कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

चतुरक्षरकाण्डः · सान्ताः

॥ इति षान्ताः ॥

अधिवासो निवसने गन्धधूपादिसंस्कृतौ ।राजहंसो नृपश्रेष्ठेऽग्नीन्द्वर्केषु विभावसुः ॥
4.25.1 · p. 127
अनुष्टुप्
चन्द्रहासः खड्गमात्रे खड्गे दशमुखस्य च ।द्राक्षा मूर्वा मधुरसा भवेत्स्वादुरसा पुनः ॥
4.25.2 · p. 127
अनुष्टुप्
द्राक्षायां मदिरायां च ततः स्वश्रेयसं सुखे ।भद्रेऽप्यथो तामरसं ताम्रे स्वर्णे सरोरुहे ॥
4.25.3 · p. 128
अनुष्टुप्
त्रिषु सान्द्रे घनरसः क्लीबेऽम्बुन्येष मोरटे ।कर्पूरनिर्यासयोश्च सम्यक् सिद्धरसे तु वा ॥
4.25.4 · p. 128
अनुष्टुप्
मलीमसं तु मलिने त्रिषु लोहे नपुंसकम् ।
4.25.5 · p. 128