All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
द्व्यक्षरकाण्डः · गान्ताः
॥ इति खान्ताः ॥
असिगण्डकयोः खड्गो भूप्रदेशे मृगे लगुः ।भृगुर्दैत्यगुरौ शंभौ जमदग्निप्रतापयोः ॥
2.3.2 · p. 13
अनुष्टुप्
भागो भाग्ये रूपकार्थे चतुर्थांशैकदेशयोः ।रागोऽनुरागे मात्सर्ये लाक्षादौ रक्तिमत्विषोः ॥
2.3.3 · p. 13
अनुष्टुप्
गान्धारादौ रञ्जने च पूगस्तु क्रमुके गणे ।भोगस्तु भोजने वित्ते निर्वेशे पालने सुखे ॥
2.3.4 · p. 13
अनुष्टुप्
वनितादिभृतौ राज्ये सर्पस्य फणकाययोः ।योगः संनहने ध्याने युक्तौ संगत्युपाययोः ॥
2.3.5 · p. 14
अनुष्टुप्
प्रयोगे मेषजे विष्कम्भादौ विस्रब्धघातिनि ।मार्गो मासे मृगमदेऽन्वेषणे पथि सौम्यभे ॥
2.3.6 · p. 14
अनुष्टुप्
सर्गो निश्चयनिर्मोकस्वभावाध्यायसृष्टिषु ।उत्साहत्यागयोश्चाथ त्यागो वर्जनदानयोः ॥
2.3.7 · p. 14
अनुष्टुप्
वेगाः प्रवाहकिंपाकजवाः स्वर्गः प्रियेऽपि च ।शृङ्गी विषायां मीने च वृषभाख्यौषधे च ना ॥
2.3.8 · p. 14
अनुष्टुप्
शृङ्गं विषाणे प्राधान्ये सानौ क्रीडाम्बुयन्त्रके ।पर्वताग्रे च शार्ङ्गं तु चापकेशवचापयोः ॥
2.3.9 · p. 14
अनुष्टुप्
लिङ्गं स्यात्साध्यगमके शेफचिह्नेशमूर्तिषु ।भर्गः शिवे तथा लोकेऽप्यागसी मन्तुकिल्बिषे ॥
2.3.10 · p. 14
अनुष्टुप्
भगः श्रीधर्मवैराग्ययत्नैश्वर्यार्कमुक्तिषु ।इच्छावीर्यतपःकीर्तिमाहात्म्यज्ञानकान्तिषु ॥
2.3.11 · p. 14
अनुष्टुप्
योनौ तु स्याद्भगं क्लीबे युगं हस्तचतुष्टये ।युगले च कृतादौ च रथाद्यङ्गे तु ना युगः ॥
2.3.12 · p. 14
अनुष्टुप्
दुर्गा गौर्यां कालिकायां दुर्गं तु नरके पुरे ।शैलादिदुर्गमस्थाने त्रिषु त्वेष दुरासदे ॥
2.3.13 · p. 15
अनुष्टुप्
नागः सर्पे गजे मेघे पुंनागे नागकेसरे ।देहान्तर्वायुभेदे च मुस्तके नागदन्तके ॥
2.3.15 · p. 15
अनुष्टुप्
ग्राहे श्रेष्ठेऽप्यथो नागं सीसे रङ्गे रतान्तरे ।खड्गः खड्गमृगे खड्गे भङ्गः खण्डे पराजये ॥
2.3.16 · p. 15
अनुष्टुप्
तरङ्गे रोगभेदे च भङ्गा तु शणसंज्ञिके ।भङ्गी प्रकारे तुङ्गस्तु शैलपुंनागयोः पुमान् ॥
2.3.17 · p. 15
अनुष्टुप्
त्रिषून्नतेऽथ व्यङ्गो ना भेके हीनाङ्गके त्रिषु ।अङ्गं गात्रान्तिकोपायप्रतीकेष्वप्रधानके ॥
2.3.18 · p. 15
अनुष्टुप्
देशभेदे तु पुंसि स्यादङ्गेत्यामन्त्रणेऽव्ययम् ।वङ्गौ तु देशवृन्ताकौ वङ्गं सीसकरङ्गयोः ॥
2.3.19 · p. 15
अनुष्टुप्
भृङ्गस्त्वलिनि धूम्याटे षिद्गे भृङ्गं तु कुन्तले ।रङ्गं त्रपुणि रङ्गो ना रागे नृत्तस्थले रणे ॥
2.3.20 · p. 15
अनुष्टुप्