All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
चतुरक्षरकाण्डः · रान्ताः
॥ इति यान्ताः ॥
धाराधरौ खड्गमेघौ नृपशैलौ धराधरौ ।विष्णुसर्पौ चक्रधरौ स्तनमेघौ पयोधरौ ॥
4.20.1 · p. 123
metre not recognisednearly अनुष्टुप्: pāda 3, syllable 5 च (wrong syllable)
यमभूपौ दण्डधरौ वीतिहोत्राविनानलौ ।कूर्मेशाब्धी अकूपारौ लक्ष्मीपुत्रौ हयस्मरौ ॥
4.20.2 · p. 124
अनुष्टुप्metre not read in every linenearly अनुष्टुप्: pāda 1, syllable 5 द (wrong syllable)
द्वारद्वाःस्थौ प्रतीहारौ कामपङ्कौ निषद्वरौ ।अवतारस्तु तीर्थेऽपि धन्वन्तरिरिनेऽपि च ॥
4.20.3 · p. 124
अनुष्टुप्
खड्गेऽपि करवीरः स्यादुपहारोऽप्युपायने ।गरलेऽपि ब्रह्मपुत्रोऽलंकारोऽप्युपमादिषु ॥
4.20.4 · p. 124
अनुष्टुप्
लोहेऽपि गिरिसारोऽर्धचन्द्रोऽपि गलहस्तके ।परिवारोऽसिकोशे चावस्करो गूढगुह्ययोः ॥
4.20.5 · p. 124
अनुष्टुप्
खगे चाथ व्यतिकरो व्यसनव्यतिषङ्गयोः ।रथकारस्तक्षणि स्यान्माहिष्यात्करणीभवे ॥
4.20.7 · p. 124
अनुष्टुप्
संक्षेपे तु समाहार एकत्रकरणेऽपि सः ।जलग्रहे शिंशुमारस्तारारूपाच्युते च सः ॥
4.20.8 · p. 124
अनुष्टुप्
परिवारे परिकरः पर्यङ्कनिकुरुम्बयोः ।प्रगाढे गात्रिकाबन्धे विवेकारम्भयोरपि ॥
4.20.9 · p. 124
अनुष्टुप्
अवहारो भवेच्चोरे द्यूते ग्राहाख्ययादसि ।निमन्त्रणोपनेतव्यद्रव्ये युद्धादिविश्रभे ॥
4.20.10 · p. 124
अनुष्टुप्
व्यवहारो वाक्प्रयोगे द्यूते संबन्धदण्डयोः ।अभिहारस्तु संनाहे तस्करत्वाभियोगयोः ॥
4.20.11 · p. 124
अनुष्टुप्
द्वैमातुरो जरासन्धे हेरम्बेऽथ परंपरा ।संताने परिपाट्यां च रहोऽन्तिकमुपह्वरम् ॥
4.20.12 · p. 124
अनुष्टुप्
अरुष्करो ना भल्लाते व्रणकारिणि वाच्यवत् ।पुण्ड्रेक्षौ ना त्रिषु मृदौ सुकुमारो निशाचरः ॥
4.20.13 · p. 125
अनुष्टुप्
फेरूलूकाहिरक्षःसु पुंस्यसत्यां निशाचरी ।महावीरो यज्ञपात्रे वज्रे श्वेतहये हरौ ॥
4.20.14 · p. 125
अनुष्टुप्
सिंहेऽग्नौ गरुडे पुंसि त्रिषु प्रवरशूरयोः ।आडम्बरोऽस्त्री संरम्भे गर्जिते तूर्यनिस्वने ॥
4.20.15 · p. 125
अनुष्टुप्
महामात्रो हस्तिपके सचिवे त्रिषु तून्नते ।शतपत्रो राजकीरे दार्वाघाटे शिखावले ॥
4.20.16 · p. 125
अनुष्टुप्
क्लीबे च कमले विश्वंभरा तु क्ष्मा हरौ पुमान् ।उदुम्बरो द्रुदेहल्योर्ना क्लीबे कुष्ठताम्रयोः ॥
4.20.17 · p. 125
अनुष्टुप्
क्लीबे दुरोदरं द्यूते पणे द्यूतकरे तु ना ।शिरीषोत्पलयोः कर्णपूरं ना त्ववतंसके ॥
4.20.18 · p. 125
अनुष्टुप्
पुंसि प्रतिसरः सेनापृष्ठे मण्डनमालयोः ।आरक्षे व्रणशुद्धौ च हस्तसूत्रे च न स्त्रियाम् ॥
4.20.19 · p. 125
अनुष्टुप्
श्रेष्ठेऽनुदीचि प्रतिवाग्घीने च त्रिष्वनुत्तरम् ।
4.20.20 · p. 125