कोविद्यास्थानम् · कोशाःVidyāsthāna Kośa · kosha.sanskrit.site

All kośas › Nānārtharatnamālā

Nānārtharatnamālā Nānārtharatnamālā

1,356 verses · text only, tagging comes next

त्र्यक्षरकाण्डः · ठान्ताः

॥ इति टान्ताः ॥

वैकुण्ठः केशवे शक्रे निर्मठश्चूचुके विटे ।प्रकोष्ठो विस्तृतकरेऽप्यलिन्दे कूर्परादधः ॥
3.9.1 · p. 74
अनुष्टुप्
कक्षान्तरे प्रतिष्ठा तु समाप्तौ गौरवेऽपि च ।कार्यनिर्वाहसामर्थ्ये चतुर्थे छन्दसि स्थितौ ॥
3.9.2 · p. 74
अनुष्टुप्
कमठः कच्छपे खर्वे भिक्षापात्रे तु न द्वयोः ।वरिष्ठं मरिचे ताम्रे त्रिषु तु प्रवरेऽत्युरौ ॥
3.9.3 · p. 74
अनुष्टुप्
कनिष्ठोऽपूर्वजेऽत्यल्पे यूनि त्रिष्वङ्गुलौ स्त्रियाम् ।अम्बष्ठो देशभेदे च विप्राद्वैश्यासुते च सः ॥
3.9.4 · p. 74
अनुष्टुप्
अम्बष्ठा यूथिका पाठा त्रिषु त्वतिलघुन्यपि ।अत्यल्पेऽपि लघिष्ठः स्याज्जरठौ जीर्णकर्कशौ ॥
3.9.5 · p. 74
अनुष्टुप्