All kośas › Nānārtharatnamālā
Nānārtharatnamālā Nānārtharatnamālā
1,356 verses · text only, tagging comes next
त्र्यक्षरकाण्डः · वान्ताः
॥ इति लान्ताः ॥
मन्त्री सहायः सचिवौ वृषश्रेष्ठौ तु पुंगवौ ।वल्लवौ सूदगोपालौ मुनिलोध्रौ तु गालवौ ॥
3.26.1 · p. 106
अनुष्टुप्
कितवौ धूर्तदुत्तूरावाहवौ यागसङ्गरौ ।प्रसेवौ स्यूतिवीणाङ्गे प्रभावौ शक्तितेजसी ॥
3.26.2 · p. 106
अनुष्टुप्
त्रिदिवौ गगनस्वर्गौ सृहृद्बन्धू तु बान्धवौ ।प्रभवो विक्रमेऽम्बूनां मूले जननकारणे ॥
3.26.3 · p. 107
अनुष्टुप्
आद्योपलब्धयोः स्थाने विवस्वांस्तु सुरे रवौ ।प्रसवः पुष्पफलयोर्जननानुज्ञयोः सुते ॥
3.26.4 · p. 107
अनुष्टुप्
पारम्पर्यप्रसङ्गे च प्राणिगर्भविमोचने ।उत्सवः कोपमहयोरुत्सेकेच्छाप्रसारयोः ॥
3.26.5 · p. 107
अनुष्टुप्
गजस्कन्धेऽपि पणवो गन्धर्वो गायके पशौ ।अन्तराभवसत्त्वेऽश्वेऽथाश्रवो वचनस्थिते ॥
3.26.7 · p. 107
अनुष्टुप्
प्रतिज्ञाने चोद्धवस्तु स्यान्महे कृष्णमन्त्रिणि ।सुषवी स्त्री कारवेल्ल्यां जीरके कृष्णजीरके ॥
3.26.8 · p. 107
अनुष्टुप्
भैरवो ना क्षेत्रपालभर्गयोर्भीषणे त्रिषु ।विष्णौ वसन्ते वैशाखे माधवो माधवी लता ॥
3.26.9 · p. 107
अनुष्टुप्
रमायामपि शोभायां मधुसम्बन्धिनि त्रिषु ।सैन्धवो लवणे न स्त्री हये ना सिन्धुजे त्रिषु ॥
3.26.10 · p. 107
अनुष्टुप्
आर्तवं स्त्रीरजः पुष्पं ऋतुसंबन्धिनि त्रिषु ।शत्रुत्वे शात्रवं नारौ भार्गवी स्यादुमा रमा ॥
3.26.11 · p. 107
अनुष्टुप्
सितदूर्वा भार्गवस्तु रेणुकासुतशुक्रयोः ।गाण्डीवगाण्डिवौ पार्थचापे चापे च न स्त्रियाम् ॥
3.26.12 · p. 107
अनुष्टुप्
प्रग्रीवमस्त्री ग्रीवायां प्रासादे कलशेऽपि च ।तपस्वी तापसे शोच्ये द्विजिह्वो भुजगे खले ॥
3.26.13 · p. 108
अनुष्टुप्
पार्थिवो भूपतौ भूत्थे क्रमात्पुंसि त्रिषु त्रयः ।राजीवमब्जे राजीवो मृगे मत्स्येऽथ पल्लवः ॥
3.26.14 · p. 108
अनुष्टुप्
अस्त्री प्रवाले ना षिद्गे कैतवं द्यूतदम्भयोः ।
3.26.15 · p. 108