All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
द्व्यक्षरकाण्डः · नान्ताः
॥ इति धान्ताः ॥
वह्निरुक्ष्णि हयेऽग्नौ च मुनिर्बुद्धद्रुमर्षिषु ।बुध्नः शिफायां मूले च सूनुः पुत्रेऽनुजे रवौ ॥
2.18.2 · p. 35
अनुष्टुप्
चीनो मृगान्तरे तन्तौ व्रीहिमेदेंऽशुकान्तरे ।स्वप्नः सुप्तस्य धीर्निद्रा मीनो राश्यन्तरेऽपि च ॥
2.18.3 · p. 35
अनुष्टुप्
धाना भृष्टयवे वृक्षबीजे स्याद्धान्यकेऽपि च ।परस्त्रीभार्ययोर्जानिर्जनिर्जन्म जनिः स्नुषा ॥
2.18.4 · p. 35
अनुष्टुप्
ज्योत्स्नी पटोलिका सा च रात्रिश्चन्द्रिकयान्विता ॥
2.18.5 · p. 35
ज्योत्स्ना सचन्द्रनक्षत्ररात्रौ चन्द्रातपेऽपि च ।रत्नं मणौ च श्रेष्ठे च वनं कानननीरयोः ॥
2.18.6 · p. 35
अनुष्टुप्
अवकाशे स्थितौ स्थानं स्थाने स्यादुचितेऽव्ययम् ।चिह्नमङ्के पताकायां द्युम्नं वित्ते पराक्रमे ॥
2.18.8 · p. 36
अनुष्टुप्
स्नानीयसेकयोः स्नानमेनसी मन्तुकिल्बिषे ।इनो भूपे रवौ पुंसि धनिकस्वामिनोस्त्रिषु ॥
2.18.9 · p. 36
अनुष्टुप्
योनिर्द्वयोर्भगे स्थाने कारणाकरयोरपि ।तनुस्त्वक्काययोः स्त्री स्याद्विरलस्वल्पयोस्त्रिषु ॥
2.18.10 · p. 36
अनुष्टुप्
कठिनाधिकसान्द्रेषु वाद्यमध्यमनृत्तयोः ।मुस्तामुद्गरमेघेषु त्रिषु क्लीबे पुमान्घनः ॥
2.18.11 · p. 36
अनुष्टुप्
वानं शुष्के शुष्कफले वनसम्बन्धिनि त्रिषु ।क्लीबे त्वयं सुरुङ्गायां सौरमे सीवने गतौ ॥
2.18.12 · p. 36
अनुष्टुप्
मानः स्त्रीणां कोपभेदे गर्वे चित्तोन्नतावपि ।मानं प्रमाणे प्रस्थादौ भक्तेऽन्नं भक्षिते त्रिषु ॥
2.18.13 · p. 36
अनुष्टुप्
नग्नो वन्दिक्षपणयोरयं विवसने त्रिषु ।सूनं शून्ये त्रिषु क्लीबे पुष्पे सूना तु मेखला ॥
2.18.14 · p. 36
अनुष्टुप्
रश्मौ नद्यां वधस्थाने रसनाधःस्थलेऽपि सा ।स्याच्छन्नं रहसि क्लीबे छादिते तु त्रिलिङ्गकम् ॥
2.18.15 · p. 36
अनुष्टुप्
सन्नमल्पे विशीर्णादौ विन्नं लब्धे विचारिते ।अन्यद्दारितमिश्रेषु भिन्नमेते त्रयस्त्रिषु ॥
2.18.16 · p. 36
अनुष्टुप्