रिषु गुणे तु ना ।क्षणदो गणके रात्रौ क्षणदा क्षणदं जले ॥
3.15.8 · p. 86
अनुष्टुप्
कुसीदं जीवने वृद्ध्या वृद्धिजीविनि तु त्रिषु ।कुमुदं कैरवे ना तु दिग्गजे भुजगे कपौ ॥
3.15.9 · p. 86
अनुष्टुप्
कौमुदो ना कार्त्तिकिके ज्योत्स्नायां कौमुदी स्त्रियाम् ।ककुदोऽस्त्री राजचिह्ने प्राधान्यवृषभाङ्गयोः ॥
3.15.10 · p. 86
metre not recognisednearly अनुष्टुप्: pāda 1, syllable 5 का (wrong syllable)
शारदः पीतमुद्गे ना प्रत्यग्रेऽप्रतिभे त्रिषु ।शारदी तोयपिप्पल्यां सप्तपर्णेऽप्यथाङ्गदः ॥
3.15.11 · p. 86
अनुष्टुप्
कपौ क्लीबं तु केयूरेऽप्यास्पदं स्थानकृत्ययोः ।गोष्पदं गोखुरश्वभ्रे मानगोगम्ययोरपि ॥
3.15.12 · p. 86
अनुष्टुप्