All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
सङ्कीर्णकाण्डम् · यान्ताः
॥ इति बान्ताः ॥
त्रिषु तु प्रवक्तुमर्हे प्रवक्तरि प्रवचनीयं स्यात् ।क्लीबे तु दुग्धफेने दुग्धाम्ले दुग्धतालीयम् ॥
5.12.1 · p. 131
उपगीतिः
धौतांशुकयोर्युगलेऽप्युद्गमनीयं हि नापितश्वपचौ ।अन्तावसायिनावथ वृषाकपायी रमागौर्योः ॥
5.12.2 · p. 131
आर्या
॥ इति यान्ताः ॥
चित्रागारविशेषे काव्यविशेषे च सर्वतोभद्रः ।अलका च महेन्द्रस्य च नगरी वस्वौकसारा स्यात् ॥
5.12.3 · p. 131
आर्या
तिलके तमालपत्रं पत्रकतापिञ्छयोरपि तत् ।
5.12.4 · p. 131