All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
द्व्यक्षरकाण्डः · ढान्ताः
॥ इति डान्ताः ॥
षण्ढः षण्डे वर्षधरे गोपतौ वन्ध्यपूरुषे ।दाढा दंष्ट्रेच्छयोर्वोढा सूते ना धर्तरि त्रिषु ॥
2.12.1 · p. 23
अनुष्टुप्
गूढं रहसि गुह्ये च क्लीबे त्रिषु तु संवृते ।बाढं त्रिषु दृढे क्लीबमनुमत्यामथ त्रिषु ॥
2.12.2 · p. 23
अनुष्टुप्
मूढोऽज्ञे मूर्छिते व्यूढं विन्यस्ते संहते पृथौ ।दृढा बलिस्थूलगाढाः सोढा शक्तक्षमावतोः ॥
2.12.3 · p. 24
अनुष्टुप्